सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 565, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 565

प्रायश्चित्ताध्यायः ५०६
अनाहिताग्निताऽपण्यविक्रयः परिवेदनम् ॥ २३४ ॥
भृतादध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्वं वार्धुष्यं लवणक्रिया ॥ २३५ ॥
स्त्रीशूद्रविट्क्षत्रवधो निन्दिताथोपजीवनम् ।
नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥ २३६ ॥
धान्यकुप्यपशुस्तेयमयाज्यानां च याजनम् ।
पितृमातृसुतत्यागस्तडागारामविक्रयः ॥ २३७ ॥
कन्यासंदूषणं चैव परिविन्दकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ २३८ ॥
आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ २३९ ॥
इन्धनार्थं द्रुमच्छेदः स्त्रीहिंस्रौषधजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः ॥ २४० ॥
शूद्रप्रैष्यं हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरपुष्टता ॥ २४१ ॥
असच्छास्त्राधिगमनमाकरेष्वधिकारिता ।
भार्याया विक्रयश्चैषामेकैकमुपपातकम् ॥ २४२ ॥
गोवधो गोपिण्डव्यापादनम्, कालेऽनुपनीतत्वं व्रात्यता, ब्राह्मणसुवर्णतत्सम-
ष्ट्यतिरिक्तपरद्रव्यापहरणं स्तेयम्, गृहीतस्य सुवर्णादेरप्रदानमृणानामनपाकर-
णम्, तथा देवर्षिपितॄणां संबन्ध्वृणस्यानपाकरणं च । सत्यधिकारेऽनाहिताग्नि-
त्वम् ॥ ननु ज्योतिष्टोमादिकाश्श्रुतयः स्वाङ्गभूताग्निनिष्पत्त्यर्थमाधानं प्रयुञ्जत
इति मीमांसकप्रसिद्धिः, अतश्च यस्याग्निभिः प्रयोजनं तस्य तदुपायभूताधाने प्रवृ-
त्तिर्नाह्यार्थिन इव धनार्जने । यस्य पुनरग्निभिः प्रयोजनं नास्ति तस्याप्रवृत्तिरिति
कथमनाहिताग्नितादोषः ? उच्यते, — अस्मादेवाधानस्यावश्यकत्ववचनान्नित्यश्रुत-
योऽपि साधिकारित्वाविशेषादाधानस्य प्रयोजिका इति स्मृतिकाराणामभिप्रायो
लक्ष्यत इत्यदोषः । तथा अपण्यस्य लवणादेर्विक्रयः, सहोदरस्य ज्येष्ठस्य
तिष्ठतः कनीयसो भ्रातुर्दाराग्निसंयोगः परिवेदनम्, पणपूर