पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 98, कुल 263 में से
संदर्भ में पढ़ें( ७६ )
मन्त्रेण” अत्र गोदानपदेन स्वपतः जनस्य यः शिरोभागः भूमौ स्थाप्यते
स उच्यते । गवि भूमौ दोयते इति गोदानमिति विग्रहः । तेन शिरसः
पार्श्वत्रयं गोदानपदवाच्यम् ।
मन्त्रार्थः (प्रजापतिः गायत्री आपः क्लेदने;— हे कुमार ! सवित्रा
सूर्येण, प्रसूताः—उत्पादिताः देव्याः—दिविभवाः, आपः—जलानि, ते—
तव, तनू—शरीरं चूडालक्षणावयवं दीर्घायुत्वाय—दीर्घजीवनलाभाय,
वर्चसे—तेजोलाभाय च उदन्तु—क्लेदयन्तु ।
त्रेण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्त-
र्दधाति “ओषध इति । २-१-१०
त्रेण्या— त्रिषु स्थानेषु श्वेता त्रेणी तया, शलल्या-शल्यकाख्यपक्ष-
कण्टकेन, विनीय—पृथक्कृत्य, पूर्वदिवसाधिवासितायाः केशलतिकायाः
अन्तः-मध्ये कुशतरुणानि—दर्भपत्राणि दधाति- धारयति “ओषधे त्रायस्व
इति मन्त्रेण”। सम्पूर्णः मन्त्रः—ओषधे त्रायस्व स्वधिते मैनँ हिँसीः
शिवोनामेति लोहक्षुरमादाय निवर्त्तयामीति प्रवपति ।
२-१-११
शिवोनामेति—शिवोनामासीत्यादिमन्त्रेण, लोहक्षुरं—ताम्रपरिष्कृतं
लोहनिर्मितं क्षुरम् आदाय—गृहीत्वा, दक्षिणकरेण निवर्त्तयामीति—
निवर्त्तयाम्यायुषे इत्यादिमन्त्रेण, प्रवपति—कुशतरुणमध्ये निदधाति ।
मन्त्रयोः संपूर्णः पाठः—
(१) शिवो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः । (शु.य. ३/६३)
(२) निवर्त्तयाम्यायुषेऽन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय
सुवीर्याय । (शु.य. ३/६३)
येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्माणो वपतेदमस्यायुष्यञ्जरदष्टिर्यथासदिति
सकेशानि प्रच्छिद्यानडुहे गोमयपिण्डे प्रास्यत्युत्तरतो
ध्रियमाणे । २-१-१२