सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished366 पृष्ठ

इस ग्रन्थ के बारे में

बौधायन शुल्बसूत्र वैदिक यज्ञों की वेदियों के निर्माण से सम्बन्धित ग्रन्थ है और भारतीय गणित, विशेषकर ज्यामिति, के सबसे पुराने स्रोतों में गिना जाता है। 'शुल्ब' का अर्थ है रस्सी, जिससे भूमि नापकर वेदियाँ बनाई जाती थीं। वेदियों के आकार और क्षेत्रफल ठीक-ठीक रखने के लिए इस ग्रन्थ में ज्यामिति के कई नियम दिए गए हैं। इनमें वह प्रसिद्ध कथन भी है जो आज पाइथागोरस प्रमेय के नाम से जाना जाता है, और दो के वर्गमूल का बहुत निकट मान भी।

ग्रन्थ में माप की इकाइयाँ, समकोण और वर्ग बनाने की विधियाँ, वृत्त को वर्ग में और वर्ग को वृत्त में बदलने के उपाय, क्षेत्रफलों को जोड़ने-घटाने के नियम, और फिर अग्निचयन की विविध वेदियाँ — गार्हपत्य, आहवनीय, श्येनचिति (बाज़ के आकार की वेदी), रथचक्रचिति, द्रोणचिति, प्रउगचिति और कङ्कचिति — बनाने की विधि है।

इस संस्करण में मूल सूत्रों के साथ दो संस्कृत टीकाएँ हैं: श्री व्यङ्कटेश्वर दीक्षित की 'बोधायनशुल्बमीमांसा' और श्री द्वारकानाथ यज्वा की 'शुल्बदीपिका'। सम्पादक सम्पूर्णानन्द संस्कृत विश्वविद्यालय के पूर्व पुस्तकालयाध्यक्ष पं. विभूतिभूषण भट्टाचार्य हैं, और ग्रन्थमाला के प्रधान सम्पादक डॉ. भागीरथ प्रसाद त्रिपाठी 'वागीश शास्त्री'। यह सरस्वतीभवन ग्रन्थमाला का १०७वाँ ग्रन्थ है, जो १९७९ में विश्वविद्यालय के अनुसन्धान संस्थान से प्रकाशित हुआ। इसमें ३६६ पृष्ठ हैं।

पृष्ठ 23
स्थायी लिंक
पृष्ठ 23 स्कैन

प्रमाणं द्रष्टव्यम् । तासां सामान्यतः समचतुरस्राकृतीनामिष्टकानां नामानि तु तृतीया, चतुर्थी
पञ्चमी षष्ठीत्याद्यानि बोद्धव्यानि । एतासामेवेष्टकानाम् अर्ध-पादादिप्रमाणेष्टका अर्ध्याः पाद्याः
इत्यादिभिर्नामभिरभिधीयत इति तत्रानुसन्धेयम् । यद्यपि लौकिके वास्तुशास्त्रे इष्टकानां
उपधानकाले यथावश्यकं खण्डिताभिरिष्टकाभिः स्थानपूरणमप्रतिषिद्धमिति इष्टककरणानां
एकरूपत्वमेव दृश्यते तथापि वैदिके शुल्वसूत्रे तु खण्डितानां भिन्नानां, जीर्णानां, पाकातिशयेन
कृष्णानां दारुपाषाणादिना चिह्नयुक्तानां वा इष्टकानामुपधानायोग्यत्वकथनात् स्थण्डिल-
निर्वृत्तावुपयोगिनीनां सर्वासामेवेष्टकानां करणभेदेन सम्पादितानामेवोपयोगो भवेदिति
मन्तव्यम् । तदर्थं तत्तत्स्थण्डिलोपयोगिनीनाम् अर्ध्यापाद्यादीनामपि स्वातन्त्र्येणोपदेशः
शुल्वसूत्रेषु भवति ।
सम्पन्नानामिष्टकानां सूत्रकृदुपदिष्टेन प्रकारेण स्थण्डिलाकारसम्पादकं स्थापनमुपधान-
मित्युच्यते । यथादिशम् अव्यवधानेन स्थापितानामिष्टकानां श्रेणी रीतिरित्युच्यते । यथो-
पदिष्टामु रीतिषु स्थापिता इष्टकाः स्थण्डिलस्य श्येनाद्याकारातां सम्पादयन्ति । सम्पादितायामपि
स्थण्डिलस्य श्येनाद्याकारतायां स्थण्डिलस्य विहितमूर्द्धप्रमाणन्तु न लभ्यत इति इष्टका
उपर्युपरि तथैव स्थापनीया यावद् विहितोर्ध्वप्रमाणं स्थण्डिलं स्यादिति । तथा कर्त्तव्ये
चाधःस्थानामिष्टकानां सन्धयस्तु प्रच्छादनीया भवन्ति । तदेव शुल्वसूत्रेषु भेदवर्जनमित्युच्यते ।
एतदर्थमेव तत्र अर्ध्यानां, पाद्यानां दीर्घपाद्यानां, शूलपाद्यानां हंसमुखीनां प्रयोगः शुल्वसूत्रेषु
दृश्यते । यथावसरमेतासां नानाविधानामिष्टकानामुपधानेन सम्पाद्ये स्थण्डिलादौ सर्वत्र
इष्टकानां सन्धयः प्रच्छादिता भवन्ति । लौकिके वास्तुनि पुनर्भेदवर्जनार्थमेकरूपाया एवेष्ट-
कायाः खण्डनेनैव अर्ध्यादीनां यथावश्यकं लाभः क्रियते ।
न च शुल्वसूत्रेभ्योऽपि प्राचीनतरं डोरिक् आयोनिकादि यावनभाषासु लिखितं
ग्रन्थमुपलभामहे यत्र इष्टकानिर्माणं तासामुपधानप्रकारश्च वर्णितो वर्त्तते । वस्तुतस्तु इश-
वीयाब्दस्य काल्पनिकात् प्रवर्त्तनकालात् प्रायः पञ्चाशद्वर्षेभ्यः पूर्वं वित्रुव्युः ( Vitruvius )
नामकेन केनचिद् रोमकेन वास्तुशास्त्रमधिकृत्य ग्रन्थ एको विरचितः । अस्मिंश्च ग्रन्थे तेन
षष्ठेऽध्याये प्रायः द्वादशानां यावनवास्तुशिल्पविदाम् उल्लेखः कृतो वर्त्तते । परं तेषु ग्रन्थेषु
केवलं तत्तद्वास्तुशिल्पिभिः कलितानां निर्मितानाञ्च वस्तूनां वर्णनमेव विद्यत इति
तत्रैवोल्लिखितम् । ( द्रष्टव्यम् Greek Science Vol. II P. 120-121 ) एतेन
सुस्पष्टमिदं यत् बोधायनादीनाम् आचार्याणां ग्रन्थरचनायाः पूर्वम् आयोनिक् डोरिक्
आदिसंज्ञकां यवनानां वास्तुशास्त्रीयं सिद्धान्तम् अधिकृत्य नासीत् कोऽपि ग्रन्थ इति ।
बौधायनशुल्वसूत्रादीनां रचनायाः पश्चादपि प्रायः सप्तशतवर्षपर्यन्तं केवलं वास्तुसम्बन्धि-
भूतार्थज्ञापकं वर्णनपरं रचनाजातमेव प्रणीतवन्तो यवना इति ।

