पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
इस ग्रन्थ के बारे में
पारस्कर गृह्यसूत्र शुक्ल यजुर्वेद (वाजसनेयी शाखा) से सम्बद्ध गृह्यसूत्र है, जिसमें गृहस्थ के घरेलू यज्ञों और संस्कारों की विधि सूत्र-शैली में दी गई है। उत्तर भारत में आज भी विवाह, उपनयन और अन्य संस्कारों की पद्धतियाँ बहुत हद तक इसी पर आधारित हैं, इसलिए कर्मकाण्ड करने वाले पण्डितों और वैदिक अध्येताओं के लिए यह विशेष महत्त्व का ग्रन्थ है।
ग्रन्थ तीन काण्डों में है, और प्रत्येक काण्ड कण्डिकाओं में बँटा है। इसमें विवाह, गर्भाधान, पुंसवन, सीमन्तोन्नयन, जातकर्म, नामकरण, अन्नप्राशन, चूडाकरण, उपनयन और समावर्तन जैसे संस्कारों के साथ पञ्च महायज्ञ, श्रावणी कर्म और अन्य गृह्य कर्मों का वर्णन है।
यह संस्करण श्री सदाशिव केन्द्रीय संस्कृत विद्यापीठ, पुरी (उत्कल) का पहला प्रकाशन है। इसमें विद्यापीठ के धर्मशास्त्र अध्यापक रहे धर्मशास्त्र-साहित्याचार्य वेदशास्त्री पण्डित कुलमणि मिश्र शर्मा की 'मार्गदर्शिनी' व्याख्या दी गई है, जो सूत्रों को स्मृति-ग्रन्थों के प्रमाणों के साथ समझाती है। इसके प्रकाशक विद्यापीठ के प्राचार्य डॉ. हरिहर झा हैं। लगभग 263 पृष्ठों का यह ग्रन्थ संस्कार-विधि के व्यावहारिक और शास्त्रीय, दोनों पक्षों को समझने में सहायक है।
( ७० )
मन्त्रार्थः (प्रजापतिः त्रिष्टुप् इन्द्रः वामकर्णजपे )— हे इन्द्र ! परमैश्वर्ययुक्त, अस्मे-अस्मिन् कुमारे श्रेष्ठानि-बहुमूल्यानि, द्रविणानि-धनानि, चित्ति-ज्ञानं, दक्षस्य-दक्षप्रजापतेः, सुभगत्त्वं-सौभाग्यं च धेहि-स्थापय “रयीणां धनानां, पोषं-पुष्टिं,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंद्वितीयमन्त्रो यथा ( प्रजापतिः अनुष्टुप् अन्नम् आज्यहोमे )—
( ७७१ )
मन्त्रार्थः (प्रजापतिः त्रिष्टुप् वाक् आज्यहोमे)—देवीं-देवसम्बन्धिनीं वाचं-वाणीं, देवाः-प्राणादिवायवः, अथवा देवीं-वाग्देवीं, देवा-ब्रह्मादयः, अजनयन्त- उत्पादितवन्तः । तां- वाणीं, विश्वरूपाः- नानारूपाः ऋषिमूनिबाह्मणादयः पशवः- जीवाः, वदन्ति- भाषन्ते । सा- प्रसिद्धा वाग्देवी,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें( ७२ )
प्राशनान्ते— स्विष्टकृदाद्याहुत्यनन्तरं संस्रवप्राशनान्ते सर्वान् मधुरादीन् रसान् , सर्वमन्नं भक्ष्यभोज्यलेह्यपेयादि एकतः एकस्मिन् पात्रे उद्धृत्य-संस्थाप्य, अथ- अन्नसंस्थापनानन्तरम् एनं- कुमारं प्राशयेत्- प्राशनं कारयेत् पिता तूष्णीं-विनामन्त्रम्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें( ७३ )
