याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 623, कुल 782 में से
संदर्भ में पढ़ेंबान्धवैः ॥ प्रायश्चित्तं गते गर्भे विधिं कृच्छ्रादिकं चरेत् । हिरण्यमथवा धेनुं
दद्याद्विप्राय दक्षिणाम् ॥' इति । यदा तु कामतोऽन्त्यन्तसंपर्कं करोति तदा -
'अन्त्यजेन तु संपर्के भोजने मैथुने कृते । प्रविशेत्संप्रदीप्तेऽग्नौ मृत्युना सा विशु-
द्ध्यति ॥' इत्युशनसोक्तं द्रष्टव्यम् । यदा तूक्तं प्रायश्चित्तं न करोति तदा
पुंलिङ्गेनाङ्कनीया, वध्या वा भवेत् । 'हीनवर्णोपभुक्ता या साऽङ्कया वध्याऽथवा
भवेत्' इति पराशरस्मरणात् । इति पारदार्यप्रकरणम् । तथा परिवित्तिप्राय-
श्चित्तानामपि परिवेत्तृप्रायश्चित्तवद्व्यवस्था विज्ञेया । इयांस्तु विशेषः- 'परिवेत्तु-
र्यस्मिन्विषये कृच्छ्रातिकृच्छ्रौ तत्र परिवित्तेः प्राजापत्यमिति । परिवित्तिः कृच्छ्रं
द्वादशरात्रं चरित्वा पुनर्निविशेत् तां चैवोपयच्छेत्' इति वसिष्ठस्मरणात् । इति
परिवित्तिप्रकरणम् । वार्धुष्यलवणक्रययोस्तु मनुयोगीश्वरोक्तसामान्योपपा-
तकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ २६५ ॥
भाषा-उपपातकों की भी शुद्धि इसी प्रकार ( गोवध के प्रायश्चित्त से )
अथवा चान्द्रायण व्रत से या एक मास तक केवल दूध पीकर रहने या पराक
व्रत करने से होती है ॥ २६५ ॥
लवणक्रयानन्तरं 'स्त्रीशूद्रविट्क्षत्रवध' ( प्रा० २३६ ) इत्युपपातकंमध्ये
पठितं तत्र प्रायश्चित्तान्तरमप्याह -
ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् ।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ २६६ ॥
वैश्यहाब्दं चरेदेतद्दद्याद्वैकशतं गवाम् ।
षण्मासाञ्छूद्रहाप्येतद्धेनूर्दद्याद् दशाथवा ॥ २६७ ॥
एकमधिकं यस्मिन्सहस्रे तदेकसहस्रं, तस्य पूरण एकसहस्रः, ऋषभ एक-
सहस्रो यासां गवां ताः ऋषभैकसहस्रास्ताः क्षत्रवधे दद्यात् । अथवा बृहत्प्रा-
यश्चित्तं ब्रह्महत्याव्रतं वर्षत्रयं कुर्यात् । वैश्यघाती पुनरेतत् ब्रह्महत्याव्रतमेकवर्षं
चरेत् । गवामृषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् ।
यद्वा दशधेनूरचिरप्रसूताः सवत्सा दद्यात् । इदमकामतो जातिमात्रक्षत्रियादि-
वधविषयम् ; 'अकामतस्तु राजन्यं विनिपात्य' ( मनुः ११।१२७ ) इति
प्रक्रम्यैतेषामेव प्रायश्चित्तानां मानवेऽभिधानात् । दानतपसोश्च शक्त्यपेक्षया व्य-
वस्था । ईषद्वृत्तस्थयोस्तु विट्शूद्रयोः- 'तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे
स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडश ॥' ( ११।१२६ ) इति
मनूक्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । 'वृत्त'शब्देन
चात्र गुणादिकमुच्यते । 'गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्त्तकं
१. वृषभैकसहस्रा । २. वैश्यहा ह्येतत् । ३. व्रतत्रयमेवतु ।