पृष्ठ 24
स्थायी लिंक
पृष्ठ 24 स्कैन

( ञ )
यथा तथा वा भवतु बौधायनशुल्बसूत्रादिकन्तु निर्विवादं भारतीयानां प्रतिभाया
द्योतकमित्यत्र नास्ति सन्देहलेशोऽपि । एतादृशस्य ग्रन्थस्याध्ययनादिकमपि परमावश्यकम् ।
सुदुर्लभस्यास्य ग्रन्थस्य प्रकाशनं श्रेयस्करमिति मत्वा संस्कृतविश्वविद्यालयाधिकारिभिरादिष्टो-
ऽभवमस्य ग्रन्थस्य सम्पादनार्थम् । तदर्थं टीकान्तरमन्विष्यता मया शुल्बमीमांसाख्यायाः
बौधायनशुल्बसूत्रस्य व्यङ्कटेशदीक्षितविरचिताया व्याख्यायाः भण्डारकर ओरिएण्टल रिसर्च
इन्स्टिट्यूट् ग्रन्थालयतः एका प्रतिलिपिरासादिता । इयं प्रतिलिपिस्तावत् प्रायशः शुद्धेति
कादाचित्काया अशुद्धेः परिमार्जनार्थं मत्कल्पिताः पाठाः बन्धनीमध्यगताः प्रश्नचिह्नयुता
कृताः ।
छेद्यकानां प्रतिरूपन्तु कस्यचिदज्ञातस्य पुरुषस्याज्ञया ग्रन्थाकृतितो विपुलं निर्मितमिति
चितीनां छेद्यकन्तु प्रतिरूपनिर्माणार्थं प्रदत्तमपि नष्टम् । चक्षुरोगवशात् सूक्ष्मवस्तुनि दृष्टि-
पातस्य चिकित्सकैः प्रतिषिद्धत्वात् पुनः तन्निर्माणेऽशक्तोऽहमिति पाठकैः क्षन्तव्योऽहम् ।
विदुषामनुचरः
विभूतिभूषणभट्टाचार्यः

पृष्ठ 25
स्थायी लिंक
पृष्ठ 25 स्कैन

बौधायनशुल्बसूत्रस्य विषयसूचिका
पृष्ठसंख्या
१—रेखामानपरिभाषा ( १-१६ सू० ) १-१०
२ समचतुरश्रकरणोपायः ( २०-२७ ) १०-१४
३—दीर्घचतुरश्रकरणोपायः ( २८-३० ) १४-१५
४ - एकतोऽणिमद्दीर्घचतुरश्रकरणोपायः ( ३१ सू० ) १५
५—प्रकारान्तरेण दीर्घचतुरश्रैकतोऽणिमद्दीर्घचतुरश्रकरणम् ( ३२-३३ ) १५-१६
५—द्विकरण्यानयनम् ( ३४ सू० ) १६
७—त्रिकरणी-तृतीयकरण्योरानयनम् ( ३५-३६ ) ६७
८—अन्यासामिष्टकरणीनामानयनम् ( ३७-३८ ) १७-१६
६—समचतुरश्रयोः समासः ( ३९ सू० ) १६-२०
१०—महाचतुरश्रादल्पचतुरश्रापोद्धारप्रकारः ( ४० सु० ) २०
११—समचतुरश्रस्य दीर्घचतुरश्रकरणोपायः ( ४१ सू० ) २१
१२-तत्रैव प्रकारान्तरम् ( ४२ सू० ) २१-२२
१३—दीर्घचतुरश्रस्य समचतुरश्रकरणम् ( ४३ सू० ) २२
१४—समचतुरश्रस्यैकतोऽणिमत् करणम् ( ४४ सू० ) २२-२३
१५-चतुरश्रस्य प्रउगकरणम् ( ४५ सू० ) २३
१६-चतुरश्रस्योभयतः प्रउगकरणम् ( ४६ सू० ) २३-२४
१७—चतुरश्रस्य मण्डलकरणम् ( ४७ सू० ) २४-२५
१८-मण्डलस्य चतुरश्रकरणम् ( ४८-४९.सू० ) २५-२६
१६—गणितेन द्विकरण्यानयनम् ( ५० सू० ) २६-२७
२०—गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनम् ( ५१-५७ सू० ) २७-३०
२१-उत्करस्थानानयनम् ( ५८ सू० ) ३०
२२—दार्शिक्या वेदेर्विहरणम् ( ५६ सू० ) ३०-३२
२३—पाशुकबन्धिकवेदि विहरणम् ( ६०-६२ सू० ) ३२-३३
२४—उत्तरवेदि विहरणम् ( ६३ सू० ) ३३
२५—पैतृक्यावेदेर्विहरणम् ( ६४-६६ सू० ) ३३-३५
२६—सौत्रामणीवेदि विहरणम् ( ६७ सू० ) ३५-३६
२७—अग्निष्टोमवेदि विहरणम् ( ६८ सू० ) ३६-३७
२८—सौमिकमहावेदि विहरणम् ( ६६ सू० ) ३७-३८
२६—सदसो विहरणम् ( ७० सू० ) ३८

