सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 587, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 587

अथवा पिण्याकं¹ पिण्डितं त्रिसमा वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणा-
स्तन्दुलेल²वास्तान्वा पूर्ववद्भक्षयेत् ।- एतच्च सकृदेव कार्यम् ; 'कणान्वा भक्ष-
येदब्दं पिण्याकं वा सकृन्निशि' ( ११।९२ ) इति मनुस्मरणात् । अस्य च पिण्या-
कादिभक्षणस्य भोजनकार्ये विहितत्वादशनान्तरपरित्यागः । एतच्चोदकबुद्ध्या सुरा-
पाने छर्द्दनोत्तरकाले वेदितव्यम् ; 'एतदेव व्रतं कुर्यान्मद्यपश्छर्द्दने कृते । पञ्चगव्यं
च तस्योक्तं प्रत्यहं कायशोधनम् ॥' इति व्यासवचनात् । नच सुरासंसृष्टेषूद-
पलब्धमानतद्गन्धरसोदकपानविषयमिदमिति सुन्दरम् । संसर्गेऽपि सुरात्वस्या-
नपायात् । यथाऽऽज्यत्वस्य पृषदाज्ये । अत एव 'आज्यपा इति निगमाः कार्याः
न पृषदाज्यपाः' इत्येवमुक्तं न्यायविद्भिः । यत्पुनरापस्तम्बवचनम् ( १।२५ )-
'स्तेयं कृत्वा सुरां पीत्वा गुरुदारान्गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मित-
भोजनोऽभ्युपेयात्सवनानुपशं स्थानासनाभ्यां विहरंस्त्रिभिर्वर्षैः पापं व्यपनुदति'
इति । यच्चाङ्गिरोवचनम्- 'महापातकसंयुक्ता वर्षैः शुद्ध्यन्ति ते त्रिभिः' इति,
तदुभयमपि 'पिण्याकं वा कणान्वा' इत्यनेनै कविषयम् । यदपि यमेन प्रायश्चित्तद्वय-
मुक्तम् - 'बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पूतः । समत्वं ब्राह्मणैर्गच्छेदिष्ट्येषा
वैदिकी श्रुतिः ॥ भूमिप्रदानं यः कुर्यात्सुरां पीत्वा द्विजोत्तमः । पुनर्न च
पिबेत्तां तु संस्कृतः स विशुद्ध्यति ॥' इति, -तदुभयमपि पूर्वेण सहैकविषयम् ।
यद्वा अतिरिक्तदक्षिणाकतृत्वाश्रयणाद् द्वादशवार्षिकेन सह विकल्पते । अत्रापि
बालवृद्धादीनां सार्धैकवर्षीयमनुपनीतानां तु नवमासिकमित्येवं कल्पना कार्या ।
यत्तु मनुवचनम् ( ११।९२ )- 'कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ।
सुरापानापनुत्त्यर्थं बालवासा जटी ध्वजी ॥' इति, -तत्तालुमात्रसंयोगे सुराया
अबुद्धिपूर्वे द्रष्टव्यम् । ननु च द्रवद्रव्यस्याभ्यवहरणं पानमित्युच्यते । अभ्यव-
हरणं च कण्ठादधोनयनं न तालुवादिसंयोगमात्रं, अतः कथं तत्र पाननिमित्तं
प्रायश्चित्तम् ? उच्यते- येन तालुवादिसंयोगेन विना पानक्रिया न निर्वर्तते
सोऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्यपि मुख्यपानाभावान्न महा-
पातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूतान्यभिचारिताल्वादिसंयोगस्यापि प्रति-
षिद्धत्वेन दोषस्य विद्यमानत्वादङ्गावस्थेव प्रायश्चित्तम् ।- 'चरेद् व्रतमहत्त्वाऽपि घातार्थं
चेत्समागतः' इति । यथा हननप्रतिषेधेन तदङ्गभूताध्यवसायादेरपि प्रति-
षिद्धत्वात्प्रायश्चित्तविधानम् । यत्तु बौधायनीयम् - 'त्रैमासिकममत्या सुरापाने
कृच्छ्राब्दपादं चरित्वा पुनरुपंनयनम्' इति; यच्च याम्यम् - 'सुरां पीत्वा द्विजं
हत्वा रुक्मं हृत्वा द्विजन्मनः । संयोगं पतितैर्गत्वा द्विजश्चान्द्रायणं चरेत् ॥'
इति; यदपि बार्हस्पत्यम् - 'गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् ।
१. पिण्याकपिण्डान् । २. तंदुलानवस्तान्वा ।
३४ या०