सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 35, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 35

( १६ )
कदाचिदिति । अथ कदाचित् मनस्विनी स्थिरचित्ता सा
पार्वती मनोरथज्ञं अभिलाषज्ञं पितरं हिमवन्तं आसन्नसखीमुखेन
आसन्नसखी आप्तसखी सैव मुखं उपायः । 'मुखं निःसरणे वक्त्रे
प्रारम्भोपाययोरपि' इति विश्वः । तेन । फलोदयान्ताय फलोदयः
फलोत्पत्ति अन्तोऽवधिर्यस्य तस्मै तप समाधये तपोनियमार्थं
आत्मनः स्वस्य अरण्यनिवासं वनवासं अयाचत । 'दुहाच्'—
इत्यादिना द्विकर्मकत्वम् ।
PROSE ORDER :—कदाचित् मनस्विनी सा मनोरथज्ञं पितरं
आसन्नसखीमुखेन फलोदयान्ताय तपःसमाधये आत्मनः अरण्य-
निवासं अयाचत ॥ ६ ॥
NOTES —कदाचित्—Once ; on some opportune
occasion. मनस्विनी—( मनस् + विनिः + ङीप् ) प्रशस्तं मनः
विद्यते अस्याः सा full of sense ; intelligent, i e, who
knew when and how to make a request. Or, here, as
Mallinatha comments, स्थिरचित्ता who was firm-minded;
who was determined to achieve her object at any
cost. Cf 'महाकार्ये कृताद्योगो विघ्नैराहतमानसः । प्रारब्धं न
त्यजति यः स मनस्वीति कथ्यते ।' विनि is added by 'अस्
माया मेधा स्रजो विनिः' पा० ५ २ १२१ । मनोरथज्ञं—( मनोरथ +
√ज्ञा + कः ) जानाति इति ज्ञः , मनोरथस्य ज्ञः मनोरथज्ञः तं
who knew her desire. ज्ञः is formed from √ज्ञा by add-
ing कः to it by 'इगुपधज्ञाप्रीकिरः कः' पा० ३.१ १३५ ।
पितरं—हिमवन्तम् Himavat This is the secondary object
( गौण कर्म ) of अयाचत which governs two objects
आसन्नसखीमुखेन—( आ + √सद् + कः ) आसन्नायाः सख्याः
मुखेन ( तत्पुरुष ) or आसन्ना चासौ सखी आसन्नसखी ;