हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 62, कुल 185 में से
संदर्भ में पढ़ें२ ] पूर्वजवर्णनम् १३
महीं महीं भूपयतिस्म तस्मात् श्रीविश्वलो विश्वविलासिकीर्तिः ।
समूलमुन्मूल्य कुलं रिपूणा मेकाधिपत्यं भुवि यश्चकार ॥ ३३ ॥
प्रसृत्वराजनीतिलतावितान-कुठारकल्पेपि यदीयराज्ये ।
ललास लोके यदनीतितैव तत्कस्य नो विस्मयमाततान ॥ ३४ ॥
यस्यारिनारीगिरिगह्वरेषु सुदृन्मृगाक्षीरतिमंदिरेषु ।
स्थिता सुखं भूषणभूषितांगी विवेद नैवोदितमस्तमर्कं ॥ ३५ ॥
हताऽहितानां सकलेवराणां स्पर्शोलसत्स्रुप्तिभराप्तदोषे ।
तल्लोलदृग्लोचनवारिपूरैः क्षोणीतलैऽवूक्षणमक्षिपेद्यः ॥ ३६ ॥
अहीनधामानमदीनसेनं सहावदीनं समरे निहत्य ।
अमूमुचन्म्लेच्छकुलैर्द्विधापि यो मालवस्यापि विभुर्विभुत्वं ॥ ३७ ॥
ततो भुवं भूपयतिस्म पृथ्वी-राजः स्वकीयैर्विशदैर्यशोभिः ।
प्रकंपमाने युधि यत्कृपाणे चित्रं निपेतुर्द्विपतां वतंसाः ॥ ३८ ॥
मूर्च्छुह्यमाना सततं जनानां मनोरथानाशु समर्थयंती ।
आज्ञा यदीया हरपादपद्म-सेवेव कल्याणकरी बभूव ॥ ३९ ॥
गंधर्ववृंदैर्दिवि गीयमानां सौभाग्यभंगीं विनिशम्य यस्य ॥
सा का सुरी स्वस्य न या ववांछ तत्संगमावाप्तिकरं नरत्वं ॥ ४० ॥
ततो बभोव्हाल्हणदेवसंज्ञो भूभृद्भटं मन्यशिरोवतंसः ॥
वने द्विपंतः स्मृतयद्गजेंद्रा श्चकंपिरे वीक्ष्य महीभृतोपि ॥ ४१ ॥
देहीति जल्पन्नपि याचकेन दानप्रियो यो न जजल्प नेति ॥
दातन्नकिं दानपदेस्ति नोर्पि बलीयसी केवलमीश्वरेच्छा ॥ ४२ ॥
छिन्नद्विषच्छोणितशोणशोची रणेषु यस्यासिलता चकासे ।
या स्पार्द्धिनीं वाचमुवाच तेन कृष्टेव जिह्वा युधि सैव तेषां ॥ ४३ ॥
यद्रूपगानं भुवि गीयमानं निपीय कर्णांजलिभिर्निकामं ।
स्वप्नप्रसंगात्तदीयसंगा बभूव का नो धृतकामरंगा ॥ ४४ ॥
भानल्लदेवो भटमौलिमौलिरथोपयेमे नृपतित्वलक्ष्मीं ।
यः संगरे दारितवैरिवार-पाणिंधमं स्वर्गपथं चकार ॥ ४५ ॥