पृष्ठ 26
स्थायी लिंक
पृष्ठ 26 स्कैन

( २ )
३०—हविर्धानविहरणम् ( ७१-७२ सू० ) ३८-३९
३१—सौमिकोत्तरवेदिविहरणम् ( ७३ सू० ) ३९-४०
३२—चात्वालोपरवयोर्विहरणम् ( ७४-७५ सू० ) ४०-४१
३३—धिष्ण्यानां विहरणम् ( ७६ सू० ) ४१
३४—आग्नीध्रमार्जालीयागारविहरणम् ( ७७-७८ सू० ) ४१-४२
३५—प्रक्रमादिविशेषनिर्णयः ( ७९-८३ सू० ) ४२-४४
द्वितीयाध्याये
३६—प्रथमद्वितीयाद्यग्नीनां प्रमाणक्षेत्रमानम् ( १-५ सू० ) ४५-५२
३७—(१) उक्तानामग्नीनामूर्ध्वप्रमाणकथनम् ( ६ सू० ) ५२-५६
(२) केषाञ्चिदाचार्याणां मतदूषणम् ( ६ सू० )
(३) इष्टकचितीनां प्रकृतिविकृतिप्रतिपादनम् ( ६ सू० )
(४) अग्निचयने नियमः ( ६ सू० )
३८—स्वमते श्येनचितः सपक्षपुच्छतादिप्रतिपादनम् ( ७-८ सू० ) ५६-५७
३९—अग्निकर्मादिकथनम् ( ६-२८) ५७-७०
(१) भेदवर्जनम् ( ९ सू० )
(२) प्रथमचयने इष्टकसंख्यादिकथनम् ( १० सू० )
(३) अग्नीनां पशुधर्मत्वकथनम् ( ११ सू० )
(४) रेखावशाद् इष्टकानामुपधानप्रकारः ( १२ सू० )
(५) मध्यस्थेष्टकानामुपधानप्रकारः ( १३ सू० )
(६) अग्नेः पशुधर्मत्वप्रदर्शकं ब्राह्मणम् ( १४ सू० )
(७) अग्नीनामन्तस्तन्ववहिस्तन्वभेदात् चयनप्रकारः ( १५ सू० )
(८) चिताविष्टकानां प्रयोगे विशेषकथनम् ( १६-१७ सू० )
(९) इष्टकोपधानात् प्राक्कर्त्तव्यम् ( १८ सू० )
(१०) मण्डलाद्येष्टकानां परिभाषा ( १९ सू० )
(११) इष्टकोपधाने मन्त्राणां प्रयोगप्रकारः ( २०-२२ सू० )
(१२) इष्टकोपधाने रीत्यादिनिर्णयः ( २३ सू० )
(१३) उपयोगानर्हा इष्टकाः स्वयमातृण्णाश्च ( २४-२५ सू० )
(१४) इष्टकानामूर्ध्वप्रमाणकथनम् ( २६-२७ सू० )
(१५) उपहिताविष्टकासु शर्कराप्रयोगविधिः ( २८ सू० )
४०—गार्हपत्यचितेराकारप्रमाणादिकम् ( २६-३० सू० )
४१—चतुरश्रगार्हपत्यचित्तौ प्रयुज्यमानानामिष्टकानां करणम् ( ३१-३२ सू० )
४२—तत्रेष्टकोपधानप्रकारः ( ३३-३४ सू० )

पृष्ठ 27
स्थायी लिंक
पृष्ठ 27 स्कैन

( ३ )
४३-परिमण्डल गार्हपत्यचित्युपधानम् ( ३५-३६ सू० )
४४-धिष्ण्याणामुपधानम् ( ३७-४१ सू० )
४५-इष्टकानिर्माणे विशेषः ( ४२ सू० )
४६-चयने नियमः ( ४३ सू० )
तृतीयाध्याये
४७-श्येनचिदाकारनिरूपणम् ( १-६ सू० ) ७८-८०
४८-चतुरश्रश्येने इष्टकाप्रमाणम् ( ७ सू० ) ८०
४६-चतुरश्रश्येनाग्निमानम् ( ८-१० सू० ) ८१-८३
५०-तत्रेष्टकोपधानप्रकारः ( ११-२७ सू० ) ८३-८६
५१-वक्रपक्ष (पञ्चपत्र) व्यस्तपुच्छश्येनचिद्विमानोपधाने ( २८-४५ सू० ) ८६-६८
५२-वक्रपक्ष ( षट्पत्र ) व्यस्तपुच्छश्येनचिद्विमानोपधाने ( ४६-६७ सू० ) ६६-१०७
५३-कङ्कचिद्विमानोपधाने ( ६८-७७ सू० ) १०७-१११
५४-अलजचिद् विमानोपधाने ( ७८-८० सू० ) १११-११४
५५-प्रउगचिद् विमानोपधाने ( ८१-८४ सू० ) ११४-११६
५६-उभयतः प्रउगचिद्विमानोपधाने ( ८५-८८ सू० ) ११६-११८
५७-सार-प्रधियुक्त-रथचक्रचिद्विमानोपधाने ( ८६-१०७ सू० ) ११८ १२६
५८-चतुरश्र-परिमण्डल-द्रोणचिद्विमानोपधाने ( १०८-११७ सू० ) १२९-१४०
५६-समूह्यपरिचाय्यचितोर्विमानोपधाने ( ११८-१२२ सू० ) १४०-१४३
६०-श्मशानचिद्विमानोपधाने ( १२३-१२८ सू० ) १४३-१५१
६१-कूर्म (वक्राङ्ग-परिमण्डल ) चिद्विमानोपधाने ( १२६-१४१ सू० ) १५१-१६४
६२-एकविधादिषड्विधपर्यन्तचितीनामाकारादिनिरूपणम् (१४२-१४४ सू०) १६४-१६५
६३-आश्वमेधिकाग्नेरभ्यासे विशेषः ( १४५-१४६ सू० ) १६५-१६६

पृष्ठ 28
स्थायी लिंक
पृष्ठ 28 स्कैन

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

(पृष्ठेऽस्मिन् किमपि मुद्रितं संस्कृतमूलपाठजातं नोपलभ्यते / This page contains no printed Sanskrit/Devanagari text.)