अन्नपर्याय वा। ततो ब्राह्मणभोजनमन्नपर्याय वा
**ततो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[ द्वितीयकाण्डः ]
( चूड़ाकरणकेशान्तौ )
सांवत्सरिकस्य चूडाकरणम् । २-१-१
अथ चूडाकरणकेशान्तौ तन्त्रेण सूत्रयति सांवत्सरिकस्येति । सांवत्सरिकस्य—संवत्सरः- अब्दः अतिक्रान्तः यस्य सः सांवत्सरिकः, तस्य कुमारस्य, चूडाकरणं—चूडाकरणसंस्कारं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें( ७५ )
कारयित्वा अङ्के- उत्सङ्गे आधाय- स्थापयित्वा, अग्नेः पश्चात्- पश्चिमभागे उपविशति ।
अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्ते शीतास्व-
प्सूष्णा आसिञ्चति "उष्णेन वाय उदकेनेह्यदिते
केशान् वपेति । २-१-६
ततः पिता
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें( ७६ )
मन्त्रेण” अत्र गोदानपदेन स्वपतः जनस्य यः शिरोभागः भूमौ स्थाप्यते
स उच्यते । गवि भूमौ दोयते इति गोदानमिति विग्रहः । तेन शिरसः
पार्श्वत्रयं गोदानपदवाच्यम् ।
मन्त्रार्थः (प्रजापतिः गायत्री आपः क्लेदने;— हे कुमार ! सवित्रा
सूर्येण, प्रसूताः—उत्पादिताः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें( ७७ )
येनावपदित्यादिमन्त्रेण सकेशानि — केशसहितानि, कुशतरुणानि प्रच्छिद्य — खण्डयित्वा अग्नेरुत्तरतः — उत्तरस्यां दिशि भूभागे, ध्रियमाणे—स्थाप्यमाने, आनडुहे — आर्षभे, गोमयपिण्डे, प्रास्यति — प्रक्षिपति ।
मन्त्रार्थः (लम्बायनः पङ्क्तिः सविता कुशतरुणप्रच्छेदने) —
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें( ७८ )
उन्दनादिगोमयपिण्डनिधानान्ते, येन भूरिरित्यादिमन्त्रेण सकेशानां कुशतरूणां छेदनं कुर्यात् । ततः वारद्वयं विना मन्त्रं पूर्ववत् छेदनम् ।
मन्त्रार्थः (वामदेवः यजुः क्षुरः केशच्छेदने) — येन—ब्राह्मणा, भूरिः—प्रचुरः, चरा—चरणशीलः गतिशीलः वायुः चन्द्रो वा, ज्योक्—चिरं, दिवं—द्युलोकं, पश्चात्—अनन्तरं, सूर्यम्—आदित्यं च चरति—प्रविशति, तेन—प्रसिद्धेन ब्रह्मणा—मन्त्रलक्षणेन अर्थात् मन्त्रसंस्कृत क्षुरेण ते—कुमारस्य, वपामि—मुण्डनं करोमि । किमर्थं वपामि ? जीवातवे—जीवनहेतवे, जीवनाय—आयुषे, सुश्लोक्याय—शोभनयशोलाभाय, स्वस्तये—अविनाशाय ।
त्रिः क्षुरेण शिरः प्रदक्षिणं परिहरति, समुखं केशान्ते
यत् क्षुरेण मज्जयता सुपेशसा वप्त्वाऽऽवपति केशाञ्छिन्धि
