सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 12, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 12

॥ श्रीः ॥
शिवाभ्यां नमः ॥
आपस्तम्बमहर्षिप्रणीतं
धर्मसूत्रम् ॥
श्रीहरदत्तविरचितया उज्ज्वलाख्यया वृत्त्या सहितम् ॥
प्रथमः प्रश्नः ॥
(१)प्रणिपत्य महादेवं हरदत्तेन धीमता ।
धर्माख्यप्रश्नयोरेषा क्रियते वृत्तिरुज्ज्वला ॥ १ ॥
अथातस्सामयाचारिकान् धर्मान् व्याख्यास्यामः ॥ १ ॥
अथशब्द आनन्तर्ये । अतश्शब्दो हेतौ । उक्तानि श्रौतानि गा-
र्ह्याणि च कर्माणि । तानि च वक्ष्यमाणान्धर्मानपेक्षन्ते । कथम् ? आ-
चान्तेन कर्म कर्तव्यं, शुचिना कर्तव्य'मिति वचनादाचमनशौचादी-
नपेक्षन्ते ।
(२) 'सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु' ।
इति वचनात् सन्ध्यावन्दनम् । एव 'अशुचिकरानिर्वेषः,'(३) 'द्विजा-
तिकर्मभ्यो हानिः पतनम्' इति वचनात् ब्रह्महत्यादिप्रायश्चित्तानि च ।
एवमन्येष्वपि यथासम्भवमपेक्षा द्रष्टव्या । अतस्तदनन्तरं सामयाचारिका-
न् धर्मान् व्याख्यास्यामः । पौरुषेयी व्यवस्था समयः । स च त्रिविधः—वि-
धिर्नियमः प्रतिषेधश्चेति । तत्र प्रवृत्तिप्रयोजनो विधिः—(४) 'सन्ध्योश्च
१. मातामहमहाशैलं महस्तदर्पितामहम् ।
कारणं जगतां वन्दे कण्ठादुपरि वारणम् ॥ १ ॥
इत्यधिक पाठः क० पु० ।
२. दक्षस्मृ० अ० २ श्लो २९ ' यदन्यत् कुरुते कर्म न तस्य फलभाग्भवेत् '
इति तस्योत्तरार्धम् ।
३ गौ० ध० २१. ४. “अशुचिर्द्विजाती”ति. घ. पु ४. आप० ध० १. ३०. ८.