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

पृष्ठ 29
स्थायी लिंक
पृष्ठ 29 स्कैन

श्रीगणेशाय नमः ।
बौधायनीयं शुल्बसूत्रम्
टीकाद्वयोपेतम्
अथ शुल्बमीमांसा
कान्तामुखं सन्ततमन्तिकस्थं यस्यावतंसेन्दुरवेक्ष्यमाणः ।
अवाप कार्श्यं किमु पाण्डुताञ्च ददातु देवः स सदा मुदं वः ॥ १ ॥
यस्याङ्गकान्तिप्रकरात् स्वकीयभासोऽभिभूतिं यदि शङ्कमानः ।
शिरस्पदं शीतमरीचिरागाच्छ्रेयोऽभिवृद्धिं शिव एष दद्यात् ॥ २ ॥
सौवनीलतनुकान्तिसङ्गमाद् इन्दिरामनयदेव कृष्णताम् ।
तत्सुवर्णतनुकान्तिसङ्गतैर्योजयामि हरिमाश्रयामि तम् ॥ ३ ॥
येनेन्दुसूर्यौ नयनीकृतौ किं हिरण्यगर्भस्य सुरक्षणाय ।
स्थितस्य नाभीकमलान्तराले निःश्रेयसायास्तु निरन्तरं सः ॥ ४ ॥
पारावारात् प्रोद्धृते चन्द्रलक्ष्म्यौ याभ्यां शश्वन्मौलिवक्षोविभूषे ।
सर्वैर्लोकैः पूजिते सङ्गृहीते वन्दे देवौ वामदेवाच्युतौ तौ ॥ ५ ॥
अबोधकत्वं निखिलेषु वेदेष्वपास्य ये विष्टपमन्वगृह्णन् ।
सूत्रैर्विचित्रार्थचमत्कृतैस्तान् बोधायनाचार्यवरान् भजामः ॥ ६ ॥
भट्टोक्ततन्त्रोद्धरणप्रवीणानद्वैतविद्यापरिपालने च ।
नमामि गोविन्दमखि प्रवेकान् भक्त्या मुहुः सम्प्रति तातपादान् ॥ ७ ॥
सर्वेषु तन्त्रेषु समं स्वतन्त्रः श्रीयज्ञनारायणदीक्षितेन्द्रः ।
अध्यापयद् यो बहुधानवद्यां विद्यामशेषामनुजं यथावत् ॥ ८ ॥
बोधायनोक्तसूत्रं, बुद्ध्वा बहुशो विचार्य नयरीत्या ।
श्रीवेङ्कटेश्वरमखी सुगमां तनोति शुल्बमीमांसाम् ॥ ९ ॥

पृष्ठ 30
स्थायी लिंक
पृष्ठ 30 स्कैन

२ शुल्बसूत्रम् [ प्रथममो-
इह खलु भगवान् बोधायनाचार्यं अग्निचयान् व्याख्यास्यन् शिष्टा-
चारपरिप्राप्तमथशब्दोच्चारणं मङ्गलं कुर्वन् शिष्यावधानार्थं वक्ष्यमाणार्थं
प्रतिजानीते—
अथेमेऽग्निचयाः ॥ १ ॥
अथेम इति । अयीनां श्येनाद्याकारविशिष्टस्थण्डिलविशेषाणां, चया-
श्चयनप्रकाराः प्रदर्श्यन्त इति शेषः ।
ननु चयनशब्दो मन्त्रकरणकेष्टकासाधनकस्थण्डिलनिर्वृत्त्यौपयिक-
व्यापारविशेषवाची । स च व्यापारो नात्र व्युत्पाद्यते, किन्तु सूत्र एव
“पुरुषमात्रेण वेणुना सपक्षपुच्छं१” मित्यारभ्य “कार्ष्णाजिनीरुपानह
उपमुच्यते२। कृषति लाङ्गलं पवीरवं “शुनं नः फला”३ इति
द्वाभ्याम्४। अथैतामैन्द्रीमिष्टकामाक्रमणं प्रत्युपदधाति५। पूर्वामुप-
दधाति । दक्षिणे विभक्तिमुपदधाति६। मध्ये हिरण्मयं पुरुषमुपदधाति७।
सुचावुपदधाति८। अथैता दशस्कन्ध्याः प्राचीरायातयति९। अवकामानू-
पदधाति१०। मण्डलेष्टकामुपदधाति११। मध्ये प्राणभृत उपदधाति१२।
संयत उपदधाति१३। अथाग्नेरङ्गान्युपदधाति१४। अथाग्नि सर्वतोमुखं
१. बौ. श्रौ. सू. ( प्रश्न. १०; खं. १६ : अध्या ६ : पृ. १७ )
२. ,, ,, ,, प्र. १०।२३; पृ. २१, १०।३६, पृ. ३७ )
३. ,, ,, ,, ( तै. सं ४. २. ५. १८-१६ )
४. ,, ,, ,, ( प्र. १०।२५; पृ. २४ )
५. ,, ,, ,, ( प्र. १०।२४; पृ. २३ )
६. ,, ,, ,, ( प्र. १०।३६; पृ. ३७. पृ. २३ )
७. ,, ,, ,, ( प्र. १०।३०; पृ. २८ ) ?
८. ,, ,, ,, ( प्र. १०।३०; पृ. २८)
९. ,, ,, ,, ( प्र. १०।४०; पृ. ३८) १०।३२ पृ. २६
१०. ,, ,, ,, ( प्र. १०।४०; पृ. ३८) १०।३२ पृ. २६
११. ,, ,, ,, ( प्र. १०।३१; पृ. २६)
१२. ,, ,, ,, ( प्र०१०।४०; पृ. ३८ )
१३. ,, ,, ,, ( प्र. १०।३५; पृ. ३२ )
१४. ,, ,, ,, ( प्र. १०।३६; पृ. ३३ )

१. प्रथम अध्याय: शुल्ब-परिभाषा, मान-प्रमाण, दीर्घचतुरस्र (पाइथागोरस प्रमेय मूल) एवं रज्जु-गणित

