सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 63, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 63

१४ श्रीहम्मीरमहाकाव्ये [सर्गः
जेगीयमानं निजकामिनीभि राकर्ण्य यं शेष इति प्रदध्यौ ।
कोप्यस्ति धत्ते वसुधां क्षणं यां गत्वा यथैनं प्रविलोकयामि ॥ ४६ ॥
स्वकालिमानं वितरन्नरीणां तेषां च जीवं च यशांसि गृह्णन् ।
रणे यदीयः करवालदंडो वणिक्फलाकौशलकेलिरासीत् ॥ ४७ ॥
गिरीशकैलाससुधासुभांशु--श्रियं समाकृष्य यशः किमस्य ।
वेधा व्यधत्तास्य पुरो यदेते निःश्रीकतामाकल्यांबभूवुः ॥ ४८ ॥
प्रोदंच्यपाणिं कनकाद्रिदंभा दिदं जगादेव वसुंधरैषा ।
दाता विवेकी विनयी नयी वा विहाय नैनं सुगुणं मयान्यः ॥ ४९ ॥
त्रस्तेन पत्याऽर्धपथे विमुक्ता स्थितापि यद्वैरिवधः स्वदेशे ।
शीतद्युतेस्तीव्रतया नवं स्वं दीपांतरं प्राप्तममंस्त किंचित् ॥ ५० ॥
पर्यंतशैलप्रतिबिंबदंभात् क्रीडारसक्रोडितदिग्द्विपं यः ।
अचीखनत् पुष्करपुण्यपारं कासारसारं शुचि वारितारं ॥ ५१ ॥
विस्मापकश्रीर्भवति स्म तस्मा द्भूत् जगद्धेव इति प्रतीतः ।
दानं समानं समवाप्य यस्य वनीपकाः [के धनिनो नचोर्व्यां] ॥ ५२ ॥
सशोकधूमाश्रुजलैर्मिलित्वा निःश्वासवातैररिपुकामिनीनां ।
सद्यो घनीभूय न दुर्दिनानि तेने यदोजो ज्वलनः किमासां ॥ ५३ ॥
त्यागेतिविश्वस्य विधेर्विधित्सो र्यस्यांगुलीः पाणितलं नखींश्च ।
स्वर्गोस्तनाः स्वर्तुमलवाः स्व-मणिः किलाभ्यासकृतेयसृष्टिः ॥ ५४ ॥
गुणान् यदीयान् गणयन् विधाता परिश्रमं तं कलयांचकार ।
त्रिलोक्य सृष्टावपि नानुभूतो र्यल्लेशमात्रं विषयीबभूव ॥ ५५ ॥
ततो भवद्विश्वलदेवनामा विश्वापतिर्विश्वविकासिधामा ।
यत्पाणिपाथोरुहि कर्णिकायाः पुपोष भावं ननु भूतधात्री ॥ ५६ ॥
विदारिताऽरातिकरींद्रकुंभा द्यान्यत्र पेतुर्युधि मौक्तिकानि ।
तान्येव पुष्पाणि विकस्वराणि यदीयकीर्तिव्रततेर्बभूवुः ॥ ५७ ॥
यदीयकीर्त्या विजितो हिमाद्रि रद्यापि नाश्रूणि विमुंचते किं ।
भृशं तपत् तापनतापनेन द्रवीभवद्धैमशिलाछलेन ॥ ५८ ॥