सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

एकादश, मरुतः—एकोनपञ्चाशत् च नः—अस्माकं गोप्तारः—

( १६० )

अहं ब्रह्माभिगुप्तः—ब्रह्मणा वेदेन अभितः गुप्तः सन् सुरक्षितः—
निष्प्रत्यूहः स्यां—भवेयम्।

३- विश्वेदेवास्त्रयोदश आदित्या द्वादश, वसवः अष्टौ, रुद्रा—
एकादश, मरुतः—एकोनपञ्चाशत् च नः—अस्माकं गोप्तारः—
रक्षितारः, सन्तु—भवन्तु । परमेष्ठी—परमे स्थाने वर्त्तमानः प्रजापतिः
मयि—यजमाने ऊर्जं—बलं, प्रजां—सन्ततिम्, अमृतम्—अमरणधर्मत्व-
मानन्दं वा दीर्घमायुः—चिरजीवित्वं च दधातु—सुस्थितं करोतु ।

अष्टकायै स्वाहा । ७

अष्टकायै स्वाहा इति मन्त्रेण चतुर्थीमाहुतिं जुहुयादित्युक्तमेव । प्रथमाष्टकाया इन्द्रदेवताकत्वेन अपूपहविष्कत्वेन च उक्तत्वात् स्थालीपाकहोमानन्तरम् इन्द्राय स्वाहा इति अपूपेन एकामाहुतिं हुत्वा उभयोः स्विष्टकृद्धोमं कुर्यात् । इति प्रथमाष्टकानिरूपणम् ।

मध्यमा गवा । ८

प्रथमाष्टकायामष्टकासाधारणविधानमुक्त्वा सम्प्रति मध्याष्टकायां विशेषमाह । मध्यमा—मध्यमाष्टका पौषपूर्णिमाया ऊर्ध्वमागच्छन्ती कृष्णाष्टमी, सा गवा—गोपशुना कर्त्तव्येति शेषः । अत्र यद्यप्याचार्येण गोपशुरुक्तस्तथापि "अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु" इति (१-१५६) याज्ञवल्क्यस्मरणात् । तथा च कलिवर्ज्ये—

देवरेण सुतोत्पत्तिर्वानप्रस्थाश्रमग्रहः ।
दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च ॥
समुद्रयानस्वीकारः कमण्डलुविधारणम् ।
महाप्रस्थानगमनं गोपशुश्च सुराग्रहः ॥
अग्निहोत्रहवण्याश्च लेहो लीढ़ा परिग्रहः ॥
असवर्णासु कन्यासु विवाहश्च द्विजातिषु ।
वृत्तस्वाध्यायस्वापेक्षमघसंकोचनं तथा ।
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च ॥

( १६१ )

प्रायश्चित्ताभिधानञ्च विप्राणां मरणान्तिकम् ।
संसर्गदोषः पापेषु मधुपर्के पशोर्वधः ॥
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।
शामित्रं चैव विप्राणां सोमविक्रयणं तथा ॥
दीर्घकालं ब्रह्मचर्यं नरमेधाश्वमेधकौ ।
कलौ युगे त्विमान् धर्मान् वर्ज्यानाहुर्मनीषिणः ॥

इति गोपशोर्विशेषवर्जनीयत्वाच्च गवालम्भः न कर्त्तव्यः । किन्तु अनिषिद्ध पश्वन्तरेण अवश्यकर्त्तव्याष्टकादि कर्म विधेयम् इति हरिहरः । छागाभावे चरुरिति विश्वनाथः । मन्मते चरुरेव हविः छागस्यापि लोकविद्विष्टत्वात् अस्वर्ग्यत्वाच्च ।

तस्यै वपां जुहोति “वह वपां जातवेदः पितृभ्य इति । ६

तस्यै—तस्याः गोः, अत्र षष्ठ्यर्थे चतुर्थी । वपां—नाभिस्थचर्म-विशेषं जुहोति “वह वपामित्यादिना मन्त्रेण । पुनरवदानहोमः विश्वेभ्यो देवेभ्यः स्वाहेत्येकाहुतिकः वैश्वदेवीति कीर्त्तनात् । इति मध्यमाष्टका-निरूपणम् ।

( अथ अन्वष्टका )

श्वोऽन्वष्टकासु सर्वासां पार्श्वसक्थिसव्याभ्यां परिवृते पिण्डपितृयज्ञवत् । १०

सर्वासां—चतसृणामष्टकानां, श्वः—परेद्युः, अन्वष्टकासु—अष्टका-मनु—पश्चात् भवन्तीति अन्वष्टकाः तासु, परिवृते—सर्वत आच्छादिते, आवसथ्याग्निगृहे, पार्श्वसक्थिसव्याभ्यां—पार्श्वं च सक्थि च पार्श्वसक्थिनी ते च सव्ये च पार्श्वसक्थिसव्ये ताभ्यां पार्श्वसक्थिसव्याभ्यां पशोः सव्य पार्श्वसव्यसक्थिनो मांसेन इत्यर्थः । अत्र सामानाधिकरण्ये विशेषणीभूतस्य सव्यशब्दस्य उत्तरपदत्वं च्छान्दसम् । पिण्डपितृयज्ञवत्—पिण्डपितृयज्ञविधिना तेन अपराह्न—प्राचीनावीति—दक्षिणमुखत्वादीनां संग्रहः । कर्म भवतीति शेषः । अत्र सूत्रे "श्वोऽन्वष्टकासु" इति

( १६२ )

दर्शनात् अष्टकाश्राद्धपरदिने एव अन्वष्टकाश्राद्धमिति नियमः । नात्र नवमी श्राद्धकालव्याप्तिर्दृष्टव्येति ।

स्त्रीभ्यश्च । ११

पिण्डपितृयज्ञवत् इत्यनेन पितृपितामहप्रपितामहानामेव पिण्डदानं प्राप्तम् । स्त्रीभ्यश्चेति मात्रादित्रयाणामधिकमुक्तम् । अत्र सामान्योऽपि स्त्रीशब्दः पित्रादिसान्निध्यात् मात्रादिपर एव ।

उपसेचनञ्च कर्षूषु सुरया तर्पणेन

चाञ्जनानुलेपनं स्रजश्च । १२

अत्र अन्वष्टकाकर्मणि न केवलं स्त्रीभ्यः पिण्डदानं विहितं किन्तु कर्षूषु—स्त्रीपिण्डसमीपखातगर्भेषु सुरया—विहितमद्येन काण्डहरीतकी—गुडरसेन इति विश्वनाथः, तर्पणेन— तर्पणसाधनेन सक्तवादिना च उपसेचनं तथा प्रतिस्त्रीपिण्डम् अञ्जनं—सौवीराञ्जनं तदभावे लौकिकं कज्जलम्, अनुलेपनं—चन्दनादि, स्रजः—पुष्पमालाश्च दद्यात् इति शेषः । अत्र प्रथमचकारः स्त्रीणां पिण्डेन सह उपसेचनस्य समुच्चयार्थः । द्वितीयः सुरातर्पणयोः तृतीयश्च अञ्जनादिदानानां समुच्चयार्थः ।

इत्यन्वष्टकानिरूपणम् ।

आचार्य्यान्तेवासिभ्यश्चानपत्येभ्य इच्छन् । १३

नियतश्राद्धदेवता उक्त्वा सम्प्रति काम्यविधिमाह । इच्छन् यदि कामना भवति, तदा आचार्य्याय अनपत्येभ्यः अन्तेवासिभ्यः, चकारात् अनपत्येभ्यः भ्रातृपितृव्यादिभ्यश्च अनुकम्प्येभ्यः पिण्डं दद्यात् । अत्र अनपत्यशब्दः आचार्यादीनां विशेषणमिति हरिहरः । मन्मते आचार्यस्य अनपत्यत्वमविवक्षितं विभक्तिभेदात् ।

मध्यावर्षे च तुरीया शाकाष्टका । १४

हेमन्तशिशिरयोः त्रयाणामपरपक्षाणामष्टकात्रयं निरूप्य (३-३-२