ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
by महर्षि ऐतरेय महिदास
Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)
तृतीयपादं व्याचष्टे—
अध्या० ३ ख० ६ (१८)] ऐतरेयारण्यकम् । १४३
तृतीयपादं व्याचष्टे—
इन्द्रात्परि तन्वं मम इति तद्यदेवैतद्बृहतीसहस्र-
मनुष्टुप्संपन्नं भवति तस्मात्तदैन्द्रात्प्राणाद्बृहत्यै
वाचमनुष्टुभं तन्वं सोनेर्निर्मिमीते , इति ।
यद्यस्मात्कारणात्तदेवैतद्बृहतीसहस्रं पूर्वोक्तरीत्या पञ्चविंशत्यधिकशतोपेतमनुष्टु-
प्सहस्रं संपद्यते । सहस्रशब्दमध्याहृत्यानुष्टुप्सहस्रं संपन्नमिति व्याख्येयम् । तस्मा-
द्वृहत्यामनुष्टुबन्तर्भावात्कारणादनुष्टुब्रूपां वाचं तस्मात्पूर्वमुपास्यत्वेनोक्तादैन्द्रात्परमे-
श्वरसंबन्धात्प्राणादेव बृहतीरूपान्निमित्तात्तन्वं तनुं शरीरमयं होता संनिर्मिमीते
सम्यङ्निष्पादयति । बृहत्यात्मकप्राणस्य तदन्तर्भूताऽनुष्टुबपि शरीरं भवतीत्यर्थः ।
तदेवमनुष्टुबन्तर्भावेन बृहती प्रशस्ता, तादृशबृहतीसहस्ररूपस्योक्थस्य प्रकारान्तरेण
पञ्चविधत्वध्यानं विधत्ते—
स वा एष वाचः परमो विकारो यदेतन्महदुक्थं तदे-
तत्पञ्चविधं मितममितं स्वरः सत्यानृते इति, इति ।
बृहतीसहस्रात्मकं यदेतत्प्रौढं शस्त्रं स एषोऽक्षरसमाष्टिरूपाया वाचः परमो
विकार उत्तमं कार्यम् । त्रिष्टुप्सहस्रादिभ्य उत्तमत्वं पूर्वमेव दर्शितम् । तादृशमे-
तदुक्थं मितादिभिर्वाग्विशेषैः पञ्चविधमिति ध्यायेत् । अक्षरसंख्याप्रयुक्तच्छन्दो-
विशेषयुक्तं मितम् । तद्रहितममितम् , गीतिनिष्पादकः स्वरः, अबाध्यं तत्त्वं
सत्यम् , बाध्यं मिथ्याभूतमनृतम्, इत्येते वाग्विशेषा ध्येयाः ।
तान्विशेषान्विस्पष्टमुदाहृत्य प्रदर्शयति—
ऋग्गाथा कुम्ब्या तन्मितं यजुर्निगदो वृथा वाक्तदमितं सामाथो
यः कश्च गेष्णः स स्वर ओमिति सत्यं नेत्यनृतम् , इति ।
अर्धपादव्यवस्थोपेतो मन्त्र ऋगित्युच्यते “अग्निमीळे पुरो हितम्” [ ऋ० सं०
म० १ सू० १ ऋ० १ ] इत्यादिका । तस्यामृग्जातौ सर्वलोकप्रसिद्धार्थप्रतिपादिका
“प्रातः प्रातरनृतं ते वदन्ति” इत्यादिका गाथा, ऋगेव । आचारशिक्षारूपा कुम्ब्या ।
तद्यथा—“ब्रह्मचार्यस्यपोऽशान कर्म कुरु मा सुपुप्थाः” इत्याँदिः । अत्र यदेतदृक्सामान्यं
इन्द्रात्परि तन्वं०—ऋ० सं० म० ८ सू० ७६ ऋ० १२ ।
१ ग. तत्तस्मा॑। २ क. ᵒत्प्राणदेवाद्बृह॑ । ३ घ. ङ. सहस्रं । ४ घ. ङ. एवैषोऽ । ५ क. ᵒरसगृहस्रं । ६ क. ख. ग. ᵒदुक्थमित्यादि॑ । ७ क. ᵒविधं मितमिति॑ । ८ ग. ᵒशेषैर्युक्तं । ९ क. ङ. ᵒर्धर्मेपां। १० क. ग. ᵒरु दिवा मा स्वाप्सीर्मा मु॑ । ११ घ. ङ. ᵒत्यादि । अ॑ । क. ᵒत्यादि च । अ॑ ।
१४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