शिरो माऽस्यायुः प्रमोषीः, मुखमिति च केशान्ते । २-१-१७
अनन्तरं त्रिः—त्रीन् वारान्, क्षुरेण-पूर्वोक्तेन, शिरः—कुमारस्य मूर्द्धानं, प्रदक्षिणं—प्रदक्षिणं यथा भवति तथा परिहरति-शिरसः समन्तात् प्रदक्षिणं क्षुरं भ्रामयति, "यत् क्षुरेण इत्यादिना मन्त्रेण" । अत्रापि चकारात् सकृत् समन्त्रकं क्षुरभ्रामणं वारद्वयममन्त्रकम् ।
केशान्ते-केशान्तकर्मणि, समुखं-मुखसहितं शिरः तथैव परिहरति । पुनश्च केशान्ते मन्त्रे मुखमिति पदम् अधिकमावपेत् ।
मन्त्रार्थः (वामदेवः यजुः क्षुरः भ्रामणे) — हे क्षुर ! यत्-यस्मात्, मज्जयता-एनं कुमारं संस्कुर्वता, सुपेशसा-शोभयता, क्षुरेण-क्षौरसाधनेन, वप्त्वा-मण्डयित्वा, आवपति-गोमयपिण्डे केशान् प्रक्षिपति । अतः अस्य केशान् छिन्धि-अवखण्डय, शिरः-मस्तकं (केशान्ते-शिरो मुखंचेति द्वयं) मा-न, छिन्धि । आयुः-जीवनकालं मा प्रमोषीः-न अपहर ।
ताभिरद्भिः शिरः समुन्द्य नापिताय क्षुरं प्रयच्छति अक्षण्वन् परिवपेति । २-१-१८
( ७६ )
ताभिः- पूर्वोक्ताभिः, अद्भिः- शीतोष्णाभिः, शिरः- कुमारस्य शिरः, समुन्द्य- आर्द्रीकृत्य, नापिताय- क्षौरकर्त्रे, क्षुरं प्रयच्छति-अर्पयति । अक्षण्वन् परिवप इति मन्त्रेण ।
मन्त्रार्थः (वामदेवः यजुः क्षुरः वपने)—अक्षण्वन्- अस्य कुमारस्य शिरः क्षतमकुर्वन् परि- सर्वतः, वप- मुण्डय ।
यथामङ्गल केशशेषकरणम् । २-१-१९
केशशेषकरणं- केशानां शेषकरणं शिखास्थापनमित्यर्थः । यथामङ्गल- यथाकुलाचारं भवति । अत्र कुलाचारानाह लौगाक्षिः "दक्षिणतः कम्बुजवासिष्ठानाम्, उत्तरतोऽत्रिकश्यपानाम्, मुण्डा भृगवः, पञ्चचूडा आङ्गिरसः, वाजसनेयिनामेका, मङ्गलार्थ शिखिनोऽन्ये इति ।
अनुगुप्तमेतठ्ं सकैशं गोमयपिण्डं निधाय गोष्ठे पल्वल उदकान्ते वा । २-१-२०
अनुगुप्तम्- आच्छादितम्, एतं- पूर्वस्थापितं, सकैशं- केशसहितं, गोमयपिण्डं, गोष्ठे- गवां व्रजे, पल्वले- अल्पोदके सरसि, उदकान्ते- उदकसमीपे, वा, निधाय- स्थापयित्वा, कर्म समापयेदिति शेषः ।
आचार्याय वरं ददाति । २-१-२१
आचार्याय- स्वकीयाय आचार्याय, वरम्- आचार्याभिलषितं द्रव्यं ददाति कर्मकर्त्ता पित्रादिः । तदभावे चतुःकार्षापणो वर इति वृद्धाः इति गदाधरः ।
गां केशान्ते । २-१ २२
केशान्ते- केशान्ताख्यसंस्कारकर्मणि, आचार्याय गां ददाति ।
संवत्सरं ब्रह्मचर्यमवपनं च केशान्ते । २-१-२३
केशान्ते- केशान्तकर्मणि, संवत्सरं- संवत्सरपर्यन्तम् "अत्यन्तसंयोगे द्वितीया" ब्रह्मचर्यम् अवपनं च करणीयम् ।
