याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 681, कुल 782 में से
संदर्भ में पढ़ेंस्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ ३१३ ॥
ब्रह्मचर्यं सकलेन्द्रियसंयमः, उपस्थनिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन
निर्दिष्टः, अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत्पुनर्मुनुनोक्तम्—'अहिंसा
सत्यमक्रोधमार्जवं च समाचरेत्' इति,—तदप्येतेषामुपलक्षणं न परिगणनाय ।
अत्र च दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानामपि पुनर्विधानं प्रायश्चित्ताङ्गत्वा-
र्थम् । क्वचिद्विशेषोऽप्यस्ति । यथा विवाहादिष्वभ्यनुज्ञातस्याप्यनृतवचनस्य
निवृत्त्यर्थं सत्यत्वविधानम् । पुत्रशिष्यादिकमपि न ताडनीयमित्येवमर्थमहिंसा-
विधानमित्येवमादि ॥ ३१२-३१३ ॥
भाषा—ब्रह्मचर्य (सभी इन्द्रियों का संयम), दया, क्षमा, दान, सत्य-
भाषण, सरलता, अहिंसा, चोरी न करना, माधुर्य (मधुर वचन बोलना) और
दम (ज्ञानेन्द्रियों का दमन)—ये यम कहे गये हैं ॥
स्नान, मौन रहना, उपवास, देवपूजन, स्वाध्याय, लिङ्ग का निग्रह
(कामुकता का त्याग), गुरु की सेवा, पवित्रता, अक्रोध और प्रमाद
का त्याग—ये सभी नियम कहलाते हैं ॥ ३१२-३१३ ॥
तत्र सान्तपनाख्यं व्रतं तावदाह—
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽहन्युपवसेत्कृच्छ्रं सान्तपनं चरन् ॥ ३१४ ॥
पूर्वेद्युराहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशो
दकसहितानि संयुज्य पीत्वा अपरेद्युरुपवसेदिति द्वैरात्रिकः सान्तपनः कृच्छ्र
संयोजनं चोत्तरश्लोके पृथग्विधानादवगम्यते । 'कृच्छ्र' इति चान्वर्थसंज्ञेयम् ;
तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वे-
द्युरुपोप्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकमेव पञ्चगव्यं पीयते तदा महाकृच्छ्रं
इत्याख्यायते । यथाह पराशरः-'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
निर्दिष्टं पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥ गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चापि
गोमयम् । पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥ घृतं च कृष्णवर्णायाः
सर्वं कापिलमेव च । अलाभे सर्ववर्णानां पञ्चगव्येऽयवं विधिः॥ गोमूत्रं
मापकास्त्वष्टौ गोमयस्य तु षोडशं । क्षीरस्य द्वादश प्रोक्ता दधनस्तु दश
कीर्तिताः ॥ गोमूत्रवद्घृतस्याष्टौ तदर्थं तु कुशोदकम् । गायत्र्यादाय गोमूत्रं
गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥ तेजोऽ-
१. परम् । २. द्वैरात्रः । ३. सांतपनं । ४. पवित्रं कायशोधनमिति ।