सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 71 of 516
Read in context५६ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
अहो बत खल. पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः । स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥ ८० ॥ खलः सुजनपैशुन्ये सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमाल्लोके सर्वमावृत्य तिष्ठति ॥८१॥ स साधुवादे मूर्खस्य मात्सर्यगलरोगिणः । जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥ ८२ ॥ मायामय. प्रकृत्यैव रागद्वेषमदाकुलः । महतामपि मोहाय संसार इव दुर्जनः ॥ ८३ ॥ खचित्रमपि मायावी रचयत्येव लीलया । लघुश्च महता मध्ये तस्मात्खल इति स्मृतः ॥ ८४ ॥ खलेन धनमत्तेन नीचेन प्रभविष्णुना । पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥ ८५ ॥ ये श्रम हर्तुमीहन्ते महता चिरसम्भृतम् । वन्द्यास्तेऽसरलात्मानो दुर्जनाः सज्जना इव ॥ ८६ ॥ अहो कुटिलबुद्धीना दुर्ग्राह्यमसता मनः । अन्यद्वचसि कण्ठेऽन्यदन्यदोषपुटे स्थितम् ॥ ८७ ॥ खलेषु सत्सु निर्याता वयमर्जयितु गुणान् । इय सा तस्करग्रामे रत्नक्रयविडम्बना ॥८८॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in