Skip to content
SarvaKosh
Back to the archive

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

by महर्षि आपस्तम्ब / हरदत्त टीका

DevanagariSanskritpublished399 pages

प्रस्तावना एवं धर्मसूत्र मंगलाचरण

Page 1Permalink

THE
KASHI SANSKRIT SERIES
(HARIDÂS SANSKRIT GRANTHAMÂLÂ)
NO. 93.
(Karmakānda Section No 7.)
ĀPASTAMBA DHARMASŪTRA
WITH THE COMMENTARY UJJWALA
By
S'RI HARADATTA MIS'RA
Edited with—
Notes, Introduction Word Index, Etc.,
by
VĒDAVISĀRADA, MĪMĀṀSĀKĒSARĪ,
PANDIT. A. CHINNASWĀMĪ S'ĀSTRĪ
Professor, Benares Hindu University
and
MĪMĀṀSĀSĪROMANĪ
Pandit. A. Ramanatha S'astri
Mīmāṁsādhyāpaka Sanskrit College, Tirupati.
PRINTED—PUBLISHED & SOLD BY ,
JAI KRISHNA DÂS HARIDÂS GUPTA .
The Chowkhamba Sanskrit Series Office,
Benares City
1932
[Registered According to Act XXV. of 1867]
All Rights Reserved by the Publisher]

Page 2Permalink

Printed-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandir,
BENARES CITY.

Printed by Jai Krishna Das Gupta
at the Vidya Vilas Press, Benares.

Page 3Permalink

हरिदाससंस्कृतग्रन्थमालासमाख्य-
काशीसंस्कृतसीरिज़पुस्तक्रमालायाः
९३
कर्मकाण्डविभागे (७) सप्तमं पुष्पम् ।
आपस्तम्बधर्मसूत्रम् ॥
श्रीमद्धरदत्तमिश्रविरचितया
उज्ज्वलाख्यया वृत्त्या संवलितम् ।
श्रीकाशीहिन्दूविश्वविद्यालयप्रधानमीमांसाध्यापकेन
"वेदविशारदेन, मीमांसाकेसरिणा"
पण्डितप्रवरेण श्रीचिन्नस्वामिशास्त्रिणा
श्रीपद्मपुरीविराजमानश्रीवेङ्कटेश संस्कृतमहाविद्यालये पूर्वमीमांसाध्यापकेन,
मीमांसाशिरोमणिना पं० अ. रामनाथशास्त्रिणा च
टिप्पण्यादिभिस्संयोज्य संशोधितम् ।
प्रकाशकः -
जयकृष्णदास-हरिदास गुप्तः-
चौखम्बा-संस्कृत-सीरिज़ आफिस,
बनारस सिटी ।
सं० १९८९
राजकीयनियमानुसारेणास्य सर्वेऽधिकारा प्रकाशकेन स्वायत्तीकृताः ।

Page 4Permalink

इस कार्यालय द्वारा "काशीसंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा
"चौखम्बासंस्कृतसीरिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" ग्रन्थ-
मालायें निकलती हैं तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तकें
प्रकाशित की गई हैं तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के
ग्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें । इसके अलावा हमारे
यहां सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परीक्षा प्रार्थनीय है ॥
पत्रादि प्रेषणस्थानम्—
जयकृष्णदास-हरिदास गुप्तः-
"चौखम्बा संस्कृतसीरिज़" आफिस, विद्याविलास प्रेस,
गोपालमन्दिर के उत्तर फाटक, बनारस सिटी ।

Page 5Permalink

श्रीगणेशाय नमः ॥
भूमिका ॥
इदमिदानीं श्रीमदापस्तम्बमहर्षिप्रणीतं धर्मसूत्रं श्रीमिश्रहरदत्तप्रणी-
तया उज्ज्वलाख्यया वृत्त्या समुज्ज्वलितं मुद्रयित्वा प्रकाशं प्रापय्य प्रेक्षावतां
चक्षुर्गोचरतामापाद्यते । ग्रन्थोऽयं बहुत्र बहुधा मुद्रितोऽपि एतर्हि दौर्लभ्य-
मेवाऽऽसाद्य एतदधीतिबोधाचरणप्रचारकाणा छात्राणामध्यापयितॄणां च
कामपि कष्टामेव दशामपादयन्नवर्तत । तदिदं दुःखं दूरीकर्तुकामेन
चौखम्बासंस्कृतपुस्तकालयाधिपतिना सुरभारतीसेवनैकफलमात्मजीवितमापा-
दयता श्रेष्ठिवर्येण श्रीजयकृष्णदासगुप्तमहोदयेन ग्रन्थस्याऽस्य पुनस्संस्क-
रणे कृतमतीभूय एतत्संशोधनार्थमावामभ्यर्थितौ । आवाभ्यामपि तच्चिन्तितं
साधु मन्वानाभ्यां कार्यमेतत्स्वीकृत्य, अध्ययनाध्यापनावशिष्टेऽल्पी-
यसि काले यथामति परिशोध्य प्रकाशं नीतोऽयं ग्रन्थः ।
एतद्ग्रन्थसंशोधनार्थं अधोङ्कितान्यादर्शपुस्तकानि समुपयोजितानि—
( १ ) कुम्भघोणे नागराक्षरेषु मुद्रितं मदीयं पुस्तकमेकम् ।
( २ ) मुम्बय्यां Dr बूलर् महाशयेन मुद्रितं विश्वविद्यालयीयं पुस्तकं
द्वितीयम् ।
( ३ ) अस्मन्मातुलगृहादानीतं ग्रन्थाक्षरैस्तालपत्रेषु लिखितं तृतीयम् ।
( ४ ) पण्डितप्रवरश्रीविद्याधरशर्ममहोदयानां हस्तलिखितं पुस्तकं
चतुर्थम् ।
( ५ ) मैसूरपुरे देवनागराक्षरेषु मुद्रितं सरस्वतीभवनाल्लब्धं पुस्तकं
पञ्चमम् ।
( ६ ) महीशूरपुर एव तैलङ्गाक्षरेषु मुद्रितं षष्ठम् ।
( ७ ) दक्षिणदेशस्थसुन्दरगिरि समाख्यग्राम (नल्लूर्) वास्तव्यानां
श्रीमतां पं० कल्याणसुन्दरशास्त्रिणां ग्रन्थाक्षरैस्तालपत्रेषु लिखितं सप्तमम् ।
(८) श्रीमतामाचार्यध्रुवमहोदयाना पुस्तकमांग्लभाषानुवादरूपमष्टमम् ।

Page 6Permalink

( २ )