यौ च गाथाकुम्भ्यारूपावृग्विशेषौ तदेतत्त्रयं छन्दोरूपेण नियतपरिमाणत्वान्मितमित्युच्यते । “इषे त्वा” [ तै० सं० १ । १ । १ ] इत्यादिमन्त्रजातं यजुस्तद्विशेषरूपः “अग्ने महाँ असि ब्राह्मणभारत” इत्यादिको निगदो ब्राह्मणगता येऽर्थवादा या च राजसभादौ परिहासादिरूपेणोच्यते सा सर्वा वृथा वाक्तदेतत्त्रयं नियतपरिमाणाभावादमितमित्युच्यते । प्रथमद्वितीयादिस्वरैर्निष्पाद्यं रथंतरवामदेवादि रूपं यत्सामास्ति, अथो अपि च यः कोऽपि गेष्णः सामभागः सामगैः पर्वशब्देन व्यवह्रियमाणस्तत्सर्वमत्र स्वरशब्देन विवक्षितम् । “सत्यं ज्ञानमनन्तं ब्रह्म” [ तै० आ० प्र० ८ अ० २ ] इत्यादिश्रुतिसिद्धस्यात्यन्तमबाध्यस्य वस्तुनः प्रतिपादको योऽयमोमितिशब्दस्तदेतदत्र वाचः संबन्धि सत्यमिति विवक्षितम् । सर्वप्रपञ्चस्य निषेधको योऽयं नेति शब्दस्तदेतदभावपर्यवसायित्वादैतन्नानृतशब्देन विवक्षितम् ।
इत्थं ध्यातव्यमित्या(व्या मिता)द्याः पञ्च विधा निरूपिताः । तत्र सत्यध्यानं प्रशंसति—
तदेतत्पुष्पं फलं वाचो यत्सत्यं स हेश्वरो यशस्वी कल्याणकीर्तिर्भावितोः पुष्पं हि फलं वाचः सत्यं वदति, इति ।
ओमित्येवंरूपं यत्सत्यं तदेतद्वाग्रूपस्य वृक्षस्य फलस्थानीयम् । काण्डद्वयप्रतिपाद्यं कर्म ज्ञानं च शब्दसंबन्धित्वाद्वृक्षस्य पुष्परूपम् । तदुभयसाध्यं देवताजन्म मुक्तिश्चेत्युभयं तस्य वृक्षस्य फलरूपम् । तयोः पुष्पफलयोर्हेतुत्वादोंकारस्तद्रूपत्वेनोपचर्यते । एवं ध्याता पुमान्यस्माद्वाचः संबन्धि पुष्पं फलं च वदति तस्मादयं लौकिकधनसंपत्त्यादिशोयुक्तो वैदिकपुण्यानुष्ठानकीर्तियुक्तश्च भवितुं समर्थः ।
प्रसङ्गाद्बुद्धिस्थमनृतवदननिषेधं पुरुषार्थतया दर्शयति—
अथैतन्मूलं वाचो यदनृतं तद्यथा वृक्ष आविर्मूलः शुष्यति स उद्दतेत एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति स शुष्यति स उद्दतेत तस्मादनृतं न वदेद्ययेत त्वेनेन, इति ।
प्रकृतादुपासनोत्प्रशंसारूपादङ्गादर्थान्तरकथनार्थोऽथशब्दः । न प्रकृतमुपासनाङ्गमुच्यते किंतुन्वयः कश्चित्प्रासङ्गिकोऽनृतनिषेध इत्यर्थः । यदनृतं मिथ्याभाषणमस्ति तदेतद्वाग्वृक्षस्य मूलस्थानीयम् । सत्यस्य पुष्पफलस्थानीयत्वे सति तद्विपरीतस्यानृतस्य मूलत्वं युक्तम् । तत्तथा मूलत्वे सति लोके यथा कश्चिद्वृक्षो भूमेरुत्खातः सन्नाविर्भूतमूलो भूत्वा प्रथमं शुष्यति पश्चादुद्वर्तते विनश्यति च, एवमेवानृतं वदन्पुरुषो
१ ख. ग. घ. ङ. ॰दनृतं । २ क. ख. ॰नात्तत्रं । ३ घ. ॰क्यार्थी । ४ क. ॰तवदननिं । ५ क. ॰नृतमिथ्याभा° । ख. ग. ॰नृतमित्यर्थभा° । ६ ख. ग. ॰मूलभूतः प्र° । ७ क. ॰श्यतीत्येव° ।
अध्या०३ख०६(१८)] ऐतरेयारण्यकम् । १४५
वाग्वृक्षरूपमात्मानमाविर्मूलं करोति । मूलभूतस्यानृतवदनस्य परेषामग्रे प्रकटीकृतत्वात् । तेन पापेन स पुरुषः शुष्यति । सर्वैस्तिरस्कार्यत्वमेवास्य शोषः । अयमनृतवादी न तु प्रामाणिक इत्येवं सर्वे तिरस्कुर्वन्ति । स तादृशः पुरुष उद्वर्तते विनश्यति, नरकं प्राप्नोतीत्यर्थः । तस्मात्कारणाज्जनतिरस्कारान्न्ररकाच्च भीतः पुमाननृतं न ब्रूयात्किं^१त्वेनेनानृतेन निमित्तेन दयेत स्वात्मानं रक्षेत् ।
