कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
पृष्ठ 61, कुल 119 में से
संदर्भ में पढ़ेंXXII, 1, १-2, २५ कौषीतकिब्राह्मणे 104
प्रथममहरयमेव लोक आयतनेन ।१। अग्निार्गायत्री त्रिवृत् स्तोमो रथन्तरं साम ।२।
तद्ध्वस्य निदानम् ।३। तस्यैतानि छन्दोरूपाणि ।४। करिष्यत् प्रथमे पदे सदेवम् ।५। यद्
वै भविष्यत् तत् करिष्यत् ।६। आवत् प्रवदेषवदर्षवदद्यवद्¹ युक्तवद् युञ्जानवज्ज्यो-
तिष्मदिति² ।७। उपप्रयन्तो अध्वरमित्याज्यं प्रवत् ।८। प्रवद् वै प्रथमस्याह्नो रूपम् ।९।
गायत्रं गायत्रप्रतःसवनो ह्येष त्र्यहः ।१०। इति नु व्यूळ्हे ।११। उद्धृत्येतत् प्र वो देवा-
याग्नय इति समूळ्हे तस्योक्तं ब्राह्मणम् ।१२। मा धुच्छन्दसः प्रउगस्तस्योक्तं ब्राह्मणम् ।१३।
आ यात्विन्द्रोऽवस उप न इति मरुत्वतीयमावत् ।१४। आवद् वै प्रथमस्याह्नो रूपम् ।१५।
स्वर्णरावदवसे नो मरुत्वानिति स एवास्मिन् मरुच्छङ्गः ।१६। आ न इन्द्रो दूरादा न आसा-
दिति निष्केवल्यमावत् ।१७। आवद् वै प्रथमस्याह्नो रूपम् ।१८। संपातौ निष्केवल्य-
मरुत्वतीये भवतः प्रथमेऽहन् ।१९। संपातैर्वै देवाः स्वर्गँल्लोकं समपतन् ।२०। तस्मादत्र³
प्रथभौ शस्येते स्वर्ग्यौ ।२१। तद् यत् संपातौ निष्केवल्यमरुत्वतीये भवतः प्रथमेऽहन्
।२२। स्वर्गस्यैव लोकस्य समष्ट्या इति⁴ ।२३ ॥१॥
¹ L. P. ०दक्तवद् ² L. P. ०ज्ज्योतिष्मदुक्थमवदिति ³ L. P. तस्मादेनौ ⁴ L. P. omit
युञ्जते मन उत युञ्जते धियः प्र द्यावा यज्ञैः पृथिवी ऋतावृधेहेह वो मनसा बन्धुता
नर इत्यार्भभवम् ।१। तेन नियच्छति ।२। युक्तवन्ति च वै प्रवन्ति च प्रथमेऽहन्सक्तानि
शस्यन्ते ।३। तद् यदिहेह व इत्यार्भभवं करोति ।४। तन्नियत्या¹ अप्रच्युत्यै² रूपम् ।५।
हयो न विद्वाँ अयुजि स्वयं धुरिति वैश्वदेवं युक्तवत् ।६। युक्तवद् वै प्रथमस्याह्नो रूपम्
।७। तस्य द्वे उत्तमे उत्सृजति ।८। कुविदेते अवधृते आप्रीमारुते शस्येते इति ।९। तदु ह
स्माह कौषीतकिः ।१०। शंसेदेव सूक्तस्याव्यवच्छेदायैति³ ।११। न ह वा ऋक्च्छस्त्रेण
यातयामा भवति ।१२। नानुवचनेन ।१३। ⁴वषट्कारेण ह वै⁴ सा यातयामा भवति
समानेऽहन् ।१४। वैश्वानराय पृथुपाजसे विप इति वैश्वानरीयम् ।१५। ⁵तस्मिन्सत्सूक्तानि
यजमान आ चक इत्यावत् ।१६। आवद् वै प्रथमस्याह्नो रूपम्⁻⁵ ।१७। प्र शर्धाय मारु-
ताय स्वभानव इति मारुतं प्रवत् ।१८। प्रवद् वै प्रथमस्याह्नो रूपम् ।१९। प्र तव्यसीं
नव्यसीं धीतिमग्नय इति जातवेदसीयम् प्रवत् ।२०। प्रवद् वै प्रथमस्याह्नो रूपम् ।२१।
इमँल्लोकं प्रथमेनाह्नाप्नुवन्ति ।२२। गायत्रीं छन्दस्त्रिवृतं स्तोमं रथन्तरं साम ।२३। प्राचीं
दिशं वसन्तमृतूनाम् ।२४। वसून् देवान् देवजातमग्निमधिपतिम्⁶ ।२५ ॥२॥
