याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 642, कुल 782 में से
संदर्भ में पढ़ें५८६ याज्ञवल्क्यस्मृतिः
प्राश्य विशुध्यति । - इदमकामतः सकृद्गमनविषयम् । तत्रैवाभ्यासे 'रजस्वला-
गमने सप्तरात्रम्' इति ज्ञार कं द्रष्टव्यम् । कामतः सकृद्गमनेऽप्येतदेव ।
यत्तु बृहत्संवर्तेनोक्तम्- 'रजस्वलां तु यो गच्छेदूर्म्मिणीं पतितां तथा । तस्य
पापविशुद्ध्यर्थमतिकृच्छ्रं विशोधनम् ॥' इति, - तत्कामतोज्भ्यासविषयम् ।
यत्पुनः शङ्खेन त्रैवाषिंकमुक्तम् - 'पादस्तु शूद्रहत्यायामुदक्यागमने तथा' इति,
तत्कामतोज्प्यन्तानवच्छिन्नाभ्यासविषयम् । रजस्वलायास्तु रजस्वलादिस्पर्शे प्राय-
श्चित्तं स्मृत्यन्तरोक्तं द्रष्टव्यम् । तथा च वृद्धवसिष्ठः- 'स्पृष्टे रजस्वलेऽन्योन्यं संवर्णे
त्वेकभर्तृके । कौमादकामतो वापि सद्यः स्नानेन शुध्यतः ॥' इति । असपत्न्योस्तु
सवर्णयोरकामतः स्नानमात्रम् - 'उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ।
तस्मिन्नेवाहनि स्नात्वा शुद्धिमाप्नोत्यसंशयम् ॥' इति मार्कण्डेयस्मरणात् ॥ यत्तु
कश्यपवचनम् - 'रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि । एकरात्रं निरा-
हारा पञ्चगव्येन शुध्यति ॥' इति, - तत्कामकारविषयम् । असवर्णस्पर्शे तु बृह-
द्वसिष्ठेन विशेषो दर्शितः- 'स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजापि च ।
कृच्छ्रेण शुध्यते पूर्वा शूद्री दानेन शुध्यति ॥' दानेनेति पादकृच्छ्रप्रत्याम्नायभूत-
निष्कचतुर्थांशदानेन शुध्यतीति । 'स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यजापि
च । पादहीनं चरेत्पूर्वा पादकृच्छ्रं तथोत्तरा ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी
क्षत्रिया तथा । कृच्छ्रार्धं शुध्यते पूर्वा तूतरा च तदर्धतः ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं
क्षत्रिया शूद्रजापि च । उपवासैस्त्रिभिः पूर्वा त्वहोरात्रेण चोत्तरा ॥ स्पृष्ट्वा
रजस्वलाऽन्यान्यं क्षत्रिया वैश्यजापि च । त्रिरात्राच्छुध्यते पूर्वा त्वहोरात्रेण
चोत्तरा ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं वैश्या शूद्रा तथैव च । त्रिरात्राच्छुध्यते
पूर्वा तूतरा च दिनद्वयात् ॥ वर्णानां कामतः स्पर्शे शुद्धिरेशः पुरातनी ॥' इति ॥
अकामतस्तु बृहद्विष्णूक्तं स्नानमात्रम् - "रजस्वलां हीनवर्गां रजस्वला स्पृष्ट्वा
न तावदशनीयाद्यावन्न शुद्धा स्यात् । सवर्णामधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा
विशुध्यति' इति ॥ चण्डालादिस्पर्शे तु वृद्धवसिष्ठेन विशेष उक्तः - 'पतितान्य-
श्चपाकेन संस्पृष्टा चेद्रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमेऽह्नि त्रिरात्रं स्याद् द्वितीये द्वयहमेव तु । अहोरात्रं तृतीयेऽह्नि परतो
नक्तमाचरेत् ॥ शूद्रयोनिछृष्ट्या स्पृष्टा शुना चेद् द्वयहमाचरेत् ॥' इति ।
तान्यहानि व्यतिक्रम्य अनाशकेन नीत्वेति यावत् । - एतत्कामतः स्पर्शविषयम् ।
अकामतस्तु - 'रजस्वला तु संस्पृष्टा चाण्डालात्यश्ववायसैः । तावत्तिष्ठेन्निराहारा
यावत्कालेन शुध्यति ॥' इति बौधायनेनोक्तं द्रष्टव्यम् ॥ यत्पुनस्तेनैवोक्तम्-
'रजस्वला तु संस्पृष्टा ग्रामकुक्कुटसूकरैः । श्वभिः स्नात्वा त्रिषेतावद्यावत्पञ्चगव्यस्य
दर्शनम् ॥' इति, - तदज्ञानविषयम् ॥ यदा तु मुखालालाः श्वादिस्पर्शो भवति तदा
१. सगोत्रे । २. कामतोऽकामत वापि । ३. प्रांपरा ।