प्रासङ्गिकं पुरुषार्थ^२मनृतनिषेधं परिसमाप्य लौकिकव्यवहारोपन्यासमुखेन प्रकृतयोरोंकारनकारयोः सह ध्यानं प्रशंसितुं केवलमोंकारं लोकव्यवहारे निन्दति—
पराग्वो एतद्रिक्तमक्षरं यदेतदो३मिति तयत्किंचो-
मित्याहात्रैवास्मै तद्रिच्यते स यत्सर्वमों कुर्या-
द्रिञ्च्यादात्मानं स कामेभ्यो नालं स्यात् , इति ।
ओमिति यदेतदक्षरमस्ति तत्पराग्रिक्तं च । परमुत्कृष्टं जगत्कारणमखण्डैकरसं ब्रह्मतत्त्वमञ्चति गच्छति प्रतिपादयतीति पराक् । अत एव संसाराद्वहिर्भूतं सद्रिक्तं संसारभोगशून्यम् । तत्तथा सति संसारी पुमान्स्वयमुदरं पुष्णन्यत्किंचित्स्वकीयं याचकाय पुरुषायोमिति ब्रूयात्स्वकीयकुटुम्बनिर्वाहमविचार्य याचकं प्रति त्वद^३भीष्टं तथैवास्तु त्वमेव स्वी कुर्वित्येव यदि ब्रूयात्तत्तदानीमयं पुमानत्रैव लोकेऽस्मै गृहक्षेत्रादिभोगाय रिच्यते रिक्तो भोगशून्यो भवति । एकैकद्रव्यदाने यथा तद्भोगशून्यत्वं तथा स पुमान्यदि सर्वमपि स्वकीयं धनमों कुर्याद्याचकायाभ्यनुजानीयात्तदानीमात्मानं रिञ्च्याद्रिक्तं सर्वधनशून्यं कुर्यात् । स तादृशो धनहीनः पुमान्भोगेभ्यो न पर्याप्तः स्यात् ।
केवलमोंकारं निन्दित्वा केवलं नकारमपि निन्दति—
अथैतत्पूर्णमभ्यात्मं यन्नेति स यत्सर्वं नेति ब्रूयात्पा-
पिकाऽस्य कीर्तिर्जायेत सैनं तत्रैव हन्यात् , इति ।
अथ केवलोंकारनिन्दानन्तरं केवलनकारो निन्द्यत इति शेषः । यदेतन्नेति निषेधकमक्षरमस्ति तदेतदभ्यात्मं पूर्णमात्मानं धनस्वामिनमभिलक्ष्य वर्तत इत्यभ्यात्मं तस्मिन्वर्तमानं सदिदमक्षरं धनसं^४पत्तिहेतुत्वात्पूर्णमित्युच्यते । यः पुमानत्यन्तलुब्धः सन्नर्थिने^५ बलिभिक्षादिकं किमपि न प्रयच्छति किं तु नेत्युच्चारयन्सर्वमपि याच्यमानं निषेधति तथाविधस्य लुब्धस्य^६ धनमक्षीणं सत्स्वगृहे पूर्णमवतिष्ठते । स तादृशो लुब्धो^७ यदि याचकाय किमप्यदत्त्वा सर्वं नेति ब्रूयात्तदानीमस्य पापिका कीर्तिर्जायते ।
१ क. ॰ङ्किकपुं॰ । २ क. ॰थार्थान्नु॰ । ३ ख. ग. ॰दमभीप्सितं त॰ । ४ क. ख. ग. ॰संपूर्ण्हे॰ ।
५ क. ख. ॰नं नेति नि॰ । ६ घ. ङ. ॰शो य॰ । ७ ग. ॰ब्धो या॰ ।
१४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
अत्यन्तलुब्धोऽयं दुरात्मा धिगेनमित्येवं सर्वे निन्दन्ति । सा निन्दा पापरूपा कीर्ति-
रेनं पापात्मानं तत्रैव गृहे हन्यान्मारयेज्जीवन्नप्यसौ मृत एव । तथा च भगवतो-
क्तम्— “संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ” [ भ० गी० अ० २
श्लो० ३४ ] इति ।
ननु धनस्य दानादानयोरुभयोरपि निन्दितत्वे का गतिः पुरुषस्येत्याशङ्क्याऽऽह—
तस्मात्काल एव दद्यात्काले न दद्यात्तत्सत्यानृते मिथुनी