पृष्ठ 31
स्थायी लिंक
पृष्ठ 31 स्कैन

ऽध्यायः ] बौधायनीयं ३
चिनुते १५। अथ प्राजापत्यामुपदधाति १६। अथापस्या उपदधाति १७।
अथैताः पञ्चस्कन्ध्याः प्राचीरायातयति १८। अथाश्विनीरुपदधाति "ध्रुव-
क्षितिर्ध्रुवयोनिरि"ति पञ्च १९। अथ वालखिल्या उपदधाति २०।
अथाक्ष्णया स्तोमीया उपदधाति २१। अथासपन्ना उपदधाति २२। अथ
द्वाभ्यां शताभ्यां प्रोक्षति। अथाग्निमभिमृशति अग्निरसि वैश्वानरोऽसी-
त्यादिभिः प्रतिपादितम्। तथा च कथमिह प्रतिज्ञा "अथेमे अग्निचया"
इति चेत् ?
सत्यम्; तथाप्यत्र चयशब्देन कल्पसूत्रप्रतिपाद्यमान-मन्त्रकरणके-
ष्टकासाधनक्रमविशेषस्थण्डिलनिर्वृत्त्यौपयिकव्यापारात्मकचयनोपयुक्तक्षेत्र-
विशेषोपधेयेष्टकाकरणश्येनाद्याकारपरिज्ञानोपायभूतो व्यापारो विवक्षितः।
स चेहैव व्युत्पाद्यते नान्यत्रेति युक्तैव प्रतिज्ञा।
ननूक्तरीत्या चयनशब्दोपपत्तिः। तथापि ज्वलनवाचिनोऽग्निशब्दस्य
कथं श्येनाद्याकारविशिष्टस्थण्डिलविशेषपरत्वमिति चेत्, उच्यते—यद्यपि
ज्वलनरूढोऽग्निशब्दः तथापि अग्निसंस्कारचयननिवृत्ते अग्न्याधारस्थ-
ण्डिलेऽपि लक्षणया अग्निशब्दः प्रयुज्यते। अत एव नवमे २३ अग्निशब्दस्य
स्थण्डिलविशेषपरत्वमभ्युपगम्य विचारितम्। तथा हि "हिरण्यशकलै-
रग्निं प्रोक्षतीति २४" श्रूयते।

१५. बौ. श्रौ. सू. (प्र. १०।४०; पृ. ४९)
१६. ,, ,, ,, (प्र. १०।३६; पृ. ३४)
१७. ,, ,, ,, (प्र. १०।३५; पृ. ३२)
१८. ,, ,, ,, (प्र. १०।३८; पृ. ३५)
१९. ,, ,, ,, (प्र. १०।३८; पृ. ३५) तै. सं. ४.३.४.१-५
२०. ,, ,, ,, (प्र. १०।४०; पृ. ३६)
२१. ,, ,, ,, (प्र. १०।४२; पृ. ४०)
२२. ,, ,, ,, (प्र. १०।५५; पृ. ४२)
२३. पू. मी. ६.१.७।
२४. बौ. श्रौ. सू. (प्र० १०।४७)

पृष्ठ 32
स्थायी लिंक
पृष्ठ 32 स्कैन

तत्र सन्देहः किं प्रोक्षणं प्रतीष्टकं कर्त्तव्यम् ? उत सकृदेवेति । तदर्थं
किमग्निरवयवीष्टकाव्यतिरिक्तो नास्तीति उतास्तीति । यदि नास्ति
तदा इष्टकानामेव संभृतानामग्निशब्दवाच्यत्वात् तासाञ्च संस्कार्याणां
बहुत्वात् प्रतिप्रधानं गुणावृत्ति१रिति प्रतीष्टकं प्रोक्षणं कर्त्तव्यम् ।
यद्यन्योऽवयव्यस्ति तदा तस्यैकत्वात् सकृदेव प्रोक्षणं कर्त्तव्यमिति ।
तत्र देवदत्तघटादौ एकावयवाकर्षणे अवयवान्तराकर्षणदर्शनात् अवयव-
सन्धिदर्शनाच्चास्त्यन्योऽवयवी । इह तु एकेष्टकाकर्षणे अन्यङ्गा-
नाकर्षणात् सन्धिदर्शनाच्च नान्योऽवयवी । यद्यपि पुरीषच्छन्नतया
न सन्धिदर्शनं तथाप्यनुमानेनावगम्यते सन्धिरिति नान्योऽवयवी ।
किञ्च पक्वैरामैश्चावयवैरन्योऽवयव्यारभ्यत इति काश्यपीयैर्दर्शित-
त्वाच्च । अतो नान्योऽवयवीति प्रतीष्टकं प्रोक्षणमिति प्राप्तेऽभिधीयते
देशकालभेदेऽप्यबाधिता एकत्वबुद्धिरेव हि अवयविसद्भावे प्रमाणम् ।
सा चेहाप्यस्तीत्यस्त्यवयवी । भागान्तरावकर्षणं वृक्षादावनैकान्तिकं,
सन्धिदर्शनञ्च पटादावनैकान्तिकमिति प्रमाणबलात् पक्वामैरप्यवयवैर-
वयव्यारभ्यत इति तस्यैकत्वात् सकृदेव प्रोक्षणमिति ।
नन्वग्निसंस्कारचयनमेवाप्रसिद्धम्, अस्त्येव चयनविधिः । “य एवं
विद्वानग्निं चिनुत” इति ।
ननु तत्र अग्निशब्दो यागनामधेयम् । न च प्रत्यक्षयजेरश्रवणाद्
यागनामत्वं नास्तीति वाच्यम् । प्रत्यक्षयज्यश्रवणेऽपि “अग्निं कुर्या-
दिति तावत्संज्ञयैव कर्मान्तरेऽवधारिते “अथातोऽग्निमग्निष्टोमेनानु-
यजन्ति यदग्निमनुयजन्ति तदग्निष्टोमेनेति” संस्थाविधिपरैर्वाक्यैर्याज-
नाग्न्यनुवादात्तावदग्निशब्दो यागवचन इति गम्यते । अस्य वाक्यस्य
संस्थाविधायकत्वाभावेऽपि “अग्निमनु अग्निष्टोमेन यजन्ती” त्युक्त्याग्ने-


