सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 572, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 572

५१६ याज्ञवल्क्यस्मृतिः

श्चित्तावृतिः कल्पनीया, न पुनः प्रायश्चित्ताभावः । अत एवोक्तं मनुना (११।
१४० )—'पूर्णे चानस्थनस्थ्नां तु शूद्रहत्याव्रतं चरेत्' इति । इदं च द्वादश-
वार्षिकं व्रतं साक्षाद्धन्तुरेव; ब्रह्महेति तस्यैवाभिधानात् । अनुग्राहकप्रयोजकादेस्तु
तत्तद्दोषानुसारेण प्रायश्चित्ततारतम्यं कल्पनीयम् । तत्रानुग्राहको यत्प्रायश्चित्तभाजं
पुरुषमनुगृह्णाति स तत्प्रायश्चित्तं पादोनं कुर्यात् । अतस्तस्य द्वादशवार्षिके पादोनं
नववार्षिकं प्रयोजकस्त्वर्धोनं षड्वार्षिकं कुर्यात् । अनुमन्ता पुनः सार्धपादं सार्ध-
चतुर्वार्षिकं निमित्ती त्वेकपादं त्रिवार्षिकम् । अत एव सुमन्तुः—'तिरस्कृतो यदा
विप्रो हत्वाऽऽत्मानं मृतो यदि । निर्गुणः साहसात्क्रोधाद् गृहक्षेत्रादिकारणात् ॥
त्रैवार्षिकं व्रतं कुर्यात्प्रतिलोमां सरस्वतीम् । गच्छेद्वाऽपि विशुद्ध्यर्थं तत्पापस्येति
निश्चितम् ॥ अत्यर्थं निर्गुणो विप्रो ह्यत्यर्थं निर्गुणोपरि । क्रोधाद्वै म्रियते यस्तु
निर्निमित्तं तु भर्त्सितः । वत्सरत्रितयं कुर्यान्नरः कृच्छ्रं विशुद्धये ॥' इति । यदा
पुनर्निमित्त्यत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणस्तदैकवर्षमेव ब्रह्महत्याव्रतं
कुर्यात् ; केशश्मश्रुनखादीनां कृत्वा तु वपनं वने । ब्रह्मचर्यं चरन्विप्रो वर्षेणैकेन
शुद्ध्यति ॥' इति तेनैवोक्तत्वात् ॥ अनयैव दिशाऽनुग्राहकप्रयोजकादीनां येऽनु-
ग्राहकप्रयोजकादयस्तेषामपि प्रायश्चित्तं कल्प्यम् । अस्यां च कल्पनायां प्रयोजयि-
ताऽनुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु २भागिनो यो भूय आरभते तस्मि-
न्फलविशेषः' (२।२९।१) इत्यापस्तम्बीयं वचनं मूलम् । तथा प्रोत्साहकादीना-
मपि दण्डप्रायश्चित्ते कल्प्ये । यथाह पैठीनसिः-'हन्ता मन्तोपदेष्टा च तथा संप्रति-
पादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ आश्रयः शस्त्रदाता च
भक्तदाता विकर्मिणाम् । उपेक्षकः शक्तिमांश्चैवोपवक्ताऽनुमोदकः ॥ अकार्यकारि-
णस्त्वेषां प्रायश्चित्तं प्रकल्पयेत् । यथाशक्त्यनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥'
इति । तथा बालवृद्धादीनां साक्षात्कर्तृत्वेऽप्यर्थमेव 'अशीतिर्यस्य वर्षाणि बालो
वाऽप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥' इत्यङ्गिरःस्मरणात्।
तथाँ सुमन्तुः—'अर्वाक्तु द्वादशाद्वर्षादशीतेरूर्ध्वमेव वा । अर्धमेव भवेत्पुंसां
तुरीयं तत्र योषिताम् ॥' इति ॥ तथाऽनुपनीतस्यापि बालकस्य पादमात्रमेव
प्रायश्चित्तम्; 'स्त्रीणामर्धं प्रदातव्यं वृद्धानां रोगिणां तथा । पादो बालेषु दातव्यः
सर्वपापेष्वयं विधिः ॥' इति विष्णुस्मरणात् । अतश्च यच्छङ्खेन—'ऊनैकादशव-
र्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद् भ्राता पिता वाऽन्यः सुहृ-
ज्जनः ॥' इति प्रतिपाद्योक्तम् ,—'अतो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥' इति,–तदपिसंपूर्ण प्रायश्चित्ता-
भावप्रतिपादनपरं, न पुनः सर्वात्मना तदभावप्रतिपादनपरम् । आश्रमविशेष-
निरपेक्षेण श्रूयमाणेषु 'ब्राह्मणो न हन्तव्यः"तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां

१. वर्षेकेन विशुद्ध्यति । २. भागिनो भूय । ३. तथावार्वाक्कु ।