आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
by महर्षि आपस्तम्ब / हरदत्त टीका
Page 14 of 399
Read in contextधर्मप्रमाणानि] उज्ज्वलापेते प्रथमः प्रश्नः । ३
तिष्ठन् भुञ्जीत । न स्नाया'दिति । तत्राह-
धर्मज्ञसमयः प्रमाणम् ॥ २ ॥
न हि ब्रूमः समयमात्रं प्रमाणमिति । किं तर्हि ? धर्मज्ञा ये मन्वा-
दयस्तेषां समय प्रमाणं धर्माधर्मयोः ॥ २ ॥
कथं पुनरिद(१)मवगतं मन्वादयो धर्मज्ञा न बुद्धादय इति ? यद्यु-
च्यते-बुद्धादीनामतीन्द्रियेऽर्थे ज्ञानं न सम्भवतीति, तन्मन्वादिष्वपि स-
मानम् । अथ तेषा धर्मज्ञानातिशयादतीन्द्रियेऽपि ज्ञानं सम्भवतीति,
तत् बुद्धादिष्वपि समानम् । यथाऽऽहुः-
(२) 'सुगतो यदि धर्मज्ञः कपिलो नेति का प्रमा ।
तावुभौ यदि धर्मज्ञौ मतभेदः कथं तयोः ॥ इति ।
वक्तव्यो वा विशेष, तमाह-
वेदाश्च ॥ ३ ॥
चोऽवधारणे । वेदा एव मूलप्रमाणं धर्माधर्मयोः । (३)न च नि-
त्यनिर्दोषेषु वेदेषूपालम्भसम्भवः । (४) स्वतःप्रमाणस्य हि शब्द-
स्य न वक्तृदोषनिबन्धनमप्रामाण्यम् । तदिहास्मदादीनां धर्मज्ञसमयः
प्रमाणम्, धर्मज्ञानां तु वेदाः प्रमाणम् । मनुरप्याह-
(५)वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥
गौतमोऽपि-(६) 'वेदो धर्ममूलं, तद्विदां च स्मृतिशीले ।' इति ।
यद्यप्यप्रत्यक्षो वेदो मूलभूतोऽस्मदादिभिर्नोपलभ्यते । तथापि (७) म-
न्वादय उपलब्धवन्तः इत्यनुमीयते । वक्ष्यति-(८) 'तेषामुत्सन्नाः पाठाः
प्रयोगादनुमीयन्ते' इति ॥ ३ ॥
चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः ॥ ४ ॥
१. अवगम्यते इति ख० पु० ।
२. अष्टसहस्री० पृ० ५ श्लोकोऽयं कौमारिल इति अष्टसहस्त्रीटिप्पण्याम् ।
३. नित्येषु निर्दोषेषु, इति ख० पु० । अपौरुषेयेषु निर्दोषेषु इति घ. पु.
४. मीमांसकमते तावत् वैदिकानां वाक्यानां नित्यत्वाभ्युपगमात् तत्र कर्तृतया
पुरुषसम्बन्धाभावात् स्वत एव प्रामाण्यमङ्गीकृतम् । तदभिप्रेत्याह-स्वत प्रमाणस्येति ।
५. मनु० स्मृ० २. ६ ६. गौ० ध० १. १, २
७. 'मन्वादिभिरुपलभ्यते इत्यनुमीयते' इति ख० पु० । ८. आ० ध० १ १२. १०.