१. मीमांसान्यायः ।

पृष्ठ 33
स्थायी लिंक
पृष्ठ 33 स्कैन

र्यागत्वमवगम्यते । यथा देवदत्तमनुगच्छति यज्ञदत्त इत्युक्ते देवदत्तोऽपि
गच्छतीति गम्यते । एवमिहाप्यनुयाजनवशादेवाग्नेर्यागत्वमवगम्यत इति ।
चयनम् अप्रमाणकमिति चेत्, अत्राभिधीयते—अग्निशब्दस्य वह्नौ
रूढत्वाद् यागवाचित्वं नोपपद्यते । न चात्र "चित्रया यजेत पशुकामः"
"आज्यैः स्तुवत" इत्यादाविव वाक्यभेदः । नापि "समिधो यजती"त्यादा-
विव तत्प्रख्यत्वम् । न वा "श्येनेनाभिचरन् यजेते"त्यादाविव तद्व्यप-
देशोऽस्ति येन नामत्वं स्यात् । तस्माज्ज्वलनरूपस्याग्नेरेव संस्कारो
विधीयते । तस्य च क्रतुसम्बन्धबोधकानि "अथातोऽग्नि"मित्यादीनि ।
न चाग्निष्टोमादीनाम् अग्निपश्चाद्भावमात्रप्रतीतेः कथं ततः संस्कार-
स्य क्रतुसम्बन्धसिद्धिरिति वाच्यम् ? प्रकरणात्, अग्निशब्दस्य चयन-
संस्कारविशिष्टाग्निपरतया तत्संबन्धे बोध्यमाने विशेष्यभूताग्निसम्बन्धस्य
यदाहवनीयवाक्येनैव सिद्धतया लोहितोष्णीषादिवद् विशेषणीभूतसंस्कार-
सम्बन्धविधिपरत्वस्यावश्यं भावात् । अत एवाग्निशब्दस्य द्रव्य-
वचनतयाऽनुशब्दस्य क्रियापश्चाद्भावप्रतिपादकस्यानुपपत्तिरित्यपास्तम् ।
उक्तरीत्याग्निशब्दस्य चयनपरत्वाग्निपरत्वे विशेषणीभूतचयनक्रियापेक्षया
पश्चाद्भावप्रतिपादकत्वोपपत्तेः । तदयमत्र "अथातोऽग्नि" मित्यादि-
वाक्यस्य निर्गलितोऽर्थः । चयननिर्वृत्तस्थण्डिलस्थापनसंस्कृतेऽग्नावग्निष्टोमा-
दिभिर्यजेतेति ।
न च तुल्यरूपाणामेव पौर्वापर्यंनियमः । पाकमनुभुङ्क्त इति विजा-
तीयानामपि तद्दर्शनात् । तस्मादस्त्यग्नेश्चयनलक्षणः संस्कारः क्रत्वङ्गभूत
इति तन्निरूपणप्रतिज्ञोपपन्नैवेति ।
नन्वेवमपीयं प्रतिज्ञाऽनुपपन्ना । यतो "अथेमे अग्निचया" इति
अग्निचयनप्रदर्शनं प्रतिज्ञाय चतुरस्रपरिमण्डलादिकरणमादावुच्यते । न
च चतुरस्रादीनामग्निचयनोपयोगितया नासंगतिरिति वाच्यम् ।
तस्य वेद्यादिसाधारणत्वेन वेद्या अपि प्रतिपादनस्यादौ प्रतिज्ञाप्रसङ्गात् ।
अग्निचयनस्य वेद्युत्तरमेव प्रतिपादनेन तत्प्रतिज्ञायाश्चैवोचितत्वा-

पृष्ठ 34
स्थायी लिंक
पृष्ठ 34 स्कैन

६ शुल्वसूत्रम् [ प्रथमो-
दिति चेन्न । इहाग्निप्रतिपादनस्यैव भूयस्तया प्राधान्यात्तदानुषङ्गिका-
नामन्येषामपि पूर्वं प्रतिपादनेऽपि न तेषामिह प्रतिज्ञा । यथा जैमिनिना
कृत्स्नवेदस्य धर्मे प्रामाण्येऽपि चोदनायाः प्राधान्यात् "चोदनालक्षणोऽर्थो
धर्म" इति निर्देशः कृतः ।
नन्वर्थवादादीनां सिद्धबोधकत्वेनाप्रामाण्यादेव चोदनाया एव
प्रामाण्यमुक्तम्, न तु प्राधान्यादिति चेन्न । “स्वाध्यायोऽध्येतव्य” इत्य-
ध्ययनविधेः कृत्स्नस्वाध्यायाध्ययनविधायिनः प्रयोजनवदर्थपरतामन्त-
रेणानुपपत्तेः । अर्थवादादीनामपि विधिवाक्यैकवाक्यतया धर्मप्रमितिजन-
कत्वेन प्रामाण्यस्यार्थवादाधिकरणे व्युत्पादितत्वात् । यथा वा प्रमाणादि-
षोडशपदार्थप्रतिपादकस्यापि शास्त्रस्यानुमानप्रधानत्वाद्वनुमानवाचकन्यायप-
देनैव न्यायशास्त्रमिति व्यपदेशः । यथा लोके मल्लप्रचुरे ग्रामे मल्लग्राम
इति व्यवहारः ॥ १ ॥
अथ शुल्बदीपिका
बौधायनीयशुल्वस्य प्रव्याख्याः प्रेक्ष्य यज्वना ।
टीका भट्टात्मजेनेयं क्रियते शुल्बदीपिका ॥
अथेति । अथ गृह्यानन्तरम् । अग्निचयग्रहणं वेद्या अप्युपलक्षणार्थम् ॥ १ ॥
तेषां भूमेः परिमाणविहारान् व्याख्यास्यामः ॥ २ ॥
तेषामिति । तेषामग्नीनाम् । भूमेः क्षेत्रस्य । परिमाणविहारान्
परिमाणानि विहाराश्च परिमाणविहारा इति इतरेतरयोगे द्वन्द्वः । परि-
माणशब्देन अङ्गुल-क्षुद्रपद-प्रादेशादीनां ग्रहणम् । विहारशब्देन भूमे-
श्चतुरस्रादिरूपेण करणस्य ग्रहणम् ॥ २ ॥
तेषामिति । परिमाणविशेषान् विहारान् । विहरणं नाम चतुरस्रादिरूपेण
भूमेः करणम् ॥ २ ॥
अथाङ्गुलप्रमाणं चतुर्दशाणवः ॥ ३ ॥
अङ्गुलस्य सर्वशेषित्वादौ तद्दर्शयति अथाङ्गुलेति । अणवो धान्य-
विशेषा अन्योन्यदीर्घाकारसंश्लिष्टाश्चतुर्दश अङ्गुलप्रमाणं अङ्गुल्याख्यं प्रमाणं
वेदितव्यम् ॥ ३ ॥