करोति तयोर्मिथुनात्प्रजायते भूयान्भवति, इति ।
यस्मादेकैकं निषिद्धं तस्मात्तत्परित्यज्योभयं मिलित्वैवमनुष्ठेयम् । कथमित्याशङ्क्य
स प्रकार उच्यते । “संप्राप्तो वैश्वदेवान्ते सोऽतिथिः” इत्यादिशास्त्रसिद्धो यो दान-
कालस्तस्मिन्नेव दद्यान्न त्वन्यस्मिन्काले । तत्तथा सत्योङ्काररूपं सत्यं निषेधकनका-
ररूपमनृतं च मिथुनी करोति मिलित्वा युग्मं करोति । तयोर्दानप्रतिषेधयोः सत्या-
नृतयोर्मिथुनात्प्रजायत इह लोके निन्दारहितः प्रकृष्टो भवति । परलोके च भूयानु-
त्कृष्टजन्मानुभवति । यथा लोक ओंकारनकारौ मिलितौ प्रशस्तौ तथाऽत्रापि मिलितौ
ध्येयावित्यर्थः ।
मितादिपञ्चविधस्य ध्यानमुक्त्वा केवलस्याकारस्य ध्यानं विधत्ते—
यो वै तां वाचं वेद यस्या एष विकारः स
संप्रतिविद्विकारो वै सर्वा वाक्सैषा स्पर्शो-
ष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति, इति ।
पूर्वत्र “स वा एष वाचः परमो विकारो यदेतन्महदुक्थम्” इत्यभिहितं शस्त्रं
यस्या वाचो विकारस्तां वाचं यः पुमान्वक्ष्यमाणप्रकारेणोपास्ते स पुमान्संप्रति-
वित्सम्यगभिज्ञः । कोऽयं प्रकारः सोऽभिधीयते—अकार एव सर्ववागात्मकः सेय-
मकाररूपा वाङ्मातृकामन्त्रैः ककारादिभिर्मकारान्तैः स्पर्शैः शषसहैरुष्मभिश्च व्यज्य-
माना सती नानाविधा बहुरूपा च भवति । पूर्वमेकस्य सत इदानीमनेकत्वं बहु-
त्वम् । तेषां च बहुभेदानां परस्परवैलक्षण्यं नानारूपत्वम् । एक एवाऽऽकाशो
यथा सूचिच्छिद्रं गृहच्छिद्रमित्येवमुपाधिभेदाद्बहुत्वं प्राप्य न्यूनाधिकभावेन परस्पर-
वैलक्षण्यमपि प्राप्नोति, एवमेक एवाकारः कखगघेत्यादिभिरुपाधिभिरनेकत्वं प्राप्य
परस्परमप्यघोषाक्षरयुक्तश्चेति वैलक्षण्यं प्रतिपद्यते । तदेवमकारस्य ककारादिषु सर्वे-
ष्वनुगतत्वाद्भेदेप्रतीतेरौपाधिकत्वाच्च सर्ववागात्मकत्वं सिद्धम् ।
१ क. ख. तस्य । २ क. ख. निन्यत्वे । ३ घ. ङ. ॰देनं नि॰ । ४ ख. ग. घ. ङ. ॰स्मात्परि॰ ।
५ क. ख. ग. ॰तं तत्र श॰ । ६ घ. ङ. ॰मघो॰ । ७ ग. घ. ङ. ॰त्वात्सर्व॰ ।
अध्या० ३ ख० ७ (१९)] ऐतरेयारण्यकम् । १४७
अकारस्य ध्यानमुक्त्वा तदीयध्वनिभेदयोर्ध्यानं विधत्ते—
तस्यै यदुप्रांशु स प्राणोऽथ यदुच्चैस्तच्छरीरं तस्मात्तत्तिर
इव तिर इव ह्यशरीरमशरीरो हि प्राणोऽथ यदु-
च्चैस्तच्छरीरं तस्मात्तदाविराविर्हि शरीरम् , इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
षष्ठः खण्डः ॥ ६ ॥ ( १८ )
तस्यै पूर्वोक्ताया अकाररूपायास्तस्या वाचो यदुपांशु यन्मन्दध्वनियुक्तमुच्चारणं स प्राण इति ध्यायेत् । अथानन्तरं यदुच्चध्वनियुक्तमुच्चारणं तच्छरीरमिति ध्यायेत् । यस्मान्मन्दोच्चारणस्य प्राणरूपत्वं तस्मात्तन्मन्दोच्चारणं तिरोभूतमिव भवति । व्यवहितैः पुरुषैरश्रूयमाणत्वात् । लोके यदशरीरं तत्तन्नेत्रेणादृश्यत्वात्तिरोहितमिव भवति । प्राणोऽप्यशरीरत्वात्तिरोभूत