¹ L. (var.), P. तन्नियुत्या ² L. (var.) P. प्रच्यूत्यै ³ L. P. omit इति ⁴⁻⁴ L. P. वषट्कारेणैव
⁵⁻⁵ L. P. प्रवत् प्रवद्वै प्रथमस्याह्नो रूपम् ⁶ L. P. Here ends Khaṇḍa 1
105 पृष्ठषष्ठलहः XXII, 3, १–4, १९
द्वितीयमहरन्तरिक्षलोक आयतनेन ।१। इन्द्रस्त्रिष्टुप् पञ्चदशः स्तोमो बृहत् साम ।२।
तद्व्वस्य निदानम् ।३। तस्यैतानि छन्दोरूपाणि ।४। कुर्वन् मध्यमे पदे सदेवम् ।५। यद्
वै प्रत्यक्षमास्प्रक्षस्तत्¹ कुर्वत् ।६। हतवद् वज्रवद् वृत्रहवद् वृषण्वदुद्गद् विवत् स्थितं
त्वामिति² ।७। अग्निं दूतं वृणीमह इत्याज्यम् ।८। होतारं विश्ववेदसमिति विवत् तस्योक्तं
ब्राह्मणम् ।९। गायत्रं गायत्रप्रतःसवनो ह्येष त्र्यहः ।१०। इति नु व्यूळ्हे ।११। उद्धृ-
त्यैतत् त्वं हि क्षैतवद् यशा इति समूळ्हे तस्योक्तं ब्राह्मणम् ।१२। गात्समदः प्रउगस्त-
स्योक्तं ब्राह्मणम् ।१३। इन्द्र सोमं सोमपते पिबेममिति मरुत्वतीयम् ।१४। माध्यंदिने
सवने वज्रहस्तेति वज्रवत् ।१५। तदेतस्याह्नो रूपम् ।१६। या त ऊतिरवमा या पर-
मेति निष्केवल्यम् ।१७। ताभिरू षु वृत्रहत्येऽवीर्न इति वृत्रहवत् ।१८। तदेतस्याह्नो
रूपम् ।१९। ³विश्वो देवस्य नेतुरा⁴ विश्वदेवं सत्पतिमिति⁵ प्रतिपदनुचरौ तयोरुक्तं
ब्राह्मणम्⁻³ ।२० ॥३॥
¹ L. P. ०मस्पृष्टं तत् ² L. तं त्वामिति; P. त्वामिति ³⁻³ L. P. omit ⁴ IO. omits नेतुर्; BM¹. omits नेतुरा
⁵ IO. omits सत्पतिं
तद् देवस्य सवितुर्वर्यं महदिति सावित्रम् ।१। त्रिरन्तरिक्षं सविता महित्वनेति ।२।
तत्⁻¹ प्रत्यक्षमान्तरिक्षमभिवदति ।३। तदेतस्याह्नो⁻¹ रूपम् ।४। ते हि द्यावापृथिवी विश्व-
शंभुवेति द्यावापृथिवीयं विवत् तस्योक्तं ब्राह्मणम् ।५। तक्षन् रथं सुवृतं विद्मनापस इत्या-
र्भवम् ।६। तक्षन् हरी इन्द्रवाहा वृषण्वसू इति वृषण्वत् तस्योक्तं ब्राह्मणम् ।७। यज्ञस्य वो
रथ्यं विशपतिं विशामिति शार्थातं² वैश्वदेवम् ।८। वृषा केतुर्यजतो द्यामशायतैति वृषण्वत्
तस्योक्तं ब्राह्मणम् ।९। पूषस्य वृष्णो³ वृष्णे शर्धायैति⁴ वृषण्वती⁵ तयोरुक्तं ब्राह्मणम्
।१०। नू चित् सहोजा अमृतो नि तुन्दत इति जातवेदसीयम् ।११। होता यद् दूतो
अभवद् विवस्वत इति विवत् तस्योक्तं ब्राह्मणम् ।१२। तस्य प्रातर्मक्षु धियावसुर्जगम्या-
दित्युत्तमा ।१३। परमेवैतदहरभिवदति ।१४। परमेवैतदहरभ्यारभ्य⁶ वसन्तीति ह स्माह
कौषीतकिः ।१५। अन्तरिक्षलोकं द्वितीयेनाह्नाप्नुवन्ति ।१६। त्रिष्टुभं छन्दः पञ्चदशं स्तोमं
बृहत् साम ।१७। दक्षिणां दिशं ग्रीष्ममृतूनाम् ।१८। रुद्रान्⁷ देवान् देवजातमिन्द्र-
मधिपतिम्⁸ ।१९ ॥४॥
¹⁻¹ L. P. प्रत्यक्षमन्तरिक्षस्य ² EM. omits ³ L. P. add अरुषस्य नू सहो
⁴ L. P. शर्धाय सुमुखाय वेधस इति ⁵ EM. omits ⁶ L. ०वैनदह० ⁷ L. P. मरुतो
⁸ L. P. Here ends Khaṇḍa 2