Skip to content
SarvaKosh
मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

Mattavilasa Prahasana of Mahendravarman I

by पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार)

DevanagariHindipublished100 pages

Page 34 of 100

Read in context
Page 34

श्री श्री सरस्वत्यै नमः
मत्तविलासप्रहसनम्
श्रीमहेन्द्रविक्रमवर्मप्रणीतम्
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
भाषावेषवपुःक्रियागुणकृतानाश्रित्य भेदान् गतं
भावावेशवशादनेकरसतां त्रैलोक्ययात्रामयम् ।
नृत्तं निष्प्रतिबद्धबोधमहिमा यः १ प्रेक्षकश्च स्वयं
स व्याप्तावनिभाजनं दिशतु वो दिव्यः कपाली यशः ॥१॥
भोः ! समासादितः खलु मया यवीयसीं भार्यामधिकृत्य
समुत्पन्नव्यलीकायां ज्येष्ठायां मे कुटुम्बिन्यां युक्ततरः प्रसादनोपायः,
यच्चिरस्याद्य वयं प्रेक्षाधिकारे परिषदा नियुक्ताः स्म । तद् याव-
देनामुपसर्पामि ।२ (नेपथ्याभिमुखमवलोक्य) आर्ये ! इतस्तावत् ।
(प्रविश्य)
नटी—(सरोषम्) अय्य किं चिरस्स कालस्स जोव्वणगुणभर-
मत्तविलासप्पहसणं दंसेदुं आअदोसि । [आर्य ! किं चिरस्य कालस्य
यौवनगुणभरमत्तविलासप्रहसनं दर्शयितुमागतोसि ।]
सूत्रधारः—यथाह भवती ।
नटी—ताए एव दाव ३ दंसेहि, जा तुए रमइदव्वा । [तस्यैव
तावद् दर्शय, या त्वया रमयितव्या]
सूत्रधारः—त्वया सह दर्शयिष्यामीति ।
नटी—किं ताए एव्व णिउत्तोसि । [किं तयैव नियुक्तोऽसि ।]
सूत्रधारः—एवमेतत् । अपि च तत्र गता महान्तमनुग्रहं
लप्स्यसे ।
नटी—तव एव्व खु एदं जुज्जइ । [तवैव४ खलु एतद् युज्यते]
सूत्रधारः—भवति ! किमिव न युज्यते । त्वत्प्रयोगपरितोषिता
परिषदनुग्रहीष्यतीति ।
१. करोतीत्याध्याहर्तव्यम् । २. परिक्रम्य ने—।
३. दाणिं । ४. तथैव ।