इति तद्रूपस्य मन्दध्वनेः परैरश्रवणं युक्तम् । पूर्वोक्तवैलक्षण्यार्थोऽथशब्दः । मन्दध्वनेर्विलक्षणो योऽयमुच्चध्वनिस्तच्छरीररूपं तस्माच्छरीररूपत्वात्तदुच्चध्वनियुक्तमुच्चारणमाविः प्रकटं भूत्वा परैः श्रूयते । यस्माच्छरीरं परैर्दृश्यमानत्वादाविर्भूतं तस्माच्छरीररूपस्योच्चध्वनेराविर्भावो युक्तः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये द्वितीयारण्यके तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥ ( १८ )
अथ सप्तमः खण्डः । ( एकोनविंशः )
“उक्थमुक्थम्” [ ऐ० आ० २ अ० १ ख० २ ] इत्यारभ्य “आविर्हि शरीरम्” इत्यन्तेन ग्रन्थेन बृहतीसहस्ररूप उक्थे प्राणदेवताया नानाविधगुणविशिष्टत्वेनोपासनमभिधाय पूर्वमेव “संभूय देवता अप्येति” [ ऐ० आ० २ अ० २ ख० ४ ] इति समष्टिरूपहिरण्यगर्भप्राप्तिलक्षणं फलमुक्तं तदेवात्र कृत्स्नोपास्तावालस्याभावेन श्रद्धामुत्पादयितुं पुनर्दर्शयति —
तद्वा इदं बृहतीसहस्रं संपन्नं तद्यशः स इन्द्रः स
भूतानामधिपतिः स य एवमेतमिन्द्रं भूतानामधिपतिं
वेद विस्रसा हैवास्माल्लोकात्प्रैतीति ह स्माऽऽह महि-
दास ऐतरेयः प्रेत्येन्द्रो भूत्वैषु लोकेषु राजति, इति ।
१ क. ॰स्मान्म॰ । २ क. ख. ॰रूपं हि॰ ।
१४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
प्राणस्वरूपं निष्केवल्यसंज्ञं यदुक्तं तदेवेदमक्षरगणनया बृहतीसहस्रं संपन्नम्। तच्च प्राणरूपं सगुणं ब्रह्म यशोनामकम्। अत एव श्रुत्यन्तरे श्रूयते—"न तस्येशे कश्चन तस्य नाम महद्यशः" [तै० आ० प्र० १० अ० १] इति। स च बृहतीसहस्ररूपः प्राणदेव इन्द्रः परमैश्वर्ययुक्तः। अत एव भूतानां ब्रह्मादिस्तम्बान्तानां प्राणिनामधिपतिस्तादृशं यः पुमानुपास्ते स पुमान्विस्रसा हैव जीवन्नेव विस्रस्य मनुष्यत्वाद्यभिमानं सर्वात्मना परित्यज्य प्राणदेवो हिरण्यगर्भोऽस्मीत्याभिमानिकं साक्षात्कारं प्राप his/her प्राप्यास्माल्लोकाद्दृश्यमानात्स्रैति निर्गच्छतीत्येवमितरायाः पुत्रो महिदासनामको मुनिः स्वशिष्यान्प्रत्याह स्म। प्रेत्य मरणादूर्ध्वं स्वयमिन्द्रो जगदीश्वरो हिरण्यगर्भो भूत्वैषु लोकेषु ब्रह्माण्डान्तर्गतेषु चतुर्दशभुवनेषु व्याप्य राजति दीप्यते। मरणात्प्रागेव भावनाजनितो देवभावः श्रुत्यन्तरेऽपि श्रूयते—"देवो भूत्वा देवानप्येति" [बृह० ४ । १ । २] इति। यद्यप्युक्थशस्त्रस्य प्रतीकस्येदमुपासनमित्यहंग्रहंस्याभावाद्भावनाजनितसाक्षात्काररूपो देवताभावो युक्त्या न संभवति तथाऽपि वाचनिकस्याहंग्रहस्य विद्यमानत्वात्संभवत्येव देवभावः। प्रतीकोपासकानांमचिरादिमार्गे गच्छतां विद्युल्लोकादूर्ध्वं ब्रह्मलोकप्राप्तिर्नास्तीति ब्रह्ममीमांसायां चतुर्थाध्यायस्य तृतीयपादान्ते यन्निर्णीतं तदप्यत्र न प्रसरति। अहंग्रहसद्भावेन हिरण्यगर्भोऽहमस्मीत्येवं संकल्पस्य विद्यमानत्वात्। सूत्रकारोऽपि "तत्क्रतुश्च" [ब्र० सू० अ० ४ पा० ३ सू० १५] इति सूत्रावयवेन ध्यातव्यदेवतात्मभावसंकल्पमेव ब्रह्मलोकप्राप्तौ हेतुमवोचत्। स च संकल्पोऽत्र "अहमुक्थमस्मीति विद्यात्" [ऐ० आ० २ अ० १ ख० २] इत्येवं विहितः। तस्माद्धिरण्मयगर्भप्राप्तिद्वारा क्रममुक्तौ न कोऽपि विघ्नोऽस्ति।
