याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 639, कुल 782 में से
संदर्भ में पढ़ेंस्यात् । यदिदमूत्पन्नगता संख्या स्यात्तदा स्यादपि कथंचिदावृत्त्यपेक्षा, किंतु-
ऽपत्तिगतेयम् ; अतः 'तिस्र भाज्याहुतीर्जुहोति' इतिवत् स्वरूपपृथक्त्वसापेक्षमेव
त्रित्वसंख्याघटना युक्ता ॥ २८३ ॥
भाषा—किसी कार्य पर भेजे गये (और उस कार्य के सम्पादन के
लिये) शिष्य की मृत्यु होने पर (हिंसक पशु आदि द्वारा मारे जाने पर)
गुरु तीन कृच्छ्र व्रत करे ॥ २८३ ॥
सकलहिंसाप्रायश्चित्तापवादमाह—
क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
[ विप्रेऽके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ ]
आयुर्वेदोपदेशानुसारेणौषधपथ्यान्नप्रदानादिभिश्चिकित्सादिना क्रियमाण
उपकारो यस्य ब्राह्मणादेस्तस्मिन्दैवात्कथंचिन्मृतेऽपि पातकं नैव भवति ।
'विप्र'ग्रहणं प्राणिमात्रोपलक्षणार्थम् । अत एव 'यन्त्रणे ²गोचिकित्सार्थे गूढगर्भे-
विमोचने । यत्ने कृते विपत्तिः स्यान्न स पापेन लिप्यते ॥' इत्यादि संवर्ताद्यै-
रुक्तम् । एतच्च प्रपञ्चितं प्राक् ॥—
भाषा—औषध आदि द्वारा उपकार करते समय ब्राह्मण की मृत्यु हो
जाने पर पातक नहीं लगता । [गाय और वृष की चिकित्सा और अग्निकार्य में
प्राणनाश हो तो पाप नहीं लगता । ] ॥
मिथ्याभिशंसिनः प्रायश्चित्तविवक्षया तदुपयोग्यर्थवादं तावदाह—
मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ॥ २८४ ॥
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ।
यस्तु परोत्कर्षेर्ष्याजनितरोषकलुषितान्तःकरणो जनसमक्षं मिथ्यैवाभि-
शापं 'ब्रह्महत्यादिकमनेन कृतम्' इत्यारोपयति, तस्य तदेव द्विगुणं भवति ।
यस्तु विद्यमानमेव दोषमलोकविदितं जनसमक्षं प्रकाशयति, तस्यापि तत्पा-
तकिसमदोषभाक्त्वम्; तथा चापस्तम्बः ( १।२१।२०)—'दोषं बुद्ध्वा
न पूर्वः परेभ्यः पतितस्य समा³ख्याता स्यात् परिहरेच्चैनं धर्मेषु' इति न केवलं
मिथ्याभिशंसी द्विगुणदोषभाक्, अपि तु मिथ्याभिशस्तस्य यदन्यद् दुरितजातं
तदपि समादत्त इति वक्ष्यमाणप्रायश्चित्तेऽर्थवादः, न पुनः पापद्वैगुण्यादि-
प्रतिपादनमत्र विवक्षितम् ; निमित्तस्य लघुत्वाल्लघुपायश्चित्तस्योपदिश्यमानत्वात्
कृतनाशाकृताभ्यागमप्रसङ्गाच्च ॥ २८४३/२ ॥
१. इदमर्धं पुस्तक एवाधिकमस्ति । २. गोचिकित्सार्थं । ३. समा-
ख्यात्रे ।