सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 24, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 24

( ५ )
द्वयम् ? तथाभूता विधा प्रकारो यस्य तत् तथाविधं प्रेम स्नेह ।
येनार्द्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च । यो मृत्युञ्जय
इति भावः । द्वयमेव खलु स्त्रीणामपेक्षितं यद्भर्तुर्वल्लभ्यं जीवद्भर्तृ-
कत्व चेति । तच्च तपश्चर्यैकसाध्यमिति निश्चिकायेत्यर्थः। अत्र मनुः—
‘ यद्दुष्करं यद्दुरापं यद्दुर्गं यच्च दुस्तरम् । तत्सर्वं तपसा प्राप्यं
तपो हि दुरतिक्रमम् ॥’ इति ।
PROSE ORDER —सा समाधिमास्थाय तपोभिः आत्मनः
अवन्ध्यरूपतां कर्त्तु इयेष । वा अन्यथा तथाविधं प्रेम तादृशः
पतिश्च ( इति ) द्वयं कथ अवाप्यते ।
NOTES :—समाधि—( सं + आ + √धा + किः ) Intense
contemplation ( of any particular object so as to
identity the contemplator with the object meditated
upon ) This is the eighth and last stage of Yoga.
Here it may also mean silence or a vow of intense
devotion ( for Shiva ), or, a rigid rule of conduct
आस्थाय—(आ + √स्था + क्त्वा—ल्यप् ) अवलम्ब्य taking re-
course to तपोभिः—by means of austerities, the observ-
ance of which warrants all sorts of success Cf The
shloka of Manusmriti quoted above by Mallinatha.
Decline तपस् as तपः, तपसी, तपांसि । तपः, तपसी, तपांसि ।
तपसा, तपोभ्याम् etc, अवन्ध्यरूपतां—न वन्ध्यं अवन्ध्यं Not
barren, fruitful अवन्ध्य रूपं ( सौन्दर्य ) यस्याः सा अवन्ध्य-
रूपा, तस्याः भावः अवन्ध्यरूपता, ताम् such as whose beauty
was fruitful or it may be taken as न वन्ध्य अवन्ध्यं, अवन्ध्यं
च तद्रूपं, अवन्ध्यरूपं तस्य भावः, ताम् a fruitful beauty इयेष—
Perfect Third Person Singular of √इषु इच्छायाम् to wish.