सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 72 of 516
Read in contextदुर्जननिन्दा । ५७
सः। बाल. पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ १२४ ॥
विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः। यदय नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ १२५ ॥
अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः।
तिमिरे हिं कौशिकाना रूप प्रतिपद्यते दृष्टिः ॥ १२६ ॥
लब्धोच्छ्रायो नीचः प्रथमतर स्वामिनं पराभवति । भूमिरजो रथ्यादानुत्थापकमेव सवृणुते ॥ १२७ ॥ उपकृतमनेन सुहृदयमित्यसतामस्ति न कचिदपेक्षा । होतुः स्वहस्तमाश्रितमुद्धुतोऽग्निर्दहत्येव ॥ १२८ ॥ परवादे दशवदन. पररन्ध्रनिरीक्षणे सहस्राक्षः । सद्वृत्तवित्तहरणे बाहुसहस्रार्जुनः पिशुन.॥ १२९ ॥ परिशुद्धामपि वृत्ति समाश्रितो दुर्जनः परान्भ्यथते । पर्बनाशिनोऽपि भुजगाः परोपतापं न मुञ्चन्ति ॥ १३० ॥ प्रेरयति परमनार्यः शक्तिविहीनोऽपि जगदभिद्रोहे । तेजयति शस्त्रधारा स्वयमसमर्था शिला छेत्तुम् ॥ १३१ ॥
शिरसि निहितोऽपि नित्य यत्नादपि सेवितो बहुस्नेहैः । तरुणीकच इव नीचः कौटिल्य नैव विजहाति ॥ १३२ ॥ व्योम्नि स वास
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in