सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 15, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 15

श्रीः ।
नलचम्पूः ।
(दमयन्तीकथा ।)
विषमपदप्रकाशटीकया समेता ।
प्रथम उच्छ्वासः ।
जयति गिरिसुतायाः कामसंतापवाहि-
न्युरसि रसनिषेकश्चान्दनश्चन्द्रमौलिः ।
तदनु च विजयन्ते कीर्तिभाजां कवीना-
मसकृदमृतबिन्दुस्यन्दिनो वाग्विलासाः ॥ १ ॥
सृष्टिप्रबन्धे चतुराननस्य भावानशेषान्विलसद्विशेषान् ।
विवृण्वती स्वेन वचश्चयेन स्ताद्भारती बोधविवृद्धये वः ॥
शक्तिस्त्रिविक्रमस्येव जीयाल्लोकातिलङ्घिनी ।
दमयन्तीप्रबन्धेन सदा बलिमतोदिता ॥
त्रैविक्रमाणि विषमाणि पदानि यानि
तेषां प्रकाशमभिनन्दति चण्डपालः ।
यं स्थायिभावघटनात्पटुदृष्टिभाजः
संप्राप्य बिभ्रतितरां रसनिर्भरत्वम् ॥
भङ्गश्लेषनिबन्धाः स्युर्गिरः संदेहमन्दिरम् ।
सम्यक्तदर्थनिश्चित्यै निबन्धोऽयं विधीयते ॥
प्रथममुपमेयमस्मिन्नुपमानमतो विचार्यते सम्यक् ।
अविरोधविरोधावपि गम्यावेवं क्रमेणैव ॥
क्वचन विशेषेण मया यथोचितसमासकारकप्रभृति ।
सुगमत्वान्न यदुक्तं तन्मतिमद्भिः स्वयं ज्ञेयम् ॥
सूक्ष्मार्थाः प्रस्फुरिष्यन्ते कुशाग्राम्यधियां स्वतः ।
तद्व्याख्योपेक्षिता प्रायः संक्षेपाय ततो मया ॥
सकलमङ्गलकारणं दुरितनिवारणमभिधेयोपयोगि चावश्यमेव शास्त्रादौ कविनां
किमपि प्रणेयं तदेतन्मनसि कृत्वाभीष्टदेवताप्रणतिपूर्वकमेव समारब्धव्यमिति
पूर्वाचार्यप्रणीतसमाचारमर्यादानुल्लङ्घनः सूक्तजलनिधिरपि जडैरलब्धमध्यो विचि-
१ 'या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् । हृदि नः संनिधत्तां सा सूक्तिधेनुः
सरस्वती ॥' इति श्लोकः क्वचित्पुस्तके दृश्यते.