अर्वाचीनजन्मसु वैराग्यमन्तरेण यथोक्तोपासनायां प्रवृत्त्यसंभवात्तद्वैराग्यसिद्धयर्थं जुगुप्सितस्य मनुष्यदेहस्य स्वीकारप्रकारं दर्शयितुं जिज्ञासूनां प्रश्नं दर्शयति—
तदाहुर्यदनेन रूपेणामुं लोकमभिसंभवती३ँ
अथ केन रूपेणेमं लोकमाभवती३ँ, इति।
तत्तत्र शरीरग्रहणविषय आहुर्जिज्ञासवः पृच्छन्ति। यद्यस्मात्कारणादनेन रूपेण बृहतीसहस्रात्मकप्राणदेवोऽस्मीत्येतादृशेन ध्यानेनामुं लोकं हिरण्यगर्भं प्राप्नोतीत्येतावदवगतं तन्निश्चयद्योतनार्था श्रुतिः। अथैतन्निश्चयानन्तरं जिज्ञासितोऽर्थः
^१ क. ख. ग. ॰ते च। न। ^२ घ. ङ. सर्वथा। ^३ ख. ग. ॰स्मीत्यायाभि॰। ^४ घ. ङ. ॰ह्माण्डगते॰। ^५ घ ङ. ॰हसद्भावाभा॰। ^६ घ. ॰सनायाम॰। ^७ ख. ग. घ. ङ. ॰ति मी॰। ^८ क. ख. ॰देवात्म॰। ^९ ग. ॰त्येवमवि॰। ^१० क. ख. ग. ॰तच्छरी॰। ^११ क. ख. ग. ॰गर्भरूपं प्रा॰। ^१२ क. ख. ॰प्नोत्ये॰। ^१३ ग. ॰दसंग॰। ^१४ ख. ग. ॰गतमेव त॰।
अध्या० ३ ख ० ७ (१९)] ऐतरेयारण्यकम् । १४९
पृच्छत इति शेषः । स एव प्रश्नोऽभिधीयते । केन रूपेण देवभावव्यतिरिक्तेन कीदृशेनाऽऽकारेण समीचीनेन जुगुप्सितेन वेमं मनुष्यलोकमभिसंभवति प्राप्नोति । विचारार्था श्रुतिः ।
अभिज्ञानामुत्तरं दर्शयति—
तद्यदेतत्स्त्रियां लोहितं भवत्यग्नेस्तद्रूपं तस्मात्त-
स्मान्न बीभत्सेताथ यदेतत्पुरुषे रेतो भवत्यादि-
त्यस्य तद्रूपं तस्मात्तस्मान्न बीभत्सेत सोऽयमा-
त्मेममात्मानममुष्मा आत्मने संप्रयच्छत्यसावा-
त्माऽमुमात्मानमिमस्मा आत्मने संप्रयच्छति
तावन्योन्यमभिसंभवतोऽनेनाह रूपेणामुं लोक-
मभिसंभवत्यमुनो रूपेणेमं लोकमाभवति, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
सप्तमः खण्डः ॥ ७ ॥ ( १९ )
तत्तत्र प्रश्ने स्पष्टमुत्तरमुच्यत इति शेषः । स्त्रीशरीरे यदेतल्लोहितं सप्त[म]धातुरूपं शोणितमस्ति तदेतदग्निरूपं लोहितवर्णसाम्यात् । यस्मादग्निरूपं लोहितं तस्मात्कारणादग्निरूपात्तस्मात्स्त्रीलोहितान्न बीभत्सेत । अशुचित्वबुद्ध्या बीभत्सां न कुर्यात् । यद्यपि रागवशादेव प्राणिनां बीभत्सा नास्ति तथाऽपि कस्यचिच्छ्रौतस्मार्तकर्मानुष्ठानशीलस्य श्रद्धाजाड्यात्कथंचिद्बीभत्सा स्यादिति तन्निषिध्यते । ऋतौ भार्यामुपेयादिति नियमविधेः स्मर्यमाणत्वाच्छास्त्रीयत्वेन श्रद्धालुनाऽपि बीभत्सा न कर्तव्या । अथशब्दो वैलक्षण्यार्थः । स्त्रीलोहिताद्विलक्षणं यदेतत्पुरुषशरीरे रेतः सप्त[म]धातुरूपमस्ति तदेतच्छुक्लवर्णत्वसाम्यादादित्यस्य रूपम् । तस्मात्कारणात्तादृशादित्यरूपाद्रेतसो