याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 679, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ६२३
यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर्होमो १गायत्र्या वाचनं तथा ॥ ३०९ ॥
किंच, यत्र यत्र च ब्रह्मवधादौ तज्जनितकल्मषजातेनात्मानं संकीर्णमभिभूतं
द्विजो मन्यते तत्र तत्र गायत्र्या तिलैर्होमः कार्यः । तत्र महापातकेषु लक्षसं-
ख्यया होमः कार्यः । 'गायत्र्या लक्षहोमेन मुच्यते सर्वपातकैः' इति यमस्मर-
णात् । अतिपातकादिषु पादपादहासः कल्पनीयः । तथा तिलैर्वाचनं दानं का-
र्यम् । तथा च रहस्याधिकारे वसिष्ठः-'वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च
वा । क्षौद्रयुक्तैस्तिलैः कृष्णैर्वाचयेदथवेतरैः ॥ प्रीयतां धर्मराजेति यद्वा मनसि
वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥' इति । तथा अनियतकालेऽपि
दानं तेनैवोक्तम्-'कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु
विप्राय सर्वं तरति दुष्कृतम् ॥' इति । तथा व्यासेनाप्युक्तम्-'तिलधेनुं च यो
दद्यात्संयतात्मा द्विजन्मने । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥' इति ।
एवमादि दानजातं रहस्यकाण्डोक्तमविदुषां द्विजातीनां स्त्रीशूद्रयोश्च वेदितव्यम् ।
यत्तु यमेनोक्तम्-'तिलान्ददाति यः प्रातस्तिलान्स्पृशति खादति । तिलस्नायी
तिलाञ्जुह्वन्सर्वं तरति दुष्कृतम् ॥' तथा-'द्वे चाष्टम्यौ तु मासस्य चतुर्दश्यौ
तथैव च । अमावास्या पौर्णमासी सप्तमी द्वादशीद्वयम् ॥ संवत्सरमभुञ्जानः
सततं विजितेन्द्रियः । मुच्यते पातकैः सर्वैः स्वर्गलोकं च गच्छति ॥' इति ।
यच्चात्रिणोक्तम्-'क्षीराब्धौ शेषपर्यङ्के स्वाषाढ्यां संविशेद्वरिः । निद्रां त्यजति
कार्तिकां तयोः संपूजयेद्धरिम् ॥ ब्रह्महत्यादिकं पापं क्षिप्रमेव व्यपोहति ॥'
इत्येवमादि तत्सर्वं विद्याविरहिणां कामाकामकसकृदसकृदभ्यासविषयतया व्यव-
स्थापनीयम् ॥ ३०९ ॥
भाषा—जहाँ-जहाँ द्विज ( ब्रह्महत्यादि ) कर्मों के पाप से अपने को
युक्त समझे वहां वहां गायत्री का जप करते हुए तिल का होम करे ॥ ३०९ ॥
वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्यपि ॥ ३१० ॥
किंच, 'वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो
वेदाभ्यासो हि पञ्चधा ॥' इत्युक्तक्रमेण वेदाभ्यासनिरतं तितिक्षायुक्तं पञ्च-
महायज्ञानुष्ठाननिरतं महापातकजान्यपि पापानि न स्पृशन्ति । किमुत प्रकी-
र्णकजानि वाङ्मनसजन्योपपातकानि वेत्यत्र तात्पर्यमविशिष्टादृगुच्यते ।—एत-
१. गायत्र्यावर्तनं । २. दोषजातेन । ३. गायत्र्या लक्षहोमः ।
४. पञ्चसप्त वा । ५. किञ्चित् ।