सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 9, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 9
पृष्ठ 9 स्कैन

रूपेण स्पशः सन् चराणीति । तदनुमन्यतां भवानिति । पुनर्गौतमो ब्रवीति
हे इन्द्र त्वं यथा येन प्रकारेण चरितुं मन्यसे तथा चरेति । पश्चादिन्द्र-
स्तथैवाचरदिति शेषः । स इन्द्रः तत् तदानीं गौतमोऽहम् इति स्वयं वदन्
गौतमरूपेण गौतम इति जनैरुच्यमानो वा चचारेति यत् तदेवाचरणमाह
गौतमइति । गौतमब्रुवाणेति पदस्य एकदेशोपादानम् ॥ २५ ॥
प्रतीकतः निगदशेषमुपादत्ते—
इत्यहे सुत्यामागच्छ मघवन्निति ॥ २६ ॥
हे मघवन् धनवन् इन्द्र इत्यहे एतावदहे द्व्यहे त्र्यहेऽतिक्रान्ते
सुत्यामागच्छ । परेद्युः सुत्या चेत् श्वः सुत्यामागच्छेत्यादेशः कार्यः । तथा च
जैमिनिः—श्वः सुत्यामित्यौपवसथ्ये निर्दिशेत् इति । सुत्यया समानेऽहनि तु
अद्य सुत्यामागच्छेत्यादेशः कार्यः । तथा द्राह्मायणः—अद्येति समानाहनि
(ला. श्रौ. १. ३. २) इति ॥ २६ ॥
यत्तद्व्याचष्टे—
तद्यथार्हतो ब्रूयादित्यहे वः पक्तास्मि तदागच्छते-
त्येवमेवैतद्देवेभ्यः सुत्यां प्राह ॥ २७ ॥
उपलक्षणमेतत् । तत् तत्र यथार्हतो यथायोग्यं ब्रूयात् । तस्यैव
विवरणम्—इत्यहे एतावदहे द्व्यहे त्र्यहे वा देयाः वः युष्मदर्थं हविषां

  1. Bh MTS स्पर्शः for स्पशः; BJA ०गौ० for ०गौ०.
  2. R. om. यथा.
  3. RMTSI om. स इन्द्रः; R. om. स्वयं वदन्, M. om. स्वयं
  4. MK तत्तदेव० for तदेव०.
  5. K. ०ब्राह्मणेति वदन् तस्य for ब्रुवाणेति पदस्य; Bh TA पदम्
    for पदस्य; JA add एकदेशः before एकदेशोपादानम् .
  6. JA प्रतीते. ।, Bh. प्रतीतिः for प्रतीकतः
  7. K. धनप for धनवन्; Bh JA. त्र्यहे द्व्यहे for द्व्यहे त्र्यहे.
  8. RJA add अहनि after ०सथ्ये See CN. ; ABh J. om. इति ;
    R. सुत्यायाः for सुत्यया; Bh JA आगमने for समाने.
  9. R BBh T समानेऽ for समाना०
  10. R. इतरत्र for तत् तत्र; Bh JSA om. तत्.
  11. Bh TJA त्र्यहे द्वयहे for द्व्यहे त्र्यहे; RBJSIA. om. वा.