हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 392, कुल 742 में से
संदर्भ में पढ़ें[-षं सद्यःक्षताध्यायः ] हस्त्यायुर्वेदः । ३७३
संयुक्तेन पूरयेत् । उपचरति मासार्धव्य(?) येष्वपि पूरणं दद्यात् । तृतीये
चाहनि यथोक्तेन प्रक्षालनेन प्रक्षाल्य व्रणं घृतेन परिषेचयेत् । अनेनैव
विधिना व्रणमुपाचरेदाक्लेदात् । ततः शोधनादिकल्कैरुपक्रमेत्, घृतपानं च
दद्यात् । घृतसंयुक्तं शाल्योदनं मुद्गयूषेण संसृष्टं दद्यात् ॥
अथ सिंहव्याघ्रनखदंष्ट्रावलुप्तमभिविज्ञाय शतधौतेन घृतेनाभ्यज्य पञ्चकषा-
येण विमलशिशिरसलिलेन परिषेचयेत् । शीतैस्तु प्रदेहैर्घृतसंयुक्तैश्च प्रदेहयेत् ।
व्रणांश्च व्रणोपक्रमैरुपक्रमेत् ॥
अग्निदग्धं तु शतधौतेन घृतेनाभ्यज्य निर्वापयेत्पयःसुराभ्योऽन्यतरेण वा
शीतैश्च प्रदेहैः, मञ्जिष्ठायष्टीमधुकचन्दनोशीरपद्मकनलवञ्जुलशालिमूलसारिवा-
र्जुनोदुम्बरप्लक्षैः, वटनालिकानलजविशमृणालोत्पलपद्मिनीकर्दमभद्रमुस्ततृण-
शूल्यैश्च सुरादधिघृतयुक्तैः प्रदेहं कुर्यात् । कषायोदकपिष्टैः परिषेकांश्च कुर्यात् ।
व्यपगताग्निमभिज्ञाय विमलशिशिरसलिलेऽवगाहयेत् । निवृत्तमवगाहाद्घृतेन
परिषेचयेत् । व्रणं च पूर्वोक्तैरुपक्रमैरुपक्रमेत् । गुडजतुमधूच्छिष्टामेध्यदग्ध-
( *ऽनलदग्धसमानक्रियं तस्योपक्रमं कुर्यात् ।) घृतेनाभ्यज्य शीतैः प्रदेहैरुप-
क्रमेत् ॥
अर्कविद्युत्सन्तापदिग्धस्य............ *समानमुपक्रमं कुर्यात् । संतापदिग्धं
तु विशेषेणाऽऽहारैः सात्म्यकालाविरुद्धैरुपाचरेत् । घृतयुक्तं च शालीनामोदनं
मुद्गयूषरसंयुक्तं दद्यात् ॥
क्षारदग्धं च द्विव्रणीयेन क्षारकर्मण्युपदिष्टेनोपक्रमेत् । घृतमधुघृतेनाभ्यज्य
शीतैः प्रदेहैरुपक्रमेत् ॥
विषदग्धं च शस्त्रकर्मादिभिरुपक्रमेत् । दग्धं चाऽऽशीविषनिःश्वासैः शत-
धौतेन घृतेनाभ्यज्य विषजग्धोद्दिष्टैः प्रदेहैरुपक्रमेत् । घृतपानं च दद्यात्, शीत-
परिषेकं च कुर्यात् । भोजनं विषजग्धोद्दिष्टं दद्यात् ॥
तत्र श्लोकः—
क्षतं दग्धं च यो नागे(गं) विधिना समुपाचरेत् ।
पूज्यः स नियतं राज्ञा दानमानपरिग्रहैः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यरोगस्थाने
सद्यःक्षतलव(क्ष)णं नाम द्वितीयोऽध्यायः ॥ २ ॥
* खपुस्तके त्रुटितः ।
१ क. ॰दिभिः क॰ । २ क. ॰गाह्ये॰ । ३ क. ॰दग्धं ।