द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः । २-१-२४
( ८० )
संवत्सरपर्यन्तं ब्रह्मचर्यादिपालनाशक्तौ द्वादशरात्रं, षड्रात्रम्, अन्ततः—परिशेषे, त्रिरात्रं वा ब्रह्मचर्यम् अवपनं च करणीयम् ।
गर्भाधानादिषु संस्कारकर्मसु पिता एव कर्त्ता, तदभावे अपरः सन्निहितः । एतानि संस्कारकर्माणि स्त्रीशूद्रयोरपि विना मन्त्रेण भवन्ति ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे प्रथमा कण्डिका ॥
( उपनयनम् )
अष्टवर्षं ब्राह्मणमुपनयेत् । २-२-१
अष्टवर्षम्- अष्टौ वर्षाणि जन्मतः अतीतानि यस्य असौ अष्टवर्षः, तं ब्राह्मणम्- द्विजोत्तमम्, उपनयेत्- उपनयनाख्येन संस्कारेण संस्कुर्यात् । आचार्यस्य उप-समीपे, नयनं- प्रापणम् उपनयनशब्देनोच्यते ।
गर्भाष्टमेषु वा । २-२-२
गर्भसहचरितोऽब्दः अष्टमः येषां तानि गर्भाष्टमानि तेषु अतीतेषु, अर्थात् जन्मतः अष्टमे वर्षे उपनयेत् । वा इति पक्षान्तरम् । गर्भाष्टमे इति गदाधरोद्धृतः पाठः । तन्मते गर्भसहिताष्टवार्षिकमुपनयेत् ।
एकादशवर्षं राजन्यम् । २-२-३
एकादशवर्षम्- एकादश वर्षाणि जन्मतः अतीतानि यस्य तादृशं राजन्यं- क्षत्रियम् उपनयेदिति शेषः ।
द्वादशवर्षं वैश्यम् । २-२-४
जन्मतः द्वादश वर्षाणि अतीतानि यस्य तादृशं वैश्यमुपनयेत् ।
यथामङ्गलं वा सर्वेषाम् । २-२-५
वा- अथवा, सर्वेषां- ब्राह्मणक्षत्रियविशां, यथामङ्गलं- यथाकुलाचारम् उपनयनं कारयेदिति विकल्पः ।
( ८१ )
ब्राह्मणान् भोजयेत्तं च । २-२-६
उपनयनकालमभिधाय इदानीं कर्माह—ब्राह्मणान्—त्रीन् ब्राह्मणान्, भोजयेत्—आशयेत्, तं—कुमारं च भोजयेत् ।
पर्युप्तशिरसमलंकृतमानयन्ति । २-२-७
पर्युप्तशिरसं—परि-सर्वतः उप्तं—मुण्डितं शिरः यस्य स पर्युप्तशिराः तं कुमारम्, अलंकृतं—यथासम्भवसुवर्णादिनिर्मितकटककुण्डलाद्यलंकारैर्भूषितम्, आनयन्ति आचार्यपुरुषाः आचार्यसमीपम् ।
पश्चादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति । २-२-८
आचार्यः माणवकम् अग्नेः पश्चात्—पश्चिमभागे स्वस्य दक्षिणतः अवस्थाप्य—अवस्थितं कारयित्वा, ब्रह्मचर्यम् आगाम् इति ब्रूहि इति वाचयति ।
मन्त्रार्थः—ब्रह्मचर्यं प्रति अहम् आगाम्—आगतोऽस्मि ।
ब्रह्मचार्यसानीति च । २-२-९
ब्रह्मचारी असानि इति ब्रूहि इति आचार्यः माणवकं प्रेरयति । ब्रह्मचारी च आचार्यप्रेरितः ब्रह्मचार्यसानीति च वदेत् ।
मन्त्रार्थः—ब्रह्मकर्म चरतीति एवंशीलो ब्रह्मचारी,असानि—भवामि ।
अथैनं वासः परिधापयति—
येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतम् ।
तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चस इति ।
२-२-१०
अथ—वाचनानन्तरम् एनं—कुमारं वासः—शाणादिवासः स्वस्ववर्णविहितं, परिधापयति—परिहितं कारयति आचार्यः ‘येनेन्द्राये’ति मन्त्रेण ।
मन्त्रार्थः(अङ्गिरा बृहती बृहस्पतिः वासः परिधापने)—हे माणवक ! बृहस्पतिः—देवानामाचार्यः, येन-येन विधिना इन्द्राय अमृतम्—अहतं वासः पर्यदधात्—परिधापितवान्, तेन—तेन विधिना, त्वा—त्वां माणवकम् आयुषे—आयुर्लाभाय, दीर्घायुत्वाय—दीर्घजीवनाय, बलाय-
( ८२ )
शक्तिवृद्धये, वर्चसे—तेजोलाभाय च, परिदधामि—परिधापयामि । अत्र अन्तर्धटितोण्यर्थः ।
मेखलां बध्नीते—
इयं दुरुक्तं परिबाधमाना वर्णं पवित्रं पुनती म आगात् ।
प्राणापानाभ्यां बलमादधाना स्वसा देवी सुभगा मेखलेयमिति ।
२-२-११
मेखलां—मुंजात्तृणादिनिर्मितां, बध्नीते—माणवकस्य कटिप्रदेशे प्रादक्षिण्येन वेष्टयति आचार्य्यः 'इयं दुरुक्तमित्यादिना ।
मन्त्रार्थः (वामदेवः त्रिष्टुप् मेखला तद्वन्धने)— इयं—मेखला, मे—मम माणवकस्य, दुरुक्तम्—असत्याप्रियादिदुर्भाषितम्, अनुपनीतोऽयमिति अपवादं वा परिबाधमाना—परितः, निराकुर्वाणा, पवित्रं—शुद्धं, वर्णं—ब्राह्मणत्वादि, पुनती—प्रक्षालयन्ती सती, आगात्—आगता, सा इयं मेखला देवी—स्तुत्यादियुक्ता, प्राणापानाभ्यां, बलं—शक्तिम्, आदधाना—अर्पयन्ती, स्वसा—भगिनी, तद्वत् नित्यं हितकारिणी अस्तु इति भावः ।
युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति वा ।
२-२-१२
मेखलाबन्धने मन्त्रविकल्पमाह “युवासुवासा इति—
मन्त्रार्थः (अङ्गिरा बृहती बृहस्पतिः परिधाने)— सुवासा—शोभनं वासः—वस्त्रं यस्य सः, परिवीतः—आच्छादितः, युवा—युवकः, आगात्—आगतः, स वस्त्रधारी जायमानः सन् श्रेयान् भवति । कवयः—क्रान्तदर्शिनः, स्वाध्यः—शुद्धचित्ताः, मनसा देवयन्तः—मनसा स्तुवन्तः, धीरासः—धीमन्तः, तं वस्त्रधारिणम् उन्नयन्ति—उत्कर्षं गमयन्ति प्रशंसन्ति इति भावः ।
तूष्णीं वा । २-२-१३
( ८३ )
वा—पक्षान्तरे, तूष्णीं—विना मन्त्रं, मेखलां बध्नोते ।
यद्यपि पारस्कराचार्येण यज्ञोपवीतधारणं न सूत्रितं, तथापि “एकवस्त्राः प्राचीनावीतिनः”३-१० १८ इति अग्रे प्रेतोदकदाने प्राचीनावीतत्वविधानात् सर्वकर्माङ्गत्वेन सदाधार्यत्वात् कर्काचार्यादिसकलभाष्यकारसम्मतत्वात् सकलदेशशिष्टाचाराच्चात्र यज्ञोपवीतं ग्राह्यं शाखान्तरमन्त्रेण । स मन्त्रो यथा—
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।
मन्त्रार्थः (गौतमात्रिभरद्वाजाः त्रिष्टुप् ब्रह्मविष्णुमहेश्वरा यज्ञोपवीताभिमन्त्रणे)— यत् प्रसिद्धं, यज्ञोपवीतं— यज्ञाय—यज्ञहेतवे उप— उपरि स्कन्धदेशे वीतं—परिहितं कार्पासादिसूत्रनिर्मितं, तत् परमं— पर आत्मा मीयते ज्ञायते अनेनेति परमं, तस्य मन्त्रोपदेशाधिकारहेतुत्वात्, पवित्रं—शोधकं, पुरस्तात्—सृष्टेः पूर्वं, प्रजापतेः—ब्रह्मणः, सहजं— सहजातम्, आयुष्यम्—आयुषे हितम् आयुष्यकरजपादिकर्मसु उपादेयत्वात् “सदोपवीतिना भाव्य”मित्यादिवचनात् । अग्र्यं—मुख्यं, शुभ्रं— निर्मलं, तत् यज्ञोपवीतं, प्रतिमुञ्च—धारय । प्रतिपूर्वो मुञ्चतिर्धारणे वर्त्तते इति शत्रुघ्नः । प्रतिपूर्वो मुञ्चतिर्बन्धनार्थ इति गदाधरः । तन्मते प्रतिमुञ्च—बध्नामि इत्यर्थः । एतस्य यज्ञोपवीतस्य ग्रहणेन बलं— शक्तिः, तेजः—कान्तिश्च अस्तु ।
अथ ऐणेयमजिनं प्रयच्छति मित्रस्यचक्षुरित्यादिमन्त्रेण हरिहरादिनिर्देशात् । मन्त्रो यथा—
“मित्रस्य चक्षुर्द्धरुणं बलीयस्तेजो यशस्वी स्थविरं समिद्धम्
अनाहनस्यं वसनं जरिष्णुः परीदं वाज्यजिनं दधेऽहम् ।
दण्डं प्रयच्छति । २-२-१४
अथ आचार्यः माणवकाय दण्डं—पालाशादिवृक्षोद्भवं प्रयच्छति ।
( ८४ )
तं प्रतिगृह्णाति—
यो मे दण्डः परापतद् वैहायसोऽधिभूम्याम् ।
तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसाये'ति । २-२-१५
तम्— आचार्यदत्तं दण्डं प्रतिगृह्णाति— स्वीकारोति माणवकः “यो मे दण्ड” इति मन्त्रेण ।
मन्त्रार्थः (प्रजापतिः यजुः दण्डः तद् ग्रहणे — हे आचार्य ! यः— सुप्रसिद्धः, वैहायसः— विहायसि—आकाशे भवः दण्डः अधिभूम्यां— भूमेः उपरि, मे— मह्यं मदर्थं, परापतत्— आगच्छत्, तं— दण्डम्, अहं— माणवकः आयुषे— आयुर्लाभाय, ब्रह्मणे— वेदलाभाय, ब्रह्मवर्चसाय— वैदिकतेजोलाभाय च पुनः आददे— गृह्णामि । दण्डस्य स्कन्धस्थापनेन पुनरूर्ध्वगमनमिति पुनःशब्दस्यार्थः ।
दीक्षावदेके दीर्घसत्रमुपैतीति वचनात् । २-२-१६
एके— एके आचार्याः, दीक्षावत्— सोमयागे दीक्षायां यथा दण्डप्रदानं तथा अत्र दण्डग्रहणम् इच्छन्ति । तत्र “उच्छ्रयस्व वनस्पत” इत्यादिमन्त्रेण यजमानः दण्डं गृह्णाति, तद्वदत्र ब्रह्मचारी गृह्णातीति तेषां मतम् । तत्र ते कारणमाहुः— 'दीर्घसत्रमुपैतीतिवचनात्— 'दीर्घसत्रं वा एष उपैति यो ब्रह्मचर्यमुपैति” इत्यारभ्य ब्रह्मचर्यस्य दीर्घसत्रसम्पत्प्रतिपादकवचनबलात् ।
अथास्याऽद्भिरञ्जलिनाऽञ्जलिं पूरयति-
आपोहिष्ठेति तिसृभिः । २-२-१७
