सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 57, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 57

॥ श्रीः ॥

याज्ञवल्क्यस्मृतिः

‘मिताक्षरा’ सहितहिन्दीव्याख्योपेता

आचाराध्यायः ॥ १ ॥

उपोद्घातप्रकरणम्

धर्माधर्मौ तद्विपाकाश्चयोऽपि क्लेशाः पञ्च प्राणिनामायतन्ते ।
यस्मिन्नेतैर्नो परामृष्ट ईशो यस्तं वन्दे विष्णुमोङ्कारवाच्यम् ॥ १ ॥
याज्ञवल्क्यमुनिभाषितं मुहुर्विश्वरूपविकटोक्तिविस्तृतम् ।
धर्मशास्त्रमृजुभिर्मिताक्षरा बालशोधविधये विविच्यते ॥ २ ॥
याज्ञवल्क्यशिष्यः कश्चित्प्रश्नोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्मशास्त्रं संक्षिप्य
कथयामास-यथा मनुप्रणीतं भृगुः । तस्य चायमाद्यश्लोकः—
योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥ १ ॥
योगिनां सनकादीनामीश्वरः । ^२ श्रेष्ठस्तं याज्ञवल्क्यं संपूज्य मनोवाक्काय-
कर्मभिः पूजयित्वा मुनयः सामश्रवःप्रभृतयः श्रवणधारणयोग्या अब्रुवन् उक्तवन्तः
धर्मान्नोऽस्मभ्यं ^४ब्रूहीति । कथम् ? अशेषतः कार्त्स्न्येन । केषाम् ? वर्णाश्रमेत-
राणाम्, वर्णा ब्राह्मणादयः; आश्रमा ब्रह्मचारिप्रभृतयः, इतरेऽनुलोमप्रतिलोम-
जाता मूर्धावसिक्तादयः । ‘इतर’शब्दस्य ‘द्वन्द्वे च’ (पा. १।१।३१) इति
सर्वनामसंज्ञाप्रतिषेधः । अत्र च ‘धर्म’शब्दः षड्विधस्मार्तधर्मविषयः । तद्यथा—
वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, गुणधर्मः निमित्तधर्मः, साधारणधर्मश्चेति ।
तत्र वर्णधर्मो ब्राह्मणो नित्यं मद्यं वर्जयेदित्यादि । आश्रमधर्मोऽग्नीन्धनभैक्ष-
१. पाठान्तरम्—मनुक्तं । २. प्रभुस्तं । ३. सोमश्रवाद्यः ।
४. ब्रूहि कथयेति । ५. स्मार्तकर्मविषयः । ६. वर्जयेद्विति ।