एतत्पुस्तकाष्टकमवलम्ब्य संशोध्य मुद्रितमपीदं पुस्तकमन्ततः पुरुष-
स्वभावसुलभया कयाचिदशुद्धिसन्तत्याऽपरित्यक्तमेव वर्ततीति तदपनुत्त-
येऽशुद्धसंशोधनं ग्रन्थान्ते सन्नियोजितम् । प्रथमप्रश्नीयस्याऽष्टमपटला-
त्मकस्याऽध्यात्मपटलस्याऽपरा काचिद्व्याख्या श्रीमच्छङ्करभगवत्पादाचार्य-
प्रणीता अनन्तशयनग्रन्थमालायां पूर्व मुद्रिताऽपि अध्येतृसौकर्यार्थमत्रैवोज्ज्व-
लया साकं पुनर्मुद्रिता । यद्यपि व्याख्याया अस्याः शङ्करभगवत्पादीयत्वेऽ-
त्रैव तथोल्लेखनमृते नाऽन्यत्किञ्चन प्रमाणमुपलभ्यते, नाऽपि तदीयव्या-
ख्याशैल्याऽन्यत्र स्थितया सेयं संवदति, तथाऽपि यावत्तदनुरोधि विरोधि
वा प्रमाणमुपलभामहे तावदस्मिन्विषये जोषभावमेव शरणं समुचितं
मन्वानौ तूष्णीमास्वहे ।
सूत्रप्रणेतुः श्रीमदापस्तम्बमहर्षेः श्रीमिश्रहरदत्ताचार्यस्य चेतिवृत्त-
विषये यदुक्तमस्माभिरापस्तम्बगृह्यसूत्रभूमिकायां, न ततोऽधिकं विशेषं वक्तुं
पार्यतेऽस्मद्धस्तगतामैतिहासिकसामग्रीमवलम्ब्य, परन्तु-हरदत्ताचार्याः मद्र-
देशान्तर्गतचोलदेशनिवासिनः द्राविडभाषाभाषिणश्चेत्यवगम्यते तदीयैरेव
वचनैः । ते हि- 'यथावर्षं प्रजा दानं दूरेदर्शनं मनोजवता' ( आप.
धर्म. २-२३--७) इति सूत्रव्याख्यानावसरे दूरदर्शनोदाहरणार्थं यस्य क-
स्यचिद्देशस्योपादाने प्रसक्ते, 'चोलेष्ववस्थितास्तदैव हिमवन्तं दिदृक्षेरन्'
इति चोलदेशमेवोपाददते । एवं 'स्त्रीभ्यस्सर्ववर्णेभ्यः' ( आप. धर्म. २-
२९-१६) इति सूत्रे 'द्राविडाः कन्याः मेषस्थे सवितर्यादित्य-
पूजामाचरन्ती'ति द्राविडाचारमेव प्रमाणयन्ति । एवमेव गौतमधर्म-
सूत्रव्याख्यायां मिताक्षरायामपि(१) 'बालदेशान्तरितप्रव्रजितानामसपि-
ण्डानां सद्यश्शौचम्' ( गौ. ध. १४--४४ ) इत्याशौचप्रकरणस्थं
सूत्रं व्याचक्षाणाः 'अनुष्ठानमपि चोलदेशे प्रायेणैवम्' (२) इति चो-
लदेशाचारमेव प्रमाणयन्ति । एवं तत्रैव 'मौञ्जी ज्या मौर्वी मेखला क्रमेणे'


( १ ) इमे एव हरदत्ताचार्याः गौतमधर्मसूत्रव्याख्यातार इति निरूपितमापस्त-
म्बगृह्यसूत्रभूमिकायाम् । तत् ततोऽवगन्तव्यम् ।
( २ ) गौतमधर्मसूत्रव्याख्यायां मिताक्षरायां मद्रपुरे तैलङ्गाक्षरमुद्रितायां ११९
पृष्ठे २३ पङ्क्तौ द्रष्टव्यम् ।

Page 7Permalink

( ३ )
( गौ. ध. १--१५)ति सूत्रे(१) 'मूर्वा आरण्य ओषधिविशेषः, यस्याऽर-
त्निप्रमाणानि पत्राणि द्व्यङ्गुलविस्ताराणि, मरल् इति द्राविडभाषायां प्रसि-
द्धि'रिति, (२) 'कुण्डाशी' ( गौ. ध. (१५--१८ ) इति सूत्रे, 'किलासः
त्वग्दोषः तेमल् इति द्राविडभाषाया प्रसिद्धः' इति च द्राविडीमेव प्रसिद्धिमु-
पाददाना इमे आत्मनो द्राविडेदेशनिवासित्व द्राविडभाषाभाषित्त्वञ्च स्पष्टमे-
वाऽवगमयन्ति ।
उज्ज्वलानाकुलयोः पौर्वापर्यालोचनायां प्रथममनाकुला तत उज्ज्वलेत्य-
वगम्यते, यत उज्ज्वलायां बहुत्र "तस्यापि प्रयोगो गृह्य एवोक्तः । 'प्रपञ्चित-
मेतत् गृह्ये' "वयं तु न तथेति गृह्य एवाऽवोचाम" 'एतत् गृह्ये व्याख्यातम् ,
(आप. ध. पृ. ५१, ७२, २०८) इति व्यपदिष्टं तैः । अतो यथा मूलभूत-
तयोर्गृह्यधर्मसूत्रग्रन्थयोः पौर्वापर्य, एवमेव तद्वृत्त्योरनाकुलोज्ज्वलयोरपीति
प्रतीयते-इत्येतावदाधिकमत्र विवक्षितम् ।
एतन्मुद्रणविषये पुस्तकप्रदानेन, पुस्तकालयीयं नियममप्यविगणय्य
यावन्मुद्रणमस्मद्धस्त एव पुस्तकस्याऽवस्थापनेन चाऽस्मान् सुदूरमनुगृही-
तवतां श्रीमतामाचार्यध्रुवमहोदयानां, श्रीमतां पण्डितप्रकाण्डगोपीनाथक-
विराजमहोदयाना, अन्येषाञ्च विबुधवरेण्यानां विषयेऽत्यन्तमधमर्णावावां
तान् प्रति कार्त्तज्ञ्यमतितरामाविष्कुर्वहे ।
एवं सुरभारतीसमुज्जीवनबद्धपरिकरं श्रीजयकृष्णदासहरिदासगुप्तम-
होदयं श्रेष्ठिवर्य प्रति बहीराशिषः प्रयुञ्ज्वहे ।
इतः पूर्वतनान्यदसीयानि संस्करणान्यपेक्ष्य संस्करणेऽस्मिन् केनाऽपि
चन वैजात्येन तादृश्या च छात्रोपकृत्या भाव्यमिति संकल्पेनाऽऽभ्यामत्र य-
तितम् । तत्राऽऽवां प्राप्तसाफल्यौ न वेति निर्णये मनीषिमनीषैव निकषोपलः
इति सर्वं शिवम् ॥
वाराणसी } सुधीजनवशंवदौ
चैत्रकृष्णनवमी सं० १९८८ } अ. चिन्नस्वामिशास्त्री
३०-३-१९३२ } अ. रामनाथशास्त्री च
१. २. तैलङ्गाक्षरमुद्रितमिताक्षरापुस्तके यथाक्रमं ४,१६, १२६ २३, पृष्ठे
द्रष्टव्यम् ।