न बीभत्सेत । अत्र स्त्रीदेहः पृथिवीवदधोवर्तित्वादिदंशब्देनोच्यते । पुरुषदेहो द्युलोकवदुपरिवर्तित्वाददःशब्देनोच्यते । पाट्कौशिके पुत्रशरीरे मातृलोहितात्त्वगसृङ्मांसरूपं कोशत्रयं निष्पद्यते । लोहितवर्णस्य तत्रानुगमात् । पितूरेतसो मेदोऽस्थिमज्जारूपं कोशत्रयं निष्पद्यते । शुक्लवर्णस्य तस्मिन्ननुगमात् । तथा सति सोऽयमात्मा स्त्रीदेह इमं स्वकीयमात्मानं त्वगादिधातुत्रयभागममुष्मा आत्मने पुरुषसंबन्धिने मेदोऽस्थिमज्जाभागाय संप्रयच्छति तेन संयुज्यत इत्यर्थः । असावात्मोपरितनः पुरुषदेहोऽप्य-
१ क. ख. ॰मिममस्मा । २ ग. घ. ड. प्रश्नस्य पृष्टं । ३ ग. ॰द्यप्यनुरा' । ४ घ. ङ. 'चित्तद्धी' । ५ घ. ॰क्षणद्योतनार्थः । ६ घ. 'त्यस्वरू' । ७ क. ख. ॰देहं पृ' । ८ घ. ङ. तत्रानुगतत्वात् । ९ घ. ङ. इममात्मानं त्व' । १० क. ख. ॰कयिं त्व' । ११ क. 'मज्झा' ।
१८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[२द्वितीयारण्यके-
मुमात्मानं स्वकीयं मेदोऽस्थिमज्जाभागमिममस्मा आत्मनेऽधोवर्तिस्त्रीसंबन्धित्वगसृङ्मांसभागाय संप्रयच्छति तेन संयुज्यत इत्यर्थः। इत्थं तावुभौ भागावन्योन्यमत्यन्तमैक्यं प्राप्नुतः। अहशब्द एवकारार्थः। अनेनाह रूपेण स्त्रीलोहितजनितत्वगादिरूपेणैवामुं लोकमभिसंभवत्युपरितनं पुरुषभागं प्राप्नोति । *उकारोऽपिशब्दार्थः। अमुनो रूपेण पुरुषसंबन्धिमेदोऽस्थिमज्जारूपेणापीमं लोकमा भवति । स्त्रीजनितत्वगादिभागं प्रत्यागच्छति। इत्थं मनुष्यदेहस्य शुक्रशोणितजनितत्वेनात्यन्तजुगुप्सितत्वात्तत्प्राप्तिनिवारणार्थं ततो विरक्तो हिरण्यगर्भप्राप्तये यथोक्तोपासनायां प्रवर्तेत इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके तृतीयाध्याये सप्तमः खण्डः ॥ ७ ॥ (१९)
अथाष्टमः खण्डः । (विंशः)
अथोपास्तिफलप्रशंसार्थं मन्त्रमुदाहरति—
तन्नैते श्लोकाः३, इति ।
तत्र तस्मिन्हिरण्यगर्भप्राप्तिलक्षणे फल एते वक्ष्यमाणाः श्लोकाः पादव्यवस्थोपेता मन्त्राः सन्ति ।
तत्र प्रथमं मन्त्रमाह—
यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत्संवहन्ति ।
सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति, [इति] ।
न क्षरति न विनश्यतीत्यक्षरं प्राणदेवतातत्त्वं सोऽयं प्राणदेवः पञ्चभूतकार्यत्वेन पञ्चविधं यच्छरीरं समेति सम्यक्प्राप्नोति। उपासकस्य शरीरमध्ये वर्तत इत्यर्थः। युज्यन्ते शरीरारूपरथे बध्यन्त इति युज इन्द्रियाश्वाः “इन्द्रियाणि हयानाहुः” [काठ० ३। ४] इति च श्रुत्यन्तरम् । ते चेन्द्रियाश्वा युक्ताः परमेश्वरेण शरीररथे संयोजिताः सन्तो यच्छरीरमभिसंवहन्ति। अभितः सर्वासु दिक्षु सम्यङ्नयन्ति। किंच यत्र शरीरे सत्यस्य सत्यं परब्रह्मस्वरूपमनुयुज्यते प्राणदेवतामनु शरीरेऽवस्थाप्यते। द्वितीयसत्यशब्दस्य परब्रह्मपरत्वं बृहदारण्यके ब्रह्मप्रकरणे पठ्यते—
* अमुना, उ, इति च्छेदः ।
१ क. ख. ॰मज्जभा॰ । २ क. घ. ङ. ॰मिममस्मा । ३ घ. ङ. ददाति । ४ क. ख. ॰र्थः । तां । ५ घ. ङ, ॰रिवर्तिपु॰ । ६ क. ख. ॰मज्जरू॰ । ७ क. ॰काः पदार्थव्य॰ । ख. ग. ॰काः पदव्य॰ । ८ क. ख. बध्यन्तीति । ९ घ. ङ. ॰न्तरे । ते । १० क. ङ. ॰न्ति । य॰ ।
अध्या० १ख० ८(२०)] ऐतरेयारण्यकम् । १६१
“ अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ” [ बृह० २ ।
३ । ६ ] इति । परब्रह्मणः प्राणदेवतामनु शरीरेऽवस्थानमाथर्वणिकैः पठ्यते—
“स ईक्षांचक्रे कस्मिन्नहमूत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति-
ष्ठास्यामीति स प्राणमसृजत” [ प्रश्नो० ६ । ३ ] इति । अतः प्राणदेवतामनु *रूपं
ब्रह्म यत्र शरीरे युज्यते तत्रोपासकशरीरे सर्वे वागाद्यभिमानिनोऽग्न्यादिदेवा एकं
भवन्ति, एकत्वं प्रतिपद्यन्ते । उपासको हि स्वशरीरे वर्तमानसर्वदेवतात्मकप्राणरूपोऽ-
हमस्मीत्येवं ध्यायति ।
द्वितीयं मन्त्रमाह —
यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यत्संवहन्ति ।
सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति, इति ।
पञ्चम्यन्तेनाक्षरशब्देन कदाचिदपि विनाशरहितो द्वितीयसत्यशब्दवाच्यः परमा-
त्मोच्यते । प्रथमान्तेनाक्षरशब्देन व्यवहारकाले बाधरहितः प्रथमसत्यशब्दवाच्यः
प्राणोऽभिधीयते । सोऽयं परमात्मन उत्पन्नः प्राण इन्द्रियैर्युक्तमुपासकसंबन्धि यच्छ-
रीरमेति प्राप्नोति । युजो युक्ता इत्यादि पूर्ववत् । उपासकशरीरे सर्वदेवतासमष्टि-
रूपः परमात्मोपाधिरूप उपास्यः प्राणो वर्तत इत्येतस्यार्थस्य दाढर्याय पूर्वोक्तस्यैव
पुनरप्युक्तिः ।
तृतीयं मन्त्रमाह—
यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु ।
तद्वियूया कवयो अन्वविन्दन्नामायत्ता समतृप्यञ्छुतेऽधि, इति।
याचकाय सर्ववस्त्वनुज्ञाप्रदानवाचकं वाचः संबन्धि यदेतदोमित्यक्षरं दारिद्र्य-
कारणमस्ति, यदपि दातव्यवस्तुप्रतिषेधवाचकं नेत्येतदक्षरमपकीर्तिकारणमस्ति, यद्-
प्यन्यदस्या वाचः संबन्धि क्रूरं खट्फडादिरूपमस्ति । तथा चान्यत्र श्रूयते—
“खट्फद् जहि । छिन्धि भिन्धी हन्धी कट् । इति वाचः क्रूराणि” । [ तै० आ०
प्र० ४ अ० २७ ] इति। यदु च यदप्यन्यदुल्बणिष्णु अत्युल्बणं वाचः स्वरूपमाक्रोशा-
दिकं तत्सर्वं कवयो मेधाविन उपासका वियूय परित्यज्य प्राणतत्त्वमन्वविन्द-
न्ध्वात्वा लब्धवन्तः । ते च कवयो नामायत्ताः प्राणदेवतान्नैम्नोऽकारस्याधीनाः
सन्तोऽकारो वै सर्वा वागित्याद्युक्तप्रकारेण प्राणरूपमकारमेव ध्यायन्तः श्रुते यथोक्त-
श्रुतिप्रोक्ते प्राणतत्त्वेऽधिसमतृप्यन् । आधिक्यं यथा भवति तथा तृप्तिं प्राप्ताः ।
* “ ब्रह्मरूपम् ” इति पठितुं योग्यम् ।
१ घ. ङ. ध्यायेत् । २ घ. ङ. ॰तव्ये वं॰ । ३ ख. ग. ॰नाम्नौका॰ । घ. ङ. ॰नाम्नोका॰ ।
४ क. घ. ङ. श्रूयते ।