पृष्ठ 35
स्थायी लिंक
पृष्ठ 35 स्कैन

ऽध्यायः ] बौधायनीयं ७
अथेति । सर्वप्रमाणशेषत्वादङ्गुलप्रमाणमुच्यत इति शेषः । चतुर्दशेति । अणुर्धान्य-
विशेषः । परस्परसंश्लिष्टाश्चतुर्दशाणवो यावत्प्रमाणं तावदङ्गुलप्रमाणमित्यर्थः ॥ ३ ॥
चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम् ॥ ४ ॥
चतुस्त्रिंशदिति । कोशे यथावत् स्थितास्तथा संश्लिष्टा ( चतु-
स्त्रिशत् तिलाः ) अङ्गुलप्रमाणमित्यपरं मतमित्यर्थः ॥ ४ ॥
चतुस्त्रिंशदिति । कोशसंस्थानवत् पृथुप्रदेशेन संश्लिष्टाश्चतुस्त्रिंशत्तिला अङ्गुल-
प्रमाणमित्यपरं मतम् ॥ ४ ॥
दशाङ्गुलं क्षुद्रपदम् ॥ ५ ॥
दशाङ्गुलमिति । दशानामङ्गुलानां समाहारो दशाङ्गुलम् । पात्रादि-
त्वान्न ङीप् । ( दशाङ्गुलं ? ) “द्वादशप्रत्यञ्चि क्षुद्रपदानि ( बौ. श्रौ सू.
६।२२ ) इत्यादिषु ( दशाङ्गुलं ) क्षुद्रपदमिति वेदितव्यमित्यर्थः ॥ ५ ॥
दशेति । द्वादश प्रत्यञ्चि क्षुद्रपदानि ( बौ० श्रौ० सू० ६।२२ ) इत्येवमादिषु
दशाङ्गुलं क्षुद्रपदं विद्यात् ॥ ५ ॥
द्वादशः प्रादेशः ॥ ६ ॥
द्वादश इति । “तमवस्ताद् प्रादेशेन वर्धयेत्” ( बौ. शु. सू. ३।१० )
इत्यादिषु द्वादशाङ्गुलम् इति पूर्ववत्समाहारः । ( तत् ? ) प्रादेशमिति
वेदितव्यमित्यर्थः ॥ ६ ॥
द्वादशेति । तमवस्तात् प्रादेशेन वर्धयेत् ( बौ० शु० सू० ३।१० ।) इत्येव-
मादिषु द्वादशाङ्गुलः प्रादेश इति विद्यात् ॥ ६ ॥
पृथोत्तरयुगे त्र

पृष्ठ 36
स्थायी लिंक
पृष्ठ 36 स्कैन

८ शुल्बसूत्रम् [ प्रथमो-
पदं पञ्चदश ॥ ८ ॥
पदमिति । “त्रिंशत्पदानि पश्चात्” (बौ. शु. सू. १।६६)
इत्यादिषु पञ्चदशाङ्गुलानि पदमिति वेदितव्यम् ॥ ८ ॥
पदमिति । त्रिंशन् पदानि (बौ० शु० सू० १।६९) इत्यादिषु पञ्चदशाङ्गुल-
प्रमाणं पदं विद्यात् । क्षुद्रपदादीनां पदान्तानां क्रमविध्युपादानात् परस्पर-
संबन्धः ॥ ८ ॥
अष्टाशीतिशतमीषा ॥ ९ ॥
अष्टाशीतीति । “अन्तरेणेपे तिष्ठन् पलाशशाखां धारयन्” (बौ.
श्रौ. सू. ३०।४) इत्यादिषु अष्टाशीत्यधिकं शतमङ्गुलानि ईषेति
वेदितव्यम् ॥ ६ ॥
अष्टाशीतीति । रथसंमितेत्येकेषाम् (बौ० शु० सू० १।६१ सू०) इत्यादिषु
ईषाप्रमाणमष्टाशीतिशताङ्गुलप्रमाणं विद्यात् ॥ ९ ॥
चतुःशतमक्षः ॥ १० ॥
चतुःशतमिति । “रथाक्षान्तराला यूपावटा भवन्ति” (बौ. शु. सू.
१।७६) इत्यादिषु चतुरधिकशताङ्गुलानि (अक्ष इति वेदितव्यम् ?) ॥१०॥
चतुरिति । तत्रैव रथाक्षान्तराला यूपावटा भवन्ति (बौ० शु० सू० १।७९)
इत्येवमादिषु चतुरधिकशताङ्गुलमक्षप्रमाणं विद्यात् ॥ १० ॥
षडशीतिर्युगम् ॥ ११ ॥
षडशीतीति । “विपथयुगेन पुरस्तात्” (बौ. श्रौ. सू. २०।२५)
इत्यादिषु षडशीत्यङ्गुलं युगमिति विद्यात् ॥ ११ ॥
षडेति । तत्रैव षडधिकाशीतिप्रमाणं युगं विद्यात् । ईषादीनां रथावयवापेक्षया
संगतिः ॥ ११ ॥
द्वात्रिंशज्जानुः ॥ १२ ॥
द्वात्रिंशेति । “ऊर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत्” (बौ.
शु. सू. २।६) इत्यादिषु द्वात्रिंशदङ्गुलानि जानुरिति विद्यात् ॥ १२ ॥
द्वात्रिंशेति । ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य (बौ० शु० सू० २।६)
इत्यादिषु द्वात्रिंशदङ्गुलप्रमाणं जानोः प्रमाणं भवति ॥ १२ ॥