Page 8Permalink

॥ श्रीः ॥
आपस्तम्बधर्मसूत्रीयविषयानुक्रमणिका ॥
विषयाः— पृष्ठम्— | विषयाः— पृष्ठम्—
प्रथमप्रश्ने— | प्रथमप्रश्ने—
प्रथमकण्डिकायाम्— | षष्ठकण्डिकायाम्—
धर्मप्रमाणानि । ३ | ब्रह्मचारिनियमाः । ३७
चातुर्वर्ण्यम् । " | प्रथमप्रश्ने—
तेषां जन्मतः ज्यैष्ठयम् । ४ | सप्तमकण्डिकायाम्—
वर्णधर्मः । ५ | ब्रह्मचारिधर्माः । ४१
उपनयनविधिः । ७ | स्नातकधर्माः । ४५
विद्वानेवोपनेता । " | प्रथमप्रश्ने—
उपनयनकालः । " | अष्टमकण्डिकायाम्—
व्रात्यसंस्कारः ९ | ब्रह्मचारिधर्माः । ४७
प्रथमप्रश्ने— | अनध्यायाः ५१
द्वितीयकण्डिकायाम्— | प्रथमप्रश्ने—
व्रात्यसंस्कारः । ११ | नवमकण्डिकायाम्—
ब्रह्मचारिनियमाः । १३ | नैमित्तिकानध्यायः । ५३
दण्डाजिनमेखलादिकम् । " | प्रथमप्रश्ने—
ब्रह्मचारिधर्माः । १७ | दशमकण्डिकायाम्—
प्रथमप्रश्ने— | अनध्यायाः । ५७
तृतीयचतुर्थयोः कण्डिकयोः— | प्रथमप्रश्ने—
ब्रह्मचारिनियमाः । १९ | एकादशकण्डिकायाम् —
प्रथमप्रश्ने— | अनध्यायाः । ६१
पञ्चमकण्डिकायाम्— | प्रथमप्रश्ने—
अभिवादनम् । ३१ | द्वादशकण्डिकायाम्—
पादोपसंग्रहणम् । ३३ | नित्यस्वाध्यायः । ६९
ब्रह्मचारिनियमाः । ३५ | पञ्च महायज्ञाः । ७१
| प्रथमप्रश्ने—
| त्रयोदशकण्डिकायाम्—
| पञ्चयज्ञादि । ७३
| ओङ्कारप्रशंसा । ७६

Page 9Permalink

२ आपस्तम्बधर्मसूत्रीय-
विषयाः— पृष्ठम् । विषयाः— पृष्ठम् ।
प्रथमप्रश्ने— अपण्यानि । ११५
चतुर्दशकण्डिकायाम्— प्रथमप्रश्ने—
नित्यकर्माणि । ७७ एकविंशकण्डिकायाम्—
गुरूपसंग्रहणम् । ७८ पतनीयानि । ११७
अभिवाद्याः । ७९ अशुचिकराणि । ११९
अभिवादनविधिः । ८० प्रथमप्रश्ने—
कुशलप्रश्नः । ८१ द्वाविंशकण्डिकायाम्—
प्रथमप्रश्ने— अध्यात्मपटलम् । १२१
पञ्चदशकण्डिकायाम्— आत्मज्ञानोपायाः । १२३
आचमनविधिः । ८५ आत्मलाभश्रैष्ठ्यम् । १२४
प्रथमप्रश्ने— आत्मज्ञानप्रशंसा । १२५
षोडशकण्डिकायाम्— आत्मज्ञानसंपादनम् । १२९
आचमनविधिः । ९१ आत्मस्वरूपम् । १३१
अभोज्यानि । ९३ प्रथमप्रश्ने—
क्वचित् भोजननिषेधः । ९५ त्रयोविंशकण्डिकायाम्—
प्रथमप्रश्ने— आत्मज्ञानफलम् । १३३
सप्तदशकण्डिकायाम्— भूतदाहीया दोषाः । १३६
अभोज्यान्नानि । ९७ आत्मलाभयोगाः । १३७
अभक्ष्याणि । ९९ प्रथमप्रश्ने—
प्रथमप्रश्ने— चतुर्विंशकण्डिकायाम्—
अष्टादशकण्डिकायाम्— क्षत्रियवधप्रायश्चित्तम् । १४०
अनापद्वृत्तिः । १०३ ब्रह्महत्याप्रायश्चित्तम् । १४१
अभोज्यान्नाः । १०५ ब्रह्मघ्नो वृत्तिः । १४३
भोज्यान्नाः । १०७ सुरापानप्रायश्चित्तम् । १४५
प्रथमप्रश्ने— गुरुदारगमनप्रायश्चित्तम् । ,,
एकोनविंशकण्डिकायाम्— प्रथमप्रश्ने—
भोज्यान्नाः । १०९ पञ्चविंशकण्डिकायाम्—
प्रथमप्रश्ने— स्तेयादिप्रायश्चित्तम् । १४७
विंशतितमकण्डिकायाम्— प्रथमप्रश्ने—
लौकिकप्रयोजनानपेक्ष्यैव षड्विंशकण्डिकायाम्—
धर्मानुष्ठानम् । ११२ धेनुहननप्रायश्चित्तम् । १४८
धर्मलक्षणम् । ११३ अपतनीयप्रायश्चित्तम् । १४९

Page 10Permalink

विषयानुक्रमणिका । ३
विषयाः— पृष्ठम् । विषयाः— पृष्ठम् ।
प्रथमप्रश्ने— प्रथमप्रश्ने—
सप्तविंशकण्डिकायाम्— एकोनत्रिंशकण्डिकायाम्—
अपतनीयप्रायश्चित्तम् । १९३ पतितधर्माः । १६१
प्रथमप्रश्ने— प्रथमप्रश्ने—
अष्टाविंशकण्डिकायाम्— त्रिंशदादिषु तिसृषु कण्डिकासु —
अपतनीयप्रायश्चित्तम् । १९७ स्नातकधर्माः । १७५
भ्रूणहत्याप्रायश्चित्तम् । १९९
इति प्रथमप्रश्नविषयाः ॥
अथ द्वितीयप्रश्नविषयाः ॥
द्वितीयप्रश्ने— अवध्याः । २१६
प्रथमद्वितीययोः कण्डिकयोः — दण्डप्रणयनम् । २१७
गृहस्थधर्माः । १७९ द्वितीयप्रश्ने—
द्वितीयप्रश्ने— एकादशकण्डिकायाम्—
तृतीयकण्डिकायाम्— मार्गप्रदानम् । २१८
वैश्वदेवम् । १८७ द्वितीयविवाहः । २१९
वैश्वदेवबलिः । १८९ सगोत्राविवाहनिषेधः । २२१
द्वितीयप्रश्ने— विवाहभेदाः । २२३
चतुर्थकण्डिकायाम्— द्वितीयप्रश्ने—
वैश्वदेवबलिः । १९१ द्वादशकण्डिकायाम्—
गृहस्थधर्माः । १९३ अभिनिम्रुक्तादिप्रायश्चित्तम् । २२५
द्वितीयप्रश्ने— द्वितीयप्रश्ने—
पञ्चमकण्डिकायाम्— त्रयोदशकण्डिकायाम्—
गृहस्थधर्माः । १९७ स्त्रीरक्षणम् । २२९
द्वितीयप्रश्ने— पुत्रस्य दानादिनिषेधः । २३१
षष्ठादिषु चतसृषु कण्डिकासु — दायभागः । २३३
अतिथिपूजा । २०१ द्वितीयप्रश्ने—
द्वितीयप्रश्ने— चतुर्दशकण्डिकायाम्—
दशमकण्डिकायाम्— दायविभागः । २३५
ब्राह्मणादिवृत्तिः । २१५ द्वादश पुत्राः । २३७

Page 11Permalink

४ आपस्तम्बधर्मसूत्रीयविषयानुक्रमणिका ।

विषया - पृष्ठम् । विषयाः- पृष्ठम् ।
द्वितीयप्रश्ने- द्वितीयप्रश्ने-
पञ्चदशखण्डिकायाम्- द्वाविंशखण्डिकायाम्-
प्रेतोदकदानम् । २४५ वानप्रस्थधर्माः । २७५
अहर्हविष्यहोमः । २४७ ब्रह्मचर्यादिप्रशंसा । २७७
द्वितीयप्रश्ने- द्वितीयप्रश्ने-
षोडशखण्डिकायाम्- त्रयोविंशखण्डिकायाम्-
श्राद्धकल्पः । २५१ गार्हस्थ्यश्रैष्ठ्यम् । २७९
द्वितीयप्रश्ने- द्वितीयप्रश्ने-
सप्तदशखण्डिकायाम्-- चतुर्विंशखण्डिकायाम्-
श्राद्धकल्पः । २५५ गार्हस्थ्यश्रैष्ठ्यम् । २८१
तस्य कालः । ,, द्वितीयप्रश्ने-
श्राद्धीयब्राह्मणः । २५७ पञ्चविंशखण्डिकाम्-
द्वितीयप्रश्ने- राजधर्माः । २८५
अष्टादशखण्डिकायाम्- द्वितीयप्रश्ने-
नित्यश्राद्धम् । २६१ षड्‌विंशखण्डिकायाम्-
द्वितीयप्रश्ने- राजधर्माः । २८७
एकोनविंशखण्डिकायाम्- नियोगविधिः । २८९
पुष्ट्यर्थप्रयोगः । २६३ द्वितीयप्रश्ने-
पुष्टिकामप्रयोगः । २६५ सप्तविंशखण्डिकायाम् -
द्वितीयप्रश्ने- परस्त्रीगमनप्रायश्चित्तम् । २९१
विंशखण्डिकायाम्- द्वितीयप्रश्ने-
पुष्ट्यर्थप्रयोगः । २६७ अष्टाविंशखण्डिकायाम्-
द्वितीयप्रश्ने- दण्डानर्हाः । २९५
एकविंशखण्डिकायाम्- द्वितीयप्रश्ने-
आश्रमाः । २६९ एकोनत्रिंशखण्डिकायाम्-
सन्यासधर्माः । २७१ साक्ष्यविधिः । २९७
वानप्रस्थाश्रमः । २७३ धर्मलक्षणम् । २९९

इति द्वितीयप्रश्नविषयाः ।

Page 12Permalink

॥ श्रीः ॥
शिवाभ्यां नमः ॥
आपस्तम्बमहर्षिप्रणीतं
धर्मसूत्रम् ॥
श्रीहरदत्तविरचितया उज्ज्वलाख्यया वृत्त्या सहितम् ॥
प्रथमः प्रश्नः ॥
(१)प्रणिपत्य महादेवं हरदत्तेन धीमता ।
धर्माख्यप्रश्नयोरेषा क्रियते वृत्तिरुज्ज्वला ॥ १ ॥
अथातस्सामयाचारिकान् धर्मान् व्याख्यास्यामः ॥ १ ॥
अथशब्द आनन्तर्ये । अतश्शब्दो हेतौ । उक्तानि श्रौतानि गा-
र्ह्याणि च कर्माणि । तानि च वक्ष्यमाणान्धर्मानपेक्षन्ते । कथम् ? आ-
चान्तेन कर्म कर्तव्यं, शुचिना कर्तव्य'मिति वचनादाचमनशौचादी-
नपेक्षन्ते ।
(२) 'सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु' ।
इति वचनात् सन्ध्यावन्दनम् । एव 'अशुचिकरानिर्वेषः,'(३) 'द्विजा-
तिकर्मभ्यो हानिः पतनम्' इति वचनात् ब्रह्महत्यादिप्रायश्चित्तानि च ।
एवमन्येष्वपि यथासम्भवमपेक्षा द्रष्टव्या । अतस्तदनन्तरं सामयाचारिका-
न् धर्मान् व्याख्यास्यामः । पौरुषेयी व्यवस्था समयः । स च त्रिविधः—वि-
धिर्नियमः प्रतिषेधश्चेति । तत्र प्रवृत्तिप्रयोजनो विधिः—(४) 'सन्ध्योश्च
१. मातामहमहाशैलं महस्तदर्पितामहम् ।
कारणं जगतां वन्दे कण्ठादुपरि वारणम् ॥ १ ॥
इत्यधिक पाठः क० पु० ।
२. दक्षस्मृ० अ० २ श्लो २९ ' यदन्यत् कुरुते कर्म न तस्य फलभाग्भवेत् '
इति तस्योत्तरार्धम् ।
३ गौ० ध० २१. ४. “अशुचिर्द्विजाती”ति. घ. पु ४. आप० ध० १. ३०. ८.

