शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 20, कुल 188 में से
संदर्भ में पढ़ें६ शिवदृष्टिः [ आ०-१
स तथा। अनेन निवृत्तचित्कथिता। इच्छाज्ञानक्रियास्तु भिन्नविषयाद्य-
पेक्षया¹ स्फुटीभवन्ति। परावस्थायां पुनः पूर्णोऽहमित्येव स्वस्वभावः
प्रकाशते, तावत्प्रकाशत्वात् तदेव ज्ञानं, संरम्भरूपत्वात्² सैव क्रिया, तत्स्व-
भावत्वेन तदभ्युपगमादिच्छापि स्थितैवेत्याह तदिच्छा तावतीति। तावच्च
स्वरूपं क्रियेति योज्यम्। अथवा तावज्ज्ञानमिति तावच्छब्दः³ क्रियायां
स्त्रीलिङ्गः परिणमनीयः। द्वितीयस्त्वन्ते तावच्छब्दः क्रमार्थः परापरा⁴-
द्यवस्थापेक्षः। अत एव भिन्नविषयाभावेऽपि अभ्युपगमप्रकाशसंरम्भाणां
सर्वदा प्रकाशमयत्वेनाविचलनादिच्छादिव्यवहारयोग्यतैवेत्युक्तं⁵
सुसूक्ष्मेति⁶। सुसूक्ष्मत्वमेषितव्याद्यभावेन विभागापरिकल्पनात्। अत एव
शक्तिसामरस्यं पूर्णचिन्मात्रप्रकाशनात्मकत्वात् चिद्रूपाह्लादपरत्वं चोक्तम्।
सैव च निर्विभागता परावस्था यदैवमास्ते परस्तदेत्युक्ता ॥ ३-४ ॥
अन्यदशायामपि⁷ सा तथाभूतज्ञेयादिशून्यशुद्धपरशिवावस्थास्ती-
त्याह—
न⁸ परं तदवस्थायां व्यवस्थैषा व्यवस्थिता।
यावत्समग्रज्ञानाग्रज्ञातृस्पर्शदशास्वपि । ५ ।।
स्थितैव लक्ष्यते सा च तद्विश्रान्त्या तथा फले।
१ तेन न भिन्नविषयाप्रविभागदशायां व्यभिचार इति भावः।
अनेन संविदानन्दात्मनः सर्वत्रैकरूपत्वेनानपायित्वेन धर्मिरूपेण शक्तिमदा-
त्मनावस्थितस्य भगवतः स्वातन्त्र्योद्रेकबलेनोन्मेष्यमाणानां चेच्छादीनां
शक्तित्वं द्योतितम्। २. स्वात्मोच्छलता।
३ तावती क्रियेत्यर्थः। ४ परावस्थायां क्रमाभावात्। अभ्युपगम
इच्छा। प्रकाशो ज्ञानम्। संरम्भः क्रिया। ५ अव्यभिचारात्। ६ सुसूक्ष्मेति
सूक्ष्मतयैवात्र स्थूलदर्शिनां विशुद्धबोधात्मवादिनां विकल्पपक्षीकृतविमर्शानां
भ्रान्तिरित्यर्थः। ७ घटपटादिरूपभेदप्रथारूपायाम्। ८ ननु पूर्वम् ‘आत्मैव
सर्वभावेषु’ इत्यनेन सर्वपदार्थानामात्माकार एव वेद्यतारख्योऽस्ति
शिव इति स्थापितं तदेव समर्थनीयं, कृतमनयोक्त्या ‘स यदास्ते’ इत्या-
दिकया' यतः प्रकृतमपहायान्यद् ब्रुवत उन्मत्तभाषणमिति प्रकृतविघाताख्यं
दोषमाशङ्क्याह न परमिति। तत्रादौ शक्तिमत्स्वरूपमेव व्यवस्थापितं,
तस्मिंश्च सिद्धे मूलकारणेऽन्यद्वर्ण्यमानं निर्भित्तिचित्रन्यायेनान्यथा घटमानं
सेत्स्यतीति भावः।