पृष्ठ 37
स्थायी लिंक
पृष्ठ 37 स्कैन

प्रथमोध्यायः ] बौधायनीयं ९
षट्त्रिंशच्छम्याबाहू ॥ १३ ॥
षट्त्रिंशादिति । “शम्यामात्री चतुःस्रक्तिर्भवति” (बौ. शु. सू.
३।३) प्राञ्चं बाहुं मित्वा लोके न्यस्य गत्तं खानति” (बौ. श्रौ. सू. १)
इत्यादिषु । शम्या च बाहुरिति इतरेतरयोगे द्वन्द्वः। षट्त्रिंशदङ्गुलानि
शम्याबाहू वेदितव्याविति ॥ १३ ॥
षट्त्रिंशेति । “शम्यामात्री चतुःस्रक्तिर्भवति” (बौ० शु० सू०) “तस्माद्
बाहुमात्राः” खायन्ते (बौ० श्रौ० सू० ?) इत्यादिषु षट्त्रिंशदङ्गुलप्रमाणे शम्याबाहू
विद्यात् ॥ १३ ॥
द्विपदः प्रक्रमः ॥ १४ ॥
द्विपद इति । “प्राग्वंशः षोडशप्रक्रमायामः” (बौ. शु. सू. १।६८)
इत्यादिषु । द्वे पदे यस्य सः द्विपदः। द्वे पदे प्रक्रम इति वेदितव्य-
मित्यर्थः ॥ १४ ॥
द्विपद इति । प्राग्वंशः षोडशप्रक्रमायामः (बौ० शु० सू० १।६८) इत्यादिषु
प्रक्रमप्रमाणं द्विपदं विद्यात् ॥ १४ ॥
द्वौ प्रादेशावरत्निः ॥ १५ ॥
द्वौ प्रादेशाविति । “द्वावित्यरत्निना पक्षौ द्राघीयांसौ (बौ. श्रौ.
सू. १०।१६) इत्यादिषु द्वौ प्रादेशावरत्निरिति वेदितव्यम् ॥ १५ ॥
द्वाविति । उदक् सप्तविंशत्यरत्नयः (बौ० शु० सू० १।१३०) इत्यादिषु द्वौ
प्रादेशावरत्निरिति विद्यात् । एतेषामपि परस्परसम्बन्धोऽन्वेषणीयः ॥ १५ ॥
अथाप्युदाहरन्ति—पदे युगे प्रक्रमेऽरत्नावियति शम्यायाञ्च
मानार्थेषु याथाकामीति ॥ १६ ॥
अथाप्युदाहरन्तीति । एके आचार्याः मानार्थेषु चोदितेषु पदा-
दिषु याथाकामीति । प्रक्रमचोदनायां पदं, शम्याचोदनायामरत्नमित्यादि,
यथेच्छं गृह्णीयादिति । सर्वप्रमाणेषु विकल्पो द्रष्टव्य इति ।
यद्वा पदादिप्रमाणे बहुविधानि शास्त्राणि दृश्यन्ते । द्विपदः प्रक्रम
.इति अस्मदाचार्याः । द्विपदस्त्रिपदो वा प्रक्रम इत्यापस्तम्बाचार्याः ।
२

पृष्ठ 38 स्कैन

तत्र "प्राग्वंशः षोडशप्रक्रमायाम" (बौ. शु. सू.) इत्यत्र द्विपदस्त्रिपदो वा
प्रक्रमो ग्राह्यः । एवं पदादिषु । तथा च प्रक्रमादिशब्दार्थानामेव मिथो
विकल्प इत्यर्थः ॥ १६ ॥
अथेति । पक्षान्तरमिदम् । अत्र कात्यायनः "द्वादशाङ्गुलं पदं चत्वारोऽष्टकाः
शम्येति" च (का० शु०)। आपस्तम्बः "प्रक्रमो

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 39 स्कैन

ऽध्यायः ] बौधायनीयं १२
चतुरश्रमिति । चतुरस्रं चिकीर्षन् यावच्चिकीर्षेत् यावत् प्रमाणं
चतुरस्रं कर्तुमिच्छेत् तावतीं रज्जुमभिलषितसमचतुरस्रस्य पार्श्वकरणा
समामेकां रज्जुं संपाद्य तामुभयतःपाशां शङ्कादिप्रवेशानुकूल-
ग्रन्थिद्वययुक्तां कृत्वा, ग्रन्थ्योरन्तरालम् उक्तप्रमाणं यथा भवति तथा
कृत्वेत्यर्थः । तस्या

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 40 स्कैन

१२ शुल्बसूत्रम् [ प्रथमो-
पूर्वस्मिन् पाशं प्रतिमुच्य पाशेन मण्डलं परिलिखेदेवमपर-
स्मिन् । ते यत्र समेयातां तेन द्वितीयं विष्कम्भमायच्छेत् ।
विष्कम्भान्तयोः शङ्कू निहन्यात् ॥ २२ ॥
पूर्वस्मिन्निति । पूर्वस्मिन् प्राच्ये शङ्कौ पाशमेकं प्रतिमुच्य पाशेन मण्डलं
परिलिखेत् । एवमिति । एवमपरस्मिन् शङ्कावपि मण्डलं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 41 स्कैन

ऽध्यायः ] बौधायनीयं १३
शेषः । प्रमाणादिति । अभिमतचतुरश्रस्य पार्श्वमानीप्रमाणकात् द्वाद-
शाङ्गुलादिकात् द्विगुणांश्चतुर्विंशत्यङ्गुलायतां रज्जुमुभयतःपाशां कृत्वा
द्वादशाङ्गुले लक्षणं चिह्नं करोति । स इति । स रज्जुखण्डः प्राच्यर्थः
प्राक्पार्श्वमानी परिज्ञानार्थः ॥ २४ ॥
उपायान्तरमाह ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 42 स्कैन

१४ शुल्वसूत्रम् [ प्रथमो-
अंसौ च कुर्यात् । यथा दक्षिणश्रोण्यंसौ कुर्यात् एवमुत्तरापायमनेन
उत्तरौ श्रौण्यंसौ कुर्यात् । तथा च श्रोणीद्वयमंसद्वयं च कृत्वा समचतुरस्रं
कुर्यादिति समचतुरस्रकरणे प्रकारद्वयम् ॥ २७ ॥
पृष्ठ्येति । अभीष्टक्षेत्रायामसंमिता सर्वमानेपृष्ठयतःपाशा प्राची । पूर्वापरयोः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें