Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 99 of 516

Read in context
Page 99
Page 99 scan
८४सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

पदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरा स्फीताः सुक्षेत्रे कण्टकिद्रुमा ॥ २ ॥ य स्वभावो हि यस्यास्ते स नित्य दुरतिक्रम । श्वा यदि क्रियते राजा तत्कि नाश्नात्युपानहम् ॥ ३ ॥ परोपदेशकुकुशला दृश्यन्ते बहवो जना । स्वभावमतिवर्तन्त सहस्त्रेष्वपि दुर्लभाः ॥ ४ ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमय. किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ५ ॥ सति शीले गुणा भान्ति पुंसा शौर्यादयो यथा । यौवने सदलकारा शोभा बिभ्रति सुश्रुव ॥ ६ ॥ अद्रोह सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधा ॥ ७ ॥ वृत्त यत्नेन सरक्षेद्वित्तमायाति याति च । अक्षीणो वित्तत क्षीणो वृत्ततस्तु हतो हत ॥ ८ ॥ यथा हि मलिनेर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवृत्तस्तु वृत्तशेष न रक्षति ॥ ९ ॥ न कुलं वृत्तहीनाना प्रमाणमिति मे मति. । अन्येष्वपि हि जाताना वृत्तमेव विशिष्यते ॥ १० ॥ अकुलीन कुलीनश्च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in