Page 13Permalink

२ आपस्तम्बधर्मसूत्रे [(प्र.१.)कं.१.
बहिर्गामादासनं वाग्यतश्चे'त्यादिः । निवृत्तिप्रयोजनावितरौ । (१)'प्राङ्
मुखोऽन्नानि भुञ्जीते'ति नियमविधिः । क्षुदुपघातार्था भोजने प्र
वृत्तिः । शक्यं च (२)यत्किञ्चिद्दिङ्मुखेनापि भुञ्जानेन क्षुदुपहन्तुम् ।
तत्र नियमः क्रियते-प्राङ्मुख एव भुञ्जीत, न दक्षिणादिमुख इति ।
(३)परिसङ्ख्या तु नियमस्यैव कियानपि भेदः । एवं द्रव्यार्जने रागा-
त्प्रवृत्तं प्रति नियम क्रियते-'याजनाध्यापनप्रतिग्रहैरेव ब्राह्मणो द्रव्य
मार्जयेत्, न कृषिवणिज्यादिने'ति । (४)'ब्राह्मणस्य गौरिति पदोपस्प
र्शन वर्जये'दित्यादिः प्रतिषेधः । समयङ्कला आचारास्समयाचारा
तेषु भवाः सामयाचारिकाः । एवम्भूतान् धर्मानिति । (५)कर्मजन्योऽभ्युद-
यनिःश्रेयसहेतुरपूर्वाख्य आत्मगुणो धर्मः । तद्धेतुभूतकर्मव्याख्यानमेव
तद्व्याख्यानम् । तत्र विधिषु तावद्विषयानुष्ठानाद्धर्म इति नास्ति वि-
प्रतिपत्तिः । नियमेष्वपि (६)नियमानुष्ठानाद्धर्म, प्रतिषेधेष्वपि(७)न
अर्थानुष्ठानाद्धर्म इति केचित् । अत एव धर्मानित्याविशेषेणाह ।
अन्ये तु-विधिष्वेव धर्मः, इतरयोस्तु विपरीतानुष्ठानादधर्मः केव-
लम्, न तु विषयाननुष्ठानात् कश्चिद्धर्मः । न ह्यप्रतिगृह्णन्नपिवन्वा सुरां
धार्मिक इति लोके प्रसिद्धः । सूत्रे तु धर्मग्रहणमधर्मस्याप्युपलक्षण-
मिति स्थितिः-इति ॥ १ ॥
किं भोः समयोऽपि प्रमाणम्, ? (८)यदि स्यादिदमपि प्रमाणं भ-
वितुमर्हति-'चैत्यं वन्देत स्वर्गकामः । प्रगे भुञ्जीत । केशानुलुञ्च्छेत् ।
१. आप० ध० १. ३१. १. २. यत्किञ्चनदिङ्मुखेन इति क० पु० ।
३. प्रतिषेध परिसङ्ख्येत्यनर्थान्तरम् । परिसङ्ख्या वर्जनबुद्धिः । तद्विषयको विधि
परिसङ्ख्याविधि । स परिसङ्ख्यापदेनाऽप्यभिधीयते इति मीमांसकाना मतम् । अत एव
विधिरत्यन्तमप्राप्ते नियम पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥
इत्येव वार्तिककारैरुक्तम् । ग्रन्थकारस्त्वद्य परिसङ्ख्या नियमविधावेवान्तर्भावयति ॥
४ आप० ध० १ ३१. ६.
५. इदं च तार्किकादिमतमनुसृत्य प्रभाकरमतञ्च । भाट्टमते तत्तत्कर्मणामेव यागदान-
होमादिरूपाणा चोदनालक्षणाना धर्मत्वाङ्गीकारात् । उक्तं हि भट्टपादै -
श्रेयो हि पुरुषप्रीतिस्सा द्रव्यगुणकर्मभिः ।
चोदनालक्षणैस्साध्या तस्मात्तेष्वेव धर्मता ॥ इति । श्लो. वा. १० १९१
६. पक्षेऽप्राप्तांशस्य पूरणकरणादित्यर्थः ।
७. तत्तन्निषेध्यक्रियाप्रागभावपरिपालनादिति यावत् ।
८ यदि प्रमाणमिदमपि प्रमाण इति क० पु० ।

Page 14Permalink

धर्मप्रमाणानि] उज्ज्वलापेते प्रथमः प्रश्नः । ३

तिष्ठन् भुञ्जीत । न स्नाया'दिति । तत्राह-
धर्मज्ञसमयः प्रमाणम् ॥ २ ॥
न हि ब्रूमः समयमात्रं प्रमाणमिति । किं तर्हि ? धर्मज्ञा ये मन्वा-
दयस्तेषां समय प्रमाणं धर्माधर्मयोः ॥ २ ॥
कथं पुनरिद(१)मवगतं मन्वादयो धर्मज्ञा न बुद्धादय इति ? यद्यु-
च्यते-बुद्धादीनामतीन्द्रियेऽर्थे ज्ञानं न सम्भवतीति, तन्मन्वादिष्वपि स-
मानम् । अथ तेषा धर्मज्ञानातिशयादतीन्द्रियेऽपि ज्ञानं सम्भवतीति,
तत् बुद्धादिष्वपि समानम् । यथाऽऽहुः-
(२) 'सुगतो यदि धर्मज्ञः कपिलो नेति का प्रमा ।
तावुभौ यदि धर्मज्ञौ मतभेदः कथं तयोः ॥ इति ।
वक्तव्यो वा विशेष, तमाह-
वेदाश्च ॥ ३ ॥
चोऽवधारणे । वेदा एव मूलप्रमाणं धर्माधर्मयोः । (३)न च नि-
त्यनिर्दोषेषु वेदेषूपालम्भसम्भवः । (४) स्वतःप्रमाणस्य हि शब्द-
स्य न वक्तृदोषनिबन्धनमप्रामाण्यम् । तदिहास्मदादीनां धर्मज्ञसमयः
प्रमाणम्, धर्मज्ञानां तु वेदाः प्रमाणम् । मनुरप्याह-
(५)वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥
गौतमोऽपि-(६) 'वेदो धर्ममूलं, तद्विदां च स्मृतिशीले ।' इति ।
यद्यप्यप्रत्यक्षो वेदो मूलभूतोऽस्मदादिभिर्नोपलभ्यते । तथापि (७) म-
न्वादय उपलब्धवन्तः इत्यनुमीयते । वक्ष्यति-(८) 'तेषामुत्सन्नाः पाठाः
प्रयोगादनुमीयन्ते' इति ॥ ३ ॥
चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः ॥ ४ ॥


१. अवगम्यते इति ख० पु० ।
२. अष्टसहस्री० पृ० ५ श्लोकोऽयं कौमारिल इति अष्टसहस्त्रीटिप्पण्याम् ।
३. नित्येषु निर्दोषेषु, इति ख० पु० । अपौरुषेयेषु निर्दोषेषु इति घ. पु.
४. मीमांसकमते तावत् वैदिकानां वाक्यानां नित्यत्वाभ्युपगमात् तत्र कर्तृतया
पुरुषसम्बन्धाभावात् स्वत एव प्रामाण्यमङ्गीकृतम् । तदभिप्रेत्याह-स्वत प्रमाणस्येति ।
५. मनु० स्मृ० २. ६ ६. गौ० ध० १. १, २
७. 'मन्वादिभिरुपलभ्यते इत्यनुमीयते' इति ख० पु० । ८. आ० ध० १ १२. १०.

Page 15Permalink

४ आपस्तम्बधर्मसूत्रे [ (प्र.१.) कँ. १.
ब्राह्मणाद्याश्चत्वारो वर्णसंज्ञिकाः । ते च सामयाचारिकैर्धर्मैरधि-
क्रियन्ते । (१)चतुर्णामेवोपदेशेऽपि पुनश्चतुर्ग्रहणं (२)यथाकथञ्चित्
चतुर्ष्वन्तर्भूतानामपि ग्रहणार्थम् । ततश्च (३) 'ब्राह्मणः क्षत्रियो वैश्य'
इति बौधायनादिभिरुक्तानामनुलोमादीनामप्यत्र ग्रहणं मतम् । तथा
च गौतमः प्रतिलोमानामेव धर्मेऽनधिकारमाह-(४)'प्रतिलोमास्तु धर्म-
हीना" इति ॥ ४ ॥
तेषां पूर्वः पूर्वो जन्मतश्श्रेयान् ॥ ५ ॥
जन्मत इति वचनात् सद्वृत्तादपि शूद्राद्वैश्यवृद्धोऽपि श्रेयान् । एव
वैश्यात् क्षत्रियः, क्षत्रियात् ब्राह्मणः ॥ ५ ॥
अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं
फलवन्ति च कर्माणि ॥ ६ ॥
शूद्रवर्जितानां त्रयाणां वर्णानामदुष्टकर्मणामुपायनादयो धर्माः । उपाय-
नमुपनयनम् । नात्र त्रैवर्णिकानामुपनयनादि विधीयते, प्राप्तत्वात् । ना-
पि शूद्राणां प्रतिषिध्यते, प्राप्त्यभावात् । तथा हि-उपनयनं तावद्गृह्ये
(५)'गर्भाष्टमेषु ब्राह्मणमुपनयीते'त्यादिना त्रैवर्णिकानामेव विहितम् ।
इहापि तथैव विधास्यते । अध्ययनमपि (६)'उपेतस्याचार्यकुले ब्रह्म-
चारिवास' इत्यारभ्य विधानात् अनुपनीतस्य शूद्रस्याप्राप्तमेव । कि च
(७)'श्मशानवच्छूद्रपतिता'दिति (८)अध्ययननिषेधो वक्ष्यते । (९)यस्य
समीपे नाध्येयं स कथं स्वयमध्येतुमर्हति ।
अग्न्याधेयमपि (१०)'वसन्ते ब्राह्मण' इत्यादि त्रैवर्णिकानामेव विहितम्।
फलवन्ति चाग्निहोत्रादीनि कर्माणि (११)'स त्रयाणां वर्णाना'मित्युक्तत्वात् त्रैव-
र्णिकानामेव नियतानि । विद्यागम्यत्वाच्च शूद्राणामप्रसक्तानि। उक्तो वि-
द्यागम्याभावः । तस्माददुष्टकर्मप्रतिषेधार्थं सूत्रम् । यथा शास्त्रान्तरे-(१२)
'द्विजातिकर्मभ्यो हानिः पतन'मिति । अप्रतिषेधे तु दुष्टकर्मणामप्यधि-
१. 'वर्णानामुपदेशेऽपि पुनश्चतुर्ग्रहणं यथाकथञ्चिचतुर्ष्वन्तर्भूतानामपी'ति ख पु.
२. यथाक्रम इति क० पु ३. बौ० ध० १. ७. १. ४. गौ० ध० ४ २५.
५. आप० गृ० ८. २. ६. आप० ध० १. २. ११. ७. आप० ध० १ ९.९.
८. अध्ययनप्रतिषेधप्रकरणे वक्ष्यत इति ख० पु ।
९. यस्य यस्य, स सः इति द्विरुक्ति. क० पु० । १०. तै. ब्रा. १. १ २.
११. आप० परि० १. २ १२. गौ० ध० २१. ४.

Page 16Permalink

वर्णधर्मः] उज्ज्वलोपेते प्रथमः प्रश्नः । ५

कारो भवत्येव । 'फलवन्ति च कर्माणि'त्यभिधानात्, क्रियते इति कर्मेति
निर्वचनात् । (१)'प्रागुपनयनात् कामचारवादभक्ष' इति गौतमस्मरणं
ब्रह्महत्यादिमहापातकव्यतिरिक्तविषयमित्यनुपेतस्यापि दुष्टकर्मत्वसम्भ-
वात् अदुष्टकर्मणा(२)मित्युक्तम् । शूद्रप्रतिषेधस्तु प्राप्तानुवादः ॥ ६ ॥
यथा ब्राह्मणादीनामुपनयनादयो धर्माः प्रधानभूताः तादृशं शूद्रस्य
कर्माऽऽह-
शुश्रूषा शूद्रस्येतरेषां वर्णानाम् ॥ ७ ॥
इतरेषा ब्राह्मणादीनां वर्णाना या शुश्रूषा सा शूद्रस्य परमो धर्मः ॥ ७ ॥
(३)तत्र विशेषमाह-
पूर्वस्मिन्पूर्वस्मिन्वर्णै निःश्रेयसं भूयः ॥ ८ ॥
सर्वप्रकारं कृताया अपि वैश्यशुश्रूषाया मात्रयापि कृता क्षत्रियशु-
श्रूषा बहुतर फलं साधयति । एव क्षत्रियशुश्रूषाया ब्राह्मणशुश्रूषा ॥८॥
उपायनं वेदाध्ययनमित्यादि यदुक्तं अस्मिन्क्रमे उपनयने विशेषमाह-
उपनयनं विद्यार्थस्य श्रुतितस्संस्कारः ॥ ९ ॥
विद्या अर्थः प्रयोजनं यस्य स विद्यार्थः । तस्यायं श्रुतिविहितस्संस्कारः
उपनयन नाम । 'विद्यार्थस्ये'ति वचनात् मूकादेर्न भवति । तथा च शङ्खलि-
खितौ (४)'नोन्मत्तमूकान् संस्कुर्यात्' इति । (५)लिङ्गस्य विवक्षितत्वात्
स्त्रिया अपि न भवति यद्यपि तस्याः (६)'अग्ने गृहपते' इत्यादिकया
विद्यया अर्थः । 'श्रुतित' इति वचनं तदतिक्रमे श्रौतातिक्रमप्रायश्चित्त-
प्राप्त्यर्थम् ॥ ९ ॥
अनेकवेदाध्यायिनां वेदव्रतवदुपनयनमपि प्रतिवेदं भेदेन कर्तव्य-
मिति प्राप्ते उच्यते -
सर्वेभ्यो वै वेदेभ्यस्सावित्र्यनूच्यत इति हि ब्राह्मणम् ॥१०॥
(७)'त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।
तदित्यृचोऽस्यास्सावित्र्याः परमेष्ठी प्रजापतिः ॥' इति (८)मनुः ।
ततश्चोपनयने यत्सावित्र्या अनुवचन तन्मुखेन सर्वे वेदा अनुक्ता
१ गौ०ध ० २. १. २. उपनयनमुक्तं इति क० पु० ३. तत्र विशेष, इति क.पु.
४ इदानीमुपलभ्यमानमुद्रितशङ्खलिखितस्मृतिपुस्तकेषु श्लोकोऽयं नोपलभ्यते ।
५ विद्यार्थस्येत्यत्र पुंलिङ्गस्य विवक्षितत्वात् इत्यर्थः ।
६. तै स. १ ५ ६ ७ मनु स्मृ २ ७७. ८. मनुवचनम् इति. ख. पु

Page 17Permalink

६ आपस्तम्बधर्मसूत्रे [(प्र. १.) कं. १.
भवन्तीत्यगृह्यमाणविशेषत्वादेकमेवोपनयनं सर्वार्थमिति । अस्मिन्नर्थे
ब्राह्मणमपि भवति (१) ब्राह्मणमेव वा पठितम् । आथर्वणस्य वेदस्य
पृथगुपनयनं कर्तव्यम् । तथा च तत्रैव श्रुतम्—(२) 'नान्यत्र संस्कृतो
भृग्वङ्गिरसोऽधीयीते'ति ॥ १० ॥
विद्वानेवोपनेताऽभिगम्यत इति विधातुमविदुषो निन्दामाह—
• तमसो वा एष तमः प्रविशति यमविद्वानुपनीयते
यश्चाऽविद्वानिति हि ब्राह्मणम् ॥ ११ ॥
यथा कश्चित् तमसस्सकाशात्तम एव प्रविष्टो न किञ्चिज्जानाति एव-
मेवैषः यं माणवकंमविद्वानुपनीयते, तथा यथाविद्वान् । उपनीयते इत्यपेक्ष्यते ।
यश्च स्वयमविद्वान् सन्नुपनीयते सोऽपि तमम एव तम प्रविशति । अस्मि-
न्नर्थे ब्राह्मणमपि भवतीति ॥ ११ ॥
कीदृशस्तर्ह्युपनेताऽभिगम्यः ? तमाह—
• तस्मिन्नभिजनविद्यासमुदेतं समाहितं
संस्कर्तारमीप्सेत् ॥ १२ ॥
अविच्छिन्न(३)वेदवेदिसम्बन्धे कुले जन्म अभिजन । षड्भिरङ्गैस्सहैव
यथावदर्थज्ञानपर्यन्तमधीतो वेदो विद्या । सर्वासामसम्भवे वेद एव वा ।
तस्मिन्नुपनयने कर्तव्ये ताभ्यां अभिजनविद्याभ्यां समुदेतं सम्पन्नम्, समाहितं
विहितप्रतिषिद्धेष्ववहितमनसम्, मस्कर्तारमाचार्यमीप्सेत् । इच्छया करणं
लक्ष्यते । आप्नुयादभिगच्छेदिति ॥ १२ ॥
• तस्मिंश्चैव विद्याकर्माऽऽन्तंमविप्रतिपन्ने धर्मेभ्यः ॥ १३ ॥
तस्मिन्नेव चोपनेतारि विद्याकर्म विद्याग्रहणं कर्तव्यम् । आन्तमासमाप्तेः,
अविप्रतिपन्ने धर्मेम्य यद्यसावाचार्यो धर्मेभ्यो न प्रच्युतो भवति । प्रच्युते
तु तस्मिन्नसम्पर्कार्हे अन्यतोऽपि विद्याकर्म भवत्येव ।
*येषां त्वाचार्यकरणविधिप्रयुक्तमध्ययनं तेषामेतन्नोपपद्यते । क-
१. प्रमाणं भवति, ब्राह्मणमिति हि वाचा पठितम्, इत्यशुद्ध. पाठ० ख पु
२. गोप० ब्र० १ २९. ३ वेदवित्सम्बन्धे इति. क. पु
*. एतच्चिह्नान्तर्गतो भागः प्रक्षिप्त इति Mysore पुस्तके । परन्तु क ग पुस्त-
कयोरुपलभ्यते पाठ । एतच्च गुरुमतानुसारेण । गुरवो हि "अष्टवर्षं ब्राह्मणमुपनयीत, तमध्या-
पयीत' इति विधिनाऽऽचार्यत्वसिद्ध्यर्थमध्यापनं विदधताऽध्ययनमपि प्रयुज्यते, अतो
ऽध्यापनान्यथानुपपत्त्यैव सिध्यदध्ययनं न स्वविधिना "स्वाध्यायोऽध्येतव्य" इत्यनेन
विधीयते इति ब्रुवते । अतस्तन्मतखण्डनमिदम् ।

Page 18Permalink

उपनयनविधिः] उज्ज्वलोपेते प्रथमः प्रश्नः । ७
थम् ? उपनीयाध्यापनेनाचार्यकं भावयेदिति । सकृदुपनीतस्य माणवकस्य
न पुनरुपनयनसंस्कारः सम्भवति । तं कथमन्योऽध्यापयेत् ? एतेन
मध्य आचार्यमरणे माणवकस्य तदध्ययन नाचार्यान्तरात् सम्भव
तीति द्रष्टव्यम्* ॥ १३ ॥
(१)आचार्यशब्दं निराह—
यस्माद्धर्म्मानाचिनोति स आचार्यः ॥ १४ ॥
यस्मात्पुरुषादयं माणवकः धर्मानिचिनोति आत्मनः प्रचिनोति शिक्षते
स आचार्य । (२)'अप्यक्षरसाम्यान्निब्रूयादि'ति चकारमात्रेणेदं निर्वच
नम् । अनेन प्रकारेण माणवकमाचार्यः शौचाचारांश्च शिक्षयेदित्युक्तं
भवति ॥ १४ ॥
तस्मै न द्रुह्येत्कदाचन ॥ १५ ॥
तस्मै एवंभूताचार्याय कदाचन कदाचिदपि न द्रुह्येत् तद्विषयमपकार
न कुर्यात् ॥ १५ ॥
कस्मादित्यत आह—
स हि विद्यातस्तं जनयति ॥ १६ ॥
स ह्याचार्यः तं माणवक विद्यातो जनयति, यथा पिता मातृतः ।
(३)अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥
इति शास्त्रान्तरम् ॥ १६ ॥

