याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 625, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ५६६
अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रतकदम्बस्य वृद्धह्रासौ कल्पनीयौ । दण्डस्य
च वृद्धह्रासौ दर्शितौ—'दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः' (व्य० २०६)
इत्यत्र ॥ २६६-२६७ ॥
भाषा—क्षत्रिय का वध करने पर प्रायश्चित्त कर्ता पुरुष एक साँड़
(प्रौढ़ बछवा) के साथ एक हजार गौओं का दान करे अथवा ब्रह्महत्याव्रत
तीन वर्षों तक करे । वैश्य का वध करने वाला एक वर्ष तक ब्रह्महत्याव्रत
करे अथवा एक साँड़ के साथ एक सौ गौओं का दान करे । शूद्र का वध
करने वाला छै मास तक ब्रह्महत्याव्रत करे अथवा एक साँड़ के साथ नई
ब्यायी दस सवत्सा गौवों का दान करे ॥ २६६-२६७ ॥
इति क्षत्रियादिवधप्रायश्चित्तप्रकरणम् ।
स्त्रीवधे प्रायश्चित्तमाह—
१दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर्बस्तमविं क्रमाद्दद्याद्विशुद्धये ॥ २६८ ॥
ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधार-
चर्मकोशं, धनुः कार्मुकं, बस्तं छागं, अविं मेषं च, विशुद्धये दद्यात् । इदं च
प्रातिलोम्येनान्यजातिप्रसूतानां ब्राह्मण्यादीनामकामतौ वधविषयम् । कामतस्तु
ब्रह्मगर्भ आह—'प्रतिकोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां
च सूतादीनां चतुर्द्विषट् ॥' इति । ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश्चत्वारो
वैश्याया द्वावित्येवं यथार्हंतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं २व्यापादयति
तदा किंचिद्देयम् । 'वैशिकेिन किंचित्'० (२२।२७) इति गौतमस्मरणात् । वैशि-
केन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिदेव देयं तच्च जलम् । 'कोशं कू-
पेऽथ विप्रे वा ब्राह्मण्याः प्रतिपादयेत् । वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे
स्मृतः ॥ शूद्रायामाविकं वैश्यां हत्वा दद्याज्जलं नरः ॥' इत्यङ्गिरःस्मरणात् । यदा
पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गो-
वधप्रायश्चित्तानि यथार्हं योज्यानि ॥ २६८ ॥
भाषा—ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र की व्यभिचारिणी स्त्री का वध
करने पर प्रायश्चित्त कर्ता यथाक्रम (वर्णानुक्रम) से जल भरने वाला चमड़े
का मशक, धनुष, बकरा तथा भेड़ का दान करे ॥ २६८ ॥
१. दुर्वृत्ता ब्रह्मन्नृपविट्शूद्रयोषाः । २. व्यापादितास्तदा ।