सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 174, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 174

१३४ युक्तिकल्पतरो—
तस्योत्तमस्य मणिशास्त्रविदा महिम्ना ;
तुल्यन्तु मूल्यमुदितं तुलितस्य कार्य्यम् ॥८४॥
इति श्रीभोजराजीये युक्तिकल्पतरौ कर्केतनपरीक्षा ॥
अथ भीष्ममणि परीक्षा ।
तथा च गरुड़पुराणे,—
हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य ।
सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम् ॥ ८५ ॥
तथा च,—
कलिङ्गे मगधे चैव मलये च हिमाद्रये ।
भीष्मरत्न समुत्पातस्तस्य लक्षणमुच्यते ॥ ८६ ॥
शुक्लाः शङ्खाजनिभाः श्योनाकसन्निभाः प्रभावन्तः ।
प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ॥ ८७ ॥
हिमाद्रि प्रतिवद्धं शुद्धमपि अद्धया विधत्ते यः ।
भीष्ममणिं ग्रीवादिषु स सम्पदं सर्वदा लभते ॥ ८८ ॥
गुणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव ।
विषाणि तानि नश्यन्ति सर्व्वान्येव महीतले ॥ ८९ ॥
विषमा नो बाधन्ते ये तमरख्यनिवासिनः समीपेऽपि ।
द्वीपिद्वक्शरभकुञ्जरसिंहव्याघ्रादयो हिंस्राः ॥ ९० ॥
तस्योत्कवलित क्षतितो भवन्ति भयं न चापि समुपस्थितम् ।
भीष्ममणिर्गु णयुक्तः सम्यक् सम्प्राप्ताङ्गुलित्रितयः ।
पितृतर्पणे पितॄणां तृप्तिर्व्वहुवार्षिकी भवति ॥ ९१ ॥
शाम्यन्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिकविषाणि ।