याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 58, कुल 782 में से
संदर्भ में पढ़ें२ याज्ञवल्क्यस्मृतिः
चर्यादिः । वर्णाश्रमधर्मः पालाशो दण्डो ब्राह्मणस्येत्येवमादिः । गुणधर्मः शाखी-
याभिषेकादिगुणयुक्तस्य राज्ञः प्रजापरिपालनादिः । निमित्तधर्मो विहिताकरण-
प्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः । ‘न हिंस्यात्सर्व्वा
भूतानि’ इत्याचण्डालं साधारणो धर्मः । ‘शौचाचारांश्च शिक्षयेत्’इत्याचार्यकरण-
विधिप्रयुक्तत्वाद्वर्मशास्त्राध्ययनस्य प्रयोजनादिकथनं नातीवोपयुज्यते । तत्र चायं
क्रमः-प्रागुपनयनात्कामचारकामवादकामभक्षाः । ऊर्ध्वमुपनयनाद्राग्वेदाध्यय-
नोपक्रमाद्धर्मशास्त्राध्ययनं, ततो धर्मशास्त्रविहितयमनियमोपेतस्य वेदाध्ययनं,
ततस्तदर्थजिज्ञासा, ततस्तदर्थानुष्ठानमिति । तत्र यद्यपि धर्मार्थकाममोक्षाः
शास्त्रेणानेन प्रतिपाद्यन्ते, तथापि धर्मस्य प्राधान्याद्धर्मग्रहणम् । प्राधान्यं च
धर्ममूलत्वादितरेषाम् । न च वक्तव्यं धर्ममूलोऽर्थोऽर्थमूलो धर्म इत्यविशेष इति ।
यतोऽर्थमन्तरेणापि जपतपस्तीर्थयात्रादिना धर्मनिष्पत्तिः, अर्थलेशोऽपि न
धर्ममन्तरेणेति । एवं काममोक्षावपीति ॥ १ ॥
भाषा— किसी समय ) योगियों में श्रेष्ठ याज्ञवल्क्य की पूजा करके
( सोमश्रवस आदि ) मुनियों ने कहा कि आप वर्णों, आश्रमों और दूसरे
( अनुलोमज-प्रतिलोमज संकर जातियों ) का धर्म हमें पूर्णरूप से
बताइए ॥ १ ॥
एवं पृष्टः किमुवाचेत्याह—
मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाऽब्रवीन्मुनीन् ।
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत ॥ २ ॥
मिथिला नाम नगरी तत्र स्थितः स याज्ञवल्क्यो योगीश्वरः क्षणं ध्यात्वा
किञ्चित्कालं मनः समाधाय एते श्रवणाधिकारिणो विनयेन पृच्छन्तीति युक्तमेतेभ्यो
वक्तुमित्युक्त्वाऽन्मुनीन् । किम् ? ‘यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्नि-
बोधयत’–इति । कृष्णसारो मृगो यस्मिन्देशे स्वच्छन्दं विहरति तस्मिन्देशे
दद्यमाणलक्षणा धर्मा अनुष्ठेया नान्यत्रेत्यभिप्रायः ॥ २ ॥
भाषा—मिथिला नगरी में विराजमान उस योगीश्वर ने थोड़ी देर
अपने मन में विचार करके मुनियों से कहा कि जिस देश में काले
मृग ( स्वच्छन्द ) विचरण करते हैं उस देश में ( अनुष्ठेय ) धर्मों को
समझिए ॥ २ ॥
१. सर्वभूतानि इति । २. श्रुत्युक्तशौचाचारान् । ३. जपतीर्थयात्रा ।