याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 671, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४१५
द्वास्तपोनिष्ठाः कदाचित्पापमागताः। जपहोमादिकं तेभ्यो विशेषेण प्रदीयते ॥
ये नामधारका विप्रा मूर्खा धनविवर्जिताः। कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्या-
द्विशेषतः' ॥ २९९ ॥
भाषा—जलाशय से जल से भरा हुआ घड़ा लेकर आने पर सपिण्ड
आदि जाति के लोगों के बीच गायों को कोमल दूब खिलावे । गौएँ यदि
उसका सत्कार करती हैं ( उसकी दी हुई घास खाती हैं ) तभी जाति के
लोग उसका सत्कार करें ( जाति में सम्मिलित करें ) ॥ २९९ ॥
इति प्रकाशप्रायश्चित्तप्रकरणम् ।
अथ रहस्यप्रायश्चित्तम् ।
'व्याख्याय ख्यातदुरितशातनों व्रतसंततिम् ।
रहःकृताघसन्दोहहारिणीं व्याहरन्मुनिः ॥'
तत्र प्रथमं सकलरहस्यव्रतसाधारणं धर्ममाह—
अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३०० ॥
कर्तृव्यतिरिक्तैरनभिख्यातो दोषो यस्यासौ रहस्यमप्रकाशं प्रायश्चित्तमनु-
तिष्ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात् तदितरैरविज्ञातदोषस्य
रहस्यव्रतमिति मन्तव्यम् । तत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस्तदा परस्मिन्न-
विभाव्य स्वनिमित्तोचितं प्रायश्चित्तमनुतिष्ठेत् । यस्तु स्वयमनभिज्ञोऽसौ केन-
चिद्रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तमित्यन्यव्याजेनावगम्य रहो-
व्रतमनुतिष्ठेत् । अत एव स्त्रीशूद्रयोश्चाप्युक्तेनैव मार्गेण रहस्यव्रतज्ञानसिद्धेरधि-
कारसिद्धिः । नच वाक्यं रहस्यव्रतानां जपादिप्रधानत्वाद्विद्ययोश्च स्त्रीशूद्रयो-
स्तदनुपपत्तेरनधिकार इति । यतोऽनैकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम् ।
दानादेरप्युपदेशाद् गौतमोक्तप्राणायामादेरपि संभवाच्च । इतरेषामपि मन्त्रदै-
वतर्षिच्छन्दःपरिज्ञानमात्रमेवाधिकारोपयोगि, न स्वन्यविषयम् । नहि तडाग-
निर्माणादौ ज्योतिष्टोमादिविषयिणी प्रतिपत्तिरुपयुज्यते । देवतादिपरिज्ञानं
त्ववश्यमपेक्षणीयम् ; 'अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापये-
ज्जपेद्वापि पापीयाञ्जायते तु सः ॥' इति व्यासस्मरणात् । अन्नाद्याहारविशे-
षानुक्तौ पयःप्रभृतयः, कालविशेषानुक्तौ संवत्सरादयः, देशविशेषानुक्तौ शिलो-
च्चयादयो गौतमाद्यभिहिताः प्रकाशप्रायश्चित्तवदन्वेषणीयाः ॥ ३०० ॥
१. अभिख्यापितदोषस्तु रहस्यव्रतमाचरेत् ।