  • तच्छ्रेष्ठं जन्म ॥ १७॥
    तद्विद्यातो जन्म श्रेष्ठं प्रशस्ततमम्, अभ्युदयनिःश्रेयसहेतुत्वात् ॥१७॥
    मातापितृभ्यामाचार्यः श्रेष्ठ इत्याह —
    शरीरमेव मातापितरौ जनयतः ॥ १८ ॥
    मातापितरौ शरीरमात्रमेव काष्ठकुड्यादिसमं जनयतः । आचार्यस्तु
    सर्वपुरुषार्थक्षमंरूपं जनयति । (४)“आचार्यः श्रेष्ठो गुरूणा"मिति
    गौतमः ॥ १८ ॥
    वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्यं,
    गर्भाष्टमेषु ब्राह्मणं, गर्भेकादशेषु राजन्यं,
    १ आचार्यशब्दनिर्वचनमाह इति क ग पु २ निरु. २ १. १.
    ३. मनु स्मृ २. १७० ४ गौ ध. २. ५०
Page 19Permalink

८ आपस्तम्बधर्मसूत्रे [(प. १) कं. १.
गर्भद्वादशेषु वैश्यम् ॥ १९ ॥
(१)वसन्ते ब्राह्मणमित्यादि गृह्ये गतम् ॥ १९ ॥

  • अथ काम्यानि ॥ २० ॥
    कामनिमित्तान्युपनयनानि वक्ष्यन्ते ॥ २० ॥
    (२)सप्तमे ब्रह्मवर्चसकामम् ॥ २१ ॥
    अष्टम आयुष्कामम् ॥ २२ ॥
    नवमे तेजस्कामम् ॥ २३ ॥
    दशमेऽन्नाद्यकामम् ॥ २४ ॥
    एकादश इन्द्रियकामम् ॥ २५ ॥
    द्वादशे पशुकामम् ॥ २६ ॥
    'ब्रह्मवर्चसकाम'मित्यादीनि षट् सूत्राणि स्पष्टार्थानि । सर्वत्रोपन-
    यीतेत्यपेक्षते ॥ २१-२६ ॥
    (३)'आचार्याधीनस्स्या'दित्यादीनि यानि ब्रह्मचारिणो व्रतानि व-
    क्ष्यन्ते तेष्वसमर्थानां कुमाराणां वर्णक्रमेणानुकल्पमाह-
    आषोडशाद्ब्राह्मणस्यानात्यय आद्वाविंशात्क्षत्रियस्याऽऽचतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः
    स्याद्यानि वक्ष्यामः ॥ २७ ॥
    आकारोऽभिविधौ । अत्ययोऽतिक्रमः । स एवाऽऽत्ययः तदभावोऽनात्यय ।
    यादृच्छिको दीर्घः, आङो वा श्लेषः । प्रकरणादुपनयनकालस्येति
    गम्यते । यथा व्रतेषु समर्थ स्यात् तथैतावान् कालः प्रतीक्ष्यः । पूर्वमेव
    तु सामर्थ्ये सत्यष्टमवर्षाद्यतिक्रमे वक्ष्यमाण प्रायश्चित्तमेव भवति । एव
    षोडशादिभ्य ऊर्ध्वं कियन्तञ्चित्कालमसमर्थानां पश्चात्सामर्थ्ये सति
    प्रायश्चित्त भवत्येव ॥ २७ ॥
    तदानीं प्रायश्चित्तमाह-
    अतिक्रान्ते सावित्र्याः ऋतुं त्रैविद्यकं
    ब्रह्मचर्यं चरेत् ॥ २८ ॥
    १ आप. गृ ११. २ २ इतः प्रभृति सूत्रषट्कमेकसूत्रतया लिखित क. पुस्तके ।
    ३ आप. ध १ २ १९.
Page 20Permalink

व्रात्यसंस्कारः] उज्ज्वलोपेते प्रथमः प्रश्नः । ९
यस्य यः सावित्र्याः काल उक्तः तदतिक्रमे त्रैविद्यकं त्र्यवयवा वि-
द्या तामधीयते ये ते त्रैविद्याः, तेषामिदं त्रैविद्यकम् । (१)'गोत्रचरणाद्वुञ्' ।
'चरणाद्धर्माम्नाययोरि'ति वुञ् । एवम्भूतं ब्रह्मचर्यं, अग्निपरिचर्यामध्य-
यनं गुरुशुश्रूषामिति परिहाप्य, सकल ब्रह्मचारिधर्मं चरेत् । कियन्तं
कालम् ? ऋतुं, 'कालाध्वनो'रिति द्वितीया । ऋतुमिति वचनादृत्वारम्भे
प्रायश्चित्तारम्भमिच्छन्ति ॥ २८ ॥
अथोपनयनम् ॥ २९ ॥
एवं चरितव्रत उपनेतव्यः ॥ २९ ॥
ततस्संवत्सरमुदकोपस्पर्शनम् ॥ ३० ॥
ततः उपनयनादारभ्य सम्वत्सरमुदकोपस्पर्शनं स्नानं कर्तव्यम् । शक्तस्य
त्रिषवण स्नानम्(२) अशक्तस्य यथाशक्ति ॥ ३० ॥
अथाऽध्याप्यः॥ ३१ ॥
एवं चरितव्रतः पश्चादध्याप्य ॥ ३१ ॥
अथ यस्य पिता पितामह इत्यनुपेतौ
स्यातां ते ब्रह्महसंस्तुताः ॥ ३२ ॥
यस्य माणवकस्य पिता पितामहश्चानुपेतौ स्यातां स्वयं च, ते तथाविधास्स
माणवका ब्रह्महसंस्तुताः अब्राह्मण इत्येवं कीर्तिताः ब्रह्मवादिभिः । अतस्मि-
न् तच्छब्दयोगस्तद्धर्मप्राप्त्यर्थः । एवं च (३)'श्मशानवच्छूद्रपतिता'त्वि-
त्यध्ययननिषेधप्रकरणे वक्ष्यते । ततश्च ब्रह्म यथा ब्रह्महसमीपे नाध्ये
यमेवमेषामपीति ॥ ३२ ॥
तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् ॥ ३३ ॥
तेषामेतेषामभ्यागमनमाभिमुख्येन गमनम्, मातापितृपुत्रदारशरीरर-
क्षणार्थमपि वर्जयेत् । यद्यपि भिक्षा सर्वतः प्रतिग्राह्येति वक्ष्यते भोजनमु
द्यतमपि वर्जयेत् (४)'अपि दुष्कृतकारिण' इति सत्यपि वचने । विवाहं
च वर्जयेत् यद्यपि (५)'स्त्रीरत्नं दुष्कुलादपी'ति मानवस्मरणम् ॥ ३३ ॥
तेषामिच्छतां प्रायश्चित्तम् ॥ ३४ ॥
१ पा० सू० ४३. १२६ २. अन्यस्य' क. ख. पु ३. आप० ध० १ ९. ९.
४. आप० ध० १ १९.१३. ५ मनु० स्मृ० २. २३८.
आप० ध० २