अथ— दण्डप्रदानान्तरम्, आचार्यः अस्य— माणवकस्य अञ्जलिम्, अञ्जलिना— निजाञ्जलिना अप आदाय ताभिरद्भिः पूरयति “आपोहिष्ठेत्यादिभिः तिसृभिः ऋग्भिः” । ताश्च ऋचः १-८-६ सूत्रव्याख्यानावसरे प्रदर्शिताः ।
अथैनठूं सूर्यमुदीक्षयति—तच्चक्षुरिति । २-२-१८
( ८५ )
अथ— अञ्जलिपूरणानन्तरम्, आचार्यः एनं—माणवकं, 'सूर्यम् उदीक्षस्व' इति प्रैषेण सूर्यम्—आदित्यम्, उदीक्षयति—उर्ध्वमुखं कारयित्वा प्रदर्शयति । स च प्रेषितः माणवकः "तच्चक्षुरिति मन्त्रं पठन् पश्यति । स च मन्त्रः १-१७-६ सूत्र व्याख्यायां दर्शितः ।
अथाऽस्य दक्षिणाँ समधि हृदयमालभते—
मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु ।
मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति । २-२-१९
अथ—सूर्यदर्शनानन्तरम्, अस्य—माणवकस्य, दक्षिणांसम् अधि—दक्षिणस्कन्धस्य उपरि स्वं दक्षिणहस्तं नीत्वा, माणवकस्य हृदयं—वक्षः, आलभते—स्पृशति "मम व्रते ते" इत्यादिना मन्त्रेण । व्याख्यातश्चेदृशो मन्त्रः(१-१-८) विवाहप्रकरणे । तत्र 'प्रजापतिस्त्वा नियुनक्तु मह्यमिति, अत्र तु प्रजापतिस्थाने बृहस्पतिरिति विशेषः ।
बृहस्पतिः—बृहतां—मन्त्राणां पतिः ।
अथाऽस्य दक्षिणं हस्तं गृहोत्वाऽऽह को नामाऽसीति । २-२-२०
अथ—हृदयालम्भनानन्तरम, अस्य—माणवकस्य, दक्षिणं हस्तं स्वदक्षिणहस्तेन गृहीत्वा "को नामासि" इति आह—वदति आचार्यः ।
असावहं भो ! इति प्रत्याह । २-२-२१
माणवकः "असावहं भो !—असौ अमुकशर्माऽहं भो ! इति प्रत्याह—प्रतिवचनं करोति ।
अथैनमाह कस्य ब्रह्मचार्यसीति । २-२-२२
अथ—प्रतिवचनानन्तरम्, एनं—माणवकं "कस्य ब्रह्मचार्यसि" इति पृच्छति आचार्यः ।
( ८६ )
भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्य-
ग्निराचार्यस्तवाहमाचार्यस्तवासाविति । २-२-२३
भवत इति—भवतः इति भवत एव ब्रह्मचारी अस्मि इति माणवकेन उच्यमाने आचार्यो वदति "असौ अमुकशर्मन् इन्द्रस्य ब्रह्मचारी असि, अग्निराचार्यस्तव—तव आचार्यः अग्निरेव, अहं तव आचार्यः।
अथैनं भूतेभ्यः परिददाति—
प्रजापतये त्वा परिददामि, देवाय त्वा सवित्रे ।
परिददाम्यद्भ्यस्त्वौषधिभ्यः परिददामि
द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः
परिददामि, सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यारिष्ट्या इति ।
२-२-२४
अथ—अनन्तरम्, आचार्यः एनं—माणवकं, भूतेभ्यः—प्रजापति-प्रभृतिभ्यः, परिददाति—परितः रक्षणार्थं प्रयच्छति, "प्रजापतये त्वा इत्यादिना मन्त्रेण।
