सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished274 पृष्ठ

पृष्ठ 103, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 103
पृष्ठ 103 स्कैन

द्वितीयोऽङ्कः ८५
मृदुलतया शान्तिरुपरता भविष्यति । श्रद्धां व्याक्रष्टुं मिथ्यादृष्टिरेव विला-
सिनी परं प्रगल्भेति तदस्मिन्विषये सैव नियुज्यताम् । (पार्श्वतो विलोक्य)
विभ्रमावति, सत्वरमाहूयतां मिथ्यादृष्टिविलासिनी ।
विभ्रमावती-यद्देव आज्ञापयति । (जं देवो आणवेदि) ।
(निष्क्रम्य मिथ्यादृष्ट्या सह प्रविशति)
मिथ्यादृष्टिः-सखि, चिरदृष्टस्य महाराजस्य कथं मुखं प्रेक्षिष्ये ।
न खलु मां महाराज उपालप्स्यते ? (सहि, चिरदिट्ठस्स महाराअस्स कहं
मुहं पेक्खिस्सं । णं खु मं महाराओ उवालहिस्सदि ?)
विभ्रमावती-सखि, त्वन्मुखदर्शनेनात्मानमेव महाराजो न वेत्स्यति ।
उपायः । सा च-शान्तिः । परतन्त्रा-मात्राद्यत्ता । उपनिषत्सकाशात्-उपनिषदः
समीपदेशात् । श्रद्धाऽपकर्षणम्-श्रद्धाया दूरीकरणम् । अतिमृदुलतया-अतिसुकुमार-
तया । उपरता-मृता । श्रद्धासाहचर्यव्यपगमे शान्तेर्नाशस्तदायत्तत्वात्तस्या इति
मनसिकृत्वेदं रूपकम् । व्याक्रष्टुम्-अपगमयितुम् , उपनिषदः समीपाच्चालयितु-
मित्यर्थः । मिथ्यादृष्टिः-नास्तिकता । प्रगल्भा-धृष्टा, क्षमेति भावः । अस्मिन् विषये-
श्रद्धाया उपनिषत्सकाशादपकर्षणरूपे कर्मणि। सा-मिथ्यादृष्टिः । नियुज्यताम्-अधि-
क्रियताम् । 'विभ्रमावति' इदं मिथ्यादृष्टिसख्या नाम, 'अन्यतोऽपि दृश्यते' इति
विभ्रमशब्दस्य दीर्घः । सत्वरम्-शीघ्रम् । आहूयताम्-आकार्यताम् ।
चिरदृष्टस्य-बहोः कालात् परतः साक्षात्कृतस्य । प्रेक्षिष्ये-द्रक्ष्यामि । उपालप्स्यते
इयन्तं कालं कुत्र स्थितासि ? कथं न दृष्टासि ? इत्येवं प्रकारमुपालम्भं न प्रदास्य-
तीति जिज्ञासा ।
त्वन्मुखदर्शनेन-त्वद्वदनावलोकनेन । आत्मानमेव न वेत्स्यति-आत्मानं विस्म-
निषद्के पाससे श्रद्धाको हथिया लें । इस तरह माके वियोगमे शान्ति ढीली पड जायगी ।
श्रद्धाको बहकानेमें मिथ्यादृष्टि ही समर्थ हों सकेगी, अतः इस कार्यके लिये उसे ही नियुक्त
करना चाहिये । (बगलकी ओर ताककर) विभ्रमावति, विलासिनी मिथ्यादृष्टिको
शीघ्र बुला लाओ ।
विभ्रमावती-महाराजकी जो आज्ञा ।
(बाहर जाकर मिथ्या दृष्टिके साथ प्रवेश)
मिथ्यादृष्टि-सखि, बहुत दिनों के बाद महाराज का मुख कैसे देख सकूंगी, क्या
महाराज मुझे उलाहने नही देंगे ?
विभ्रमावती-सखि, तुम्हारा मुख देखकर महाराज अपने को भूल जायेगे, फिर