सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 584, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 584

५२८ याज्ञवल्क्यस्मृतिः
इति प्रचेतःस्मरणात् । एतच्च सकृत्पानमात्रे; 'सुरापानं सकृत्कृत्वाऽप्यग्निवर्णां
सुरां पिबेत्' इत्यङ्गिरःस्मरणात् । यत्तु वसिष्ठवचनम्—'अभ्यासे तु सुरा-
याश्च अग्निवर्णां पिबेद् द्विजः' इति, —तत्सुरान्यरिक्तमद्यपानविषयम् । एतच्च
कामकारविषयम् ; 'सुरापाने कामकृते ज्वलन्तीं तां विनििक्षिपेत् । मुखे तया
विनिर्दग्धो मृतः शुद्धिमवाप्नुयात् ॥' इति बृहस्पतिस्मरणात् । यत्तु 'सुरां पीत्वा
द्विजो मोहादग्निवर्णां सुरां पिबेत्' (११।९०) इति मनुना मोहग्रहणं कृतं,
तच्छास्त्रार्थापरिज्ञानाभिप्रायेण । अत्रेदं चिन्तनीयम्—किं 'सुरा' शब्दो मद्यमात्रे
रूढ उत तिसृष्वेव गौडीमाध्वीपैष्टीष्वाहोस्वित्पैष्ट्यामेवेति । तत्र केचिन्मद्यमात्रे
रूढ इति वर्णयन्ति; 'अभ्यासे तु सुरायाः' (२०।२२) इति वासिष्ठे
पैष्ट्यादित्रयव्यतिरिक्तेऽपि मद्यमात्रे सुराशब्दप्रयोगदर्शनात् । न चासौ गौणः
प्रयोग इति शङ्कनीयम् । मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ
गौणत्वकल्पनाया अन्याय्यत्वादिति,—तदयुक्तम् ; 'पानसं द्राक्षं माधूकं
खार्जूरं तालमैक्षवम् । मधूत्थं सैरमारिष्टं मैरेयं नालिकेरजम् ॥ समानानि
विजानीयान्मद्यान्येकादशैव तु । द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम् ॥'
इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश्च मद्यमात्रे सुराशब्द-
प्रयोगो गौणः । अन्ये पुनः पैष्ट्यादिषु तिसृषु 'सुरा'शब्दस्य रूढिं मन्यन्ते ।
तथा हि—यद्यप्यनेकत़्र सुराशब्दप्रयोगो दृश्यते तथाऽपि कुत्रानादित्वमिति
संदेहे—'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा' (११।९४) इति
मनुवचनाद्गुडमधुपिष्टविकारेष्वनादित्वनिर्धारणात्तत्रैव मुख्यत्वं युक्तम् । नचा-
नेकत्र शक्तिल्पना दोषः; मदशक्तेरुपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् ।
नच तालादिरसेष्वप्युपाधेर्विद्यमानत्वादतिप्रसङ्गः; पङ्कजादिशब्दवद्योगरूढत्वा-
श्रयणात् । अतश्च—'यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः' (मनुः
११।९४) इति तिसृणां सुराणां समानदोषत्वप्रतिपादनपरं न पुनरनयोगौ-
डीमाध्व्योः पैष्टीसुरासमत्वप्रतिपादनपरम् । 'द्विजोत्तम'ग्रहणं द्विजात्युपलक्ष-
णम्,—एतदप्ययुक्तम् ; 'द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम्' इति पुल-
स्त्यवचने गौडीमाध्वीभ्यामपि सुरामद्यँस्यातिरेकदर्शनात् । तथा—'सुरा वै
मलमन्नानां पाप्मा च मलमुच्यते' (मनुः ११।९३) इति । अन्नविकारस्यैव
सुरात्वनिर्देशादन्नशब्दस्य च 'अन्नेन व्यञ्जनम्' इत्यादिषु व्रीह्यादिविकार एव
प्रयोगदर्शनाद् गुडमधुनोश्च रसरूपत्वात्तथा सौत्रामणिग्रहेषु चान्नविकारे एव
'सुरा'शब्दस्य श्रुतत्वात् पैष्ट्येव सुरा मुख्योच्यते । इतरयोस्तु सुराशब्दो गौणः;
यत्तूक्तम्—'गौडी माध्वी' इति मनुवचनात्तिसृष्वप्यौपत्तिकत्वनिर्धारणादिति,—
तदप्ययुक्तम् ; यतो नेदं शब्दानुशासनवच्छब्दार्थसम्बन्धानादित्वप्रतिपादनपरं,
१. पाधिकत्वेन । २. नैकशक्ति । ३. मद्यस्य व्यतिरेक ।