Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 73 of 516

Read in context
Page 73
Page 73 scan
५८सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

न विशति दोषो रसभाविते सतां मनसि । रसमपि तु न प्रतीच्छति बहुदोष. संनिपातीव ॥ १५६ ॥ परपरितापनकुतुकी गणयति नात्मीयमपि तापम् । परहितेहेतोः पिशुनः सदंशं इव स्वपीडनं सहते ॥ १५७ ॥ सगुणापि हन्त विगुणा भवति खलात्साद्विचित्रवर्णापि । आखुमुखादिव शाटी पदपरिपाटी कवेः कापि ॥ १५८ ॥ कतिपयदिनपरमायुषि मदकारिणि यौवने दुरात्मानः । विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ १५९ ॥ दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम् । दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति ॥ १६० ॥ स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् । तिर्तउस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥ १६१ ॥ पिशुनः खलु सुजनानां खलमेव पुरो निधाय जेतव्यः । कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः ॥ १६२ ॥ वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः । क भेदयंति न सखे खलाश्च गणिकाकटाक्षाश्च ॥ १६३ ॥ कस्तूरिकामृगाणामण्डद्वन्द्वगुणमखिलमादाय । यदि पुनरहं

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in