सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 61, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 61

१२ श्रीहम्मीरमहाकाव्ये [सर्गः
जयश्रियं स्वामिशयांबुजेन संयोजयन् शत्रुतमस्यपास्यन् ।
ज्वलत्प्रतापावलिदीप्तकांती रणे कृपाणो रवयददीयः ॥ २० ॥
छिदन् शिरांसि प्रतिपक्षभूमी-भृतामसिर्यस्य विशुद्धधारः ।
पस्पर्श रक्तं न यतो विशुद्धाः परस्य केनापि न संसृजंति ॥
ततो महीक्षित्तमतां दधार चामुंडराजस्तरसा प्रचंडः ।
यत्पाणिपद्मे करवालवली जयश्रियो वेणिरिव व्यराजत् ॥ २२ ॥
यस्य प्रतापः प्रसृतः पृथिव्यां बिभेद शंके दृषदोपि नूनं ।
अद्यापि नोचेत्स्फटिकोपलेभ्यो हिरण्यरेताः प्रकटः कुतोस्तु ॥ २३ ॥
कृतांतक्रांताकुचकुंभपत्र-लतापिधाने विधृतावधानं ।
यः संगरे हेजमदीनसंज्ञं शकाधिराजं तरसा व्यधत्त ॥ २४ ॥
नृपोथ दध्रे वसुधां सुधांशु-भाजिद्यशा दुर्लभराजसंज्ञः ।
भ्रुवैव संगान्समरांगणे यः प्रापीपठद्वैरिगणान्न्रिकामं ॥ २५ ॥
जितं स्वमालोक्य यदीयकीर्त्या शंके त्रिनेत्रो ग्रहिलत्वमाप ।
महेश्वरस्यापि कुतोन्यथास्य कौपीनवासो वसनेनुरागः ॥ २६ ॥
यत्खड्गधाराभिररित्रिजानां प्रतापवह्निः शमितः समंतात् ।
तदंगनाबाष्पभरैरथास्य चित्रं न कुत्रापि निरस्यते स्म ॥ २७ ॥
सहावदीनं समरे विजित्य जग्राह यो बाहुबलेन मानी ।
असंख्यसंख्यार्जितशारदीन-शशिप्रभाभेतृ तदीयकीर्ति ॥ २८ ॥
ततो भवद्दुःशलदेवनामा भूमानगर्विवातविजितृधामा ।
यन्मानसं प्राप्य न धर्महंसः काँस्कांन् विलासान् कलयांचकार २९ ॥
पलायमाना दरतो द्विषंतो बुंवारवान् यान् समरेष्वकार्षुः ।
जयश्रियः पाणिमहाय यस्य त एव वेदध्वनयो बभूवुः ॥ ३० ॥
नाकेशनारीजनगीयमान-गीतामृतास्वादवितीर्णकर्णं ।
श्रीकर्णदेवं समरे विधाय तद्राज्यलक्ष्मीं परिणीतवान् यः ॥ ३१ ॥
हस्ते लगित्वास्य जगत्समक्षं कंठे लुठंत्याः प्रतिभूपतीनां ।
यत्खड्गवल्लेरसतीव्रतायाः किमौचितीं नांचति कालिका स्म ॥ ३२ ॥