याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 694, कुल 782 में से
संदर्भ में पढ़ें६३८ याज्ञवल्क्यस्मृतिः
हत्यां व्यपोहति । लक्षाशीति जपेच्चस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमह-
र्तारं गायत्र्या लक्षसप्ततिः ! गायत्र्याः षष्टिभिर्लक्षैर्मुच्यते गुरुतल्पगः ॥'
इति,–तत् द्वादशवार्षिकतुल्यविधानतयोक्तं; न पुनरशक्तविषयमिति न
विरोधः । एवमन्येऽपि–'कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् । तिल-
होमसहस्रं तु वेदपारायणं तथा ॥' इत्यादयः प्रत्याम्नायाश्चतुर्विंशतिमंतादि-
शास्त्रामिहिताः षष्ट्यधिकत्रिशतगुणिता महापातकेषु बोद्धव्याः । अति-
पातकेषु सप्तत्यधिकशतद्वयं प्राजापत्यानां कर्तव्यम् । तावन्तो वा
धेन्वादयः प्रत्याम्नायाः । पातकेषु साशीतिशतं प्राजोपत्याः प्रत्याम्नायाः
धेन्वादयस्तावन्त एव वा । यथा चतुर्विंशतिमतेऽभिहितम्—'जन्मप्रभृति
पापानि बहूनि विविधानि च । कृत्वाऽर्वाग् ब्रह्महत्यायाः षण्ढब्दे व्रतमाचरेत् ॥
प्रत्याम्नाये गवां देयं साशीति धनिना शतम् । तथाऽष्टादशलक्षाणि गायत्र्या
वा जपेद् बुधः ॥' इति । इदमेव द्वादशवार्षिके व्रते द्वादशद्वादशदिनैरेकैकप्राजा-
पत्यकल्पनायां लिङ्गम् । एवमुपपातकेषु त्रैवार्षिकप्रायश्चित्तविषयभूतेषु नवति-
प्राजापत्यास्तावन्तः प्रत्याम्नायाः । त्रैमासिकविषयेषु पुनः सार्धसप्तप्राजापत्याः
प्रत्याम्नायाश्च धेनूदवासादयस्तावन्त एव । मासिकव्रतविषयेषु तु सार्धं प्राजा-
पत्यद्वयं तावानेव वा प्रत्याम्नायः । चान्द्रायणविषयभूतेषु पुनरुपपातकेषु
प्राजापत्यत्रयम् । तदशक्तस्य प्रत्याम्नायस्तावोनेव । यत्पुनश्चतुर्विंशतिमतेऽ-
भिहितम्—'अष्टौ चान्द्रायणे देयाः प्रत्याम्नायविधौ सदा' इति, —तदपि
ध्रनिनः पिपीलिकामध्यादिचान्द्रायणप्रत्याम्नायविषयम् । मासातिकृच्छ्रविषय-
भूतेषु पुनरुपपातकेषु सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त
एव । 'प्राजापत्ये तु गामेकां दद्यात्सान्तपने द्वयम् ; पराकतप्तातिकृच्छ्रे तिस्र-
स्तिस्रस्तु गास्तथा ॥' इति चतुर्विंशतिमतेऽभिधानात् । एतच्च 'एकैकं ग्रास-
मश्नीयादि'त्यामलकपरिमितैकैकग्रासपक्षे वेदितव्यम् । पाणिपूरान्नभोजनपक्षे
पुनर्घेनुद्वयमेव । प्राजापत्यस्य षडुपवासतुल्यत्वात् तद्द्विगुणत्वाच्चातिकृच्छ्रस्य ।
यद्यपि नवसु दिनेषु पाणिपूरान्नस्त भोजनं, तथापि नैरन्तर्येण द्वादशदिव-
सानुष्ठाने क्लेशातिशयात्षडहोपवाससमानप्राजापत्यद्वयतुल्यत्वमेव । प्राजाप-
त्यस्य च षडुपवासतुल्यत्वं युक्तमेव । तथा हि-प्रथमेऽह्यहे सायंत्नभोजनत्रय-
निवृत्तावेकोपवाससंपत्तिः । द्वितीये ऽयह्हे प्रातःकालभोजनत्रयैनिवृत्तिपरस्य ।
तथा च अयाचितत्र्यहेऽपि सायंत्नभोजनत्रयवर्जनेऽपरस्येत्येवं नवभिर्दिनैरुप-
१. प्राजापत्यानां प्रत्याम्नायधेन्वादयः । २. तदतिध्रनिनः । ३. पराक-
तप्तातिकृच्छ्रे तिस्रस्तिस्रस्तु गास्तथा । ४. तुल्यत्वाद् द्विगुणत्वाच्च । ५. त्रय-
वर्जनपरस्य । ६. भोजनवर्जनेऽन्यस्येति ।