सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 19, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 19

आ० - १ ] उत्पलदेवकृतवृत्त्योपेता ५
तथाग्रतो¹ वक्ष्यते । शक्ति²शक्तिमतोर्भेदाच्छक्तिमतश्चैक्यात्³ शक्तिपञ्चकं
परापरावस्था⁴ व्यवहर्तृप्रमात्रपेक्षयेतीश्वरप्रत्यभिज्ञोक्तनीत्या⁵ पुरस्ता-
द्द्रक्ष्यते । निर्वृता वेद्यनिराकांक्षा पूर्णा चिद्यस्य सः, तथा विभुरात्मसात्कृत-
समस्तवेद्यार्थः, अनिरुद्ध⁶ इच्छाप्रसरो यस्य, प्रसरन्त्यौ दृग्ज्ञानं⁷ क्रिया च
यस्य स तथालक्षणः शिवः सर्वेष्वात्मैव ॥ २ ॥
एवं सर्वं शिवरूपमिति स्वसंवेदनसिद्धे व्यवहारमात्रं साध्यमिति
स्थिते वाद्यन्तरविमतिं⁸ निराकरिष्यन् परदशातः प्रभृति घटपटादिस्थिति-
पर्यन्तमेवंरूपशिवतावस्थितिसादृश्यप्रतिपादनं प्रस्तौति—
स यदास्ते चिदाह्लादमात्रानुभवतल्लयः ।
तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ॥ ३ ॥
सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ।
चिद्रूपाह्लादपरमो निर्विभागः परस्तदा ॥ ४ ॥
शिवैक्याख्यातिरूपभ्रान्तिमयसंसारावस्था यावन्नोन्मिषति, तावदपि
तावत्येवोक्तरूपशिवता९ । तथाच शक्तिपञ्चकमपि तदानीमेकरूपमपि व्यव-
हारापेक्षया कार्यसंभवादस्त्येव१० । तथा¹¹ हि परापरावस्थायां योऽहमिति
सहजप्रत्यवमर्शात्मा प्रकाशः, स एव परानपेक्षः पूर्णत्वादानन्दरूपो निर्वृत-
चिन्मयः स्थित एव । सैव स्वतन्त्रा मुख्या शिवता । तदुक्तं चिदाह्लादेति ।
पूर्णचिदानन्दमात्रेऽनुभवः प्रकाशनं नतु बाह्ये, तत¹² एव तत्रैव लयो यस्य
१ 'घटादिग्रह' इत्यादौ । २ अत्र शक्तिपञ्चकेनैव भेदमाशङ्क्याह ।
३ तस्य स्वात्मन्यपि भेदमाशङ्क्याह । ४ सदाशिवत्वमुद्रेकादित्यादौ ।
५ ऐक्ये सिद्धे पूर्णत्वस्य बलादेव लाभ इति व्यतिरिक्ताकांक्षावैकल्यात्—
प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।
उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ॥
स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।' (अ. प्र. सि. २३ का.)
इति परमानन्दस्वभाव इत्यर्थः ।
६ यतः सर्वभावेषु आत्मा अहमिति स्वतन्त्रस्तत एव । ७ प्रकाशो
विमर्शश्च ।
८ वेदान्तानां भिन्नवेद्यवादिनां च । ९ कथितव्याप्तिका । १०
कार्येण कारणानुमानम् । ११ तत्रादौ परापरावस्थायाः चिदानन्दतां समर्थ-
यति । १२ चिदानन्दमात्रव्यतिरिक्तस्य भिन्नज्ञानवदभावात्तत एव प्रकाश-
स्तत्रैव लयश्च ।