मन्त्रार्थः सुगमः ( प्रजापतिः यजुः प्रजापत्यादयः रक्षणे ) । प्रजापतिः—स्रष्टा । भूतानि द्यावापृथिव्यादीनि पञ्च । अरिष्ट्यै—रक्षायै ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे द्वितीया कण्डिका ॥
— ४०४ —
( ८७ )
प्रदक्षिणमग्निं परीत्योपविशति । १
परिदानान्तरं माणवकः अग्निं प्रदक्षिणं यथा स्यात्तथा परीत्य-परिक्रम्य, उपविशति अग्नेः पश्चात्—पश्चिमायां दिशि, आचार्यस्योत्तरभागे ।
अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्तेऽथैनं सं
शास्तिब्रह्मचार्यस्यपोशान, कर्म कुरु, मा दिवा सुषुप्या,
वाचं यच्छ, समिधमाधेह्यपोशानेति । २
ततः—अन्वारब्धः—ब्रह्मणा स्पृष्टः आचार्यः, आज्याहुतीः—आघारादिस्विष्टकृदन्ताश्चतुर्दशाहुतीः, हुत्वा प्राशनान्ते—संस्रवप्राशनान्ते अथ—अनन्तरम्, आचार्यः, एनं—समीपे वर्त्तमानं माणवकं संशास्ति—शिक्षयति । यथा—ब्रह्मचारी असि इत्याचार्येण पृष्टः अशानि इति माणवकः ब्रूयात् । तथा अपोऽशान इत्युक्तः अशानि इति, कर्म कुरु इत्युक्तः करवाणि इति, मा दिवा सुषुप्या इत्युक्तः न स्वपामि इति, वाचं यच्छ इत्युक्तः यच्छानि इति, समिधमाधेहि इत्युक्तः आदधानि इति, अपोऽशान इत्युक्तः अशानि इति ब्रूयात् । यच्छ-नियमय । आधेहि—अग्नौ प्रक्षिप ।
अथास्मै सावित्रीमन्वाहोत्तरतोऽग्नेः प्रत्यङ्मुखायोपविष्टायो-
पसन्नाय समीक्षमाणाय समीक्षिताय । ३
अथ— अनुशासनानन्तरम् आचार्यः अग्नेः उत्तरतः—उत्तरस्यां दिशि उपविष्टाय, प्रत्यङ्मुखार्थ— पश्चिमाभिमुखाय, उपसन्नाय—पादोपसंग्रहणादिना भजमानाय, तथा, समीक्षमाणाय—सम्यगाचार्यमवलोकयते, समीक्षिताय—आचार्येण अवलोकिताय अस्मै—प्रागुक्ताय ब्रह्मचारिणे, सावित्रीं—सवितृदेवत्यां “तत्सवितु”रिति ऋचम् अन्वाह—उपदिशति ।
दक्षिणतस्तिष्ठत आसीनाय वैके । ४
( ८८ )
एके— एके आचार्याः, दक्षिणतः— अग्नेर्दक्षिणभागे, तिष्ठते— दण्डायमानाय वा—पक्षान्तरे आसीनाय— उपविष्टाय सावित्रीं दद्यादिति मन्यन्ते ।
पच्छोऽर्द्धर्चशः सर्वां च तृतीयेन सहानुवर्त्तयन् । ५
सावित्रीप्रदानप्रकारमाह— पच्छः— पादशः, प्रथमं पादं पादं शिक्षयेदिति भावः । ततः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
( ८६ )
त्रिष्टुपं छन्दः यस्याः सा त्रिष्टुप्। तां त्रिष्टुभं—सावित्रीं राजन्यस्य—क्षत्रियस्य ब्रह्मचारिणः अनुब्रूयात्।
त्रिष्टुप् सावित्री यथा—
'देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय।
दिव्यो गन्धर्वः केतपूः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें