सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished258 पृष्ठ

पृष्ठ 16, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 16
पृष्ठ 16 स्कैन

२ नलचम्पूः ।
जयति मधुसहायः सर्वसंसारवल्ली-
जननजरठकन्दः कोऽपि कंदर्पदेवः ।
तदनु पुनरपाङ्गोत्सङ्गसंचारितानां
जयति तरुणयोषिल्लोचनानां विलासः ॥ २ ॥
अगाधान्तःपरिस्पन्दं विबुधानन्दमन्दिरम् ।
वन्दे रसान्तरप्रौढं स्रोतः सारस्वतं वहत् ॥ ३ ॥
त्रपदपङ्क्तिसरित्पाथोवीचिसंघट्टः श्रीत्रिविक्रमभट्टः प्रतिपादनीयसर्वरसकथोपक्रमे
सदारशृङ्गारलादिन्द्रादीनेकान्तशान्तलाद्रीतरागप्रभृतीन्पहाय सर्वरसात्मकं परमेश्वरं
शंकरमेव प्रणवन्नाह—जयतीत्यादि ॥ हैमवत्याः संवन्धिनि कामसंतापवाहिनि
कंदर्पदेवपीडां दधान उरसि चान्दनो रसनिषेक इव संतापापहरणाद्रौहणद्रुमरसा-
भिषेक इव योऽसौ भगवांश्चन्द्रमौलिः सुधांशुशेखरः स जयति सर्वोत्कृष्टो भवति ।
'सर्वोत्कृष्टश्च सर्वेषां नमस्यः स्यात्' इति नमस्कारः प्रतीयते । नमस्कारेण च
प्रबन्धकर्तृव्याख्यातृश्रोतृणामिष्टफलसंपत्तिः । रसा निषिच्यन्तेऽस्मिन्निति रसनि-
षेको रसाधार इत्यप्येकदेशेन प्रतिपत्तव्यम् । रसाश्च शृङ्गारादयः । तांश्च कवय
एव व्यक्तीकर्तुं प्रभवन्ति । अतस्तदनु रसाधारस्य भगवतः पश्चाद्रसव्यक्तिनिमि-
त्तानां कवीनां वाल्मीकिव्यासकालिदासप्रभृतीनां निरन्तररसाविष्कारिणो वाग्वि-
लासा विजयन्ते ॥ अत्र च पूर्वार्धेन वक्ष्यमाणप्रबन्धार्थोऽपि सूच्यते । गिरिर्भी-
मन्नृपः । 'गिरिर्भीमन्नृपे सूर्ये क्ष्माभवे पर्वते जले' इत्युक्तेः । तस्य सुताया दम-
यन्त्या दुर्वारस्मारविकारसंतप्त उरसि नलश्चन्दनरसनिषेको भविष्यति । स च
चन्द्रवंश्यानां मौलिर्मुकुटायमान इति ॥ १ ॥
स किंसहायः किंमूलः किमुपकरणश्च कामो यो जगतः शिवतातिभ्यां शिवा-
भ्यामपि स्वीकृत इत्याह—जयतीति ॥ कोऽप्यद्भुतवैभवः कंदर्पदेवो जयति ।
किंभूतः । मधुसहायो वसन्तसखः । नहि सहायमन्तरेण कश्चिन्महाकार्यकरणाय
प्रवर्तते । तथा सर्वस्याः संसारवल्ल्या उत्पादनाय कठिनकन्दः । कठिनकन्दाद्व्यवि-
च्युता वीरुद्वृद्धिः । कंदर्पदेवादनन्तरं पुनःपुनर्नेत्रापाङ्गप्रदेशक्रोडे कामुकजनलक्ष्यी-
करणाय प्रवर्त्तितानां नववयःसुन्दरीनेत्राणां कटाक्षादिविभ्रमो जयति ॥ २ ॥
अथ यदवाचि 'तदनु च विजयन्ते वाग्विलासाः' इति तद्गुणानेव श्लोकत्र-
येणाह—अगाधेति ॥ सरस्वती भारती नदीविशेषश्च । तस्या इदं सारस्वतम् ।
स्रोतः प्रवाहं वन्दे नमस्कुर्वे स्तुवे वा । नदीपक्षे प्रवाहस्य तद्धर्मत्वान्न किंचिद्दुर्घ-
टम् । परं भारतीपक्षेऽन्यधर्मस्यान्यत्रारोपलक्षणसमाधिना गिरां नैरन्तर्येऽपि
स्रोतःशब्दः । यथा 'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात्'
इत्यत्रोन्मीलननिमीलने नेत्रधर्मावपि कमलकुमुदयोरारोपिते । किं कुर्वत् ।
वहत्प्रवर्त॑मानम् । पक्षे प्रसरत् । तथा अगाधो महार्थतयालब्धमध्योऽन्तर्मध्ये
१ 'परिस्पन्दि'. २ 'महत्'.