दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 17, कुल 168 में से
संदर्भ में पढ़ेंवाओ त्ति जहा तहा आलिहिअ जधासमीहिअं करिस्सं ।' ( रत्ना० पृ० ५४ )
इत्यादिना प्रतिपादितः ॥
प्राप्त्याशामाह—
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवः ।
उपायस्यापायशङ्कायाश्च भावादनिर्धारितैकान्ता फलप्राप्तिः प्राप्त्याशा । यथा
रत्नावल्यां तृतीयेऽङ्के (पृ० १४४) वेषपरिवर्ताभिसरणादौ समागमोपाये सति
वासवदत्तालक्षणापायशङ्कायाः— '१एवं यदि आआलवादाली विअ आअच्छिअ
अण्णदो ण णइस्सदि वासवदत्ता ।' इत्यादिना दर्शितत्वादनिर्धारितैकान्ता
ममागमप्राप्तिरुक्ता ॥
नियताप्तिमाह—
अपायभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता ॥ २१ ॥
अपायाभावदवधारितैकान्ता फलप्राप्तिर्नियताप्तिरिति । यथा रत्नावल्याम्—
'विदूषकः— २साअगरिआ दुक्करं जीविस्सदि ।' ( पृ० १३८ ) इत्युपक्रम्य,— ३'किं
ण उवायं चिंतेसि ।' ( पृ० १३९ ) इत्यनन्तरम्,—'राजा—वयस्य, देवीप्रसादनं
मुक्त्वा नान्यमत्रोपायं पश्यामि ।' ( पृ० १३९ ) इत्यनन्तराङ्गार्थबिन्दुनानेन देवी-
लक्षणापायस्य प्रसादेन निवारणान्नियता फलप्राप्तिः सूचिता ॥
फलयोगमाह—
समग्रफलसंपत्तिः फलयोगो यथोदितः ।
यथा रत्नावल्यां रत्नावलीलाभचक्रवर्तित्वावाप्तिरिति ॥
संधिलक्षणमाह—
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ॥ २२ ॥
यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ।
अर्थप्रकृतीनां पञ्चानां यथासंख्येनावस्थाभिः पञ्चभिर्योगाद्यथासंख्येनैव
वक्ष्यमाणा मुखाद्याः पञ्च संधयो जायन्ते ॥
संधिसामान्यलक्षणमाह—
अन्तरैकार्थसंबन्धः संधीरेकान्वये सति ॥ २३ ॥
एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसंबन्धः संधिः ॥
के पुनस्ते संधयः—
मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ।
यथोद्देशं लक्षणमाह—
मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा ॥ २४ ॥
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।
१ 'एवं यदि अकालवातालीवागत्यान्यतो न नेष्यति वासवदत्ता ।' इति च्छाया.
२ 'सागरिका दुष्करं जीविष्यति ।' इति च्छाया. ३. 'किं नोपायं चिन्तयसि ।'
इति च्छाया. ४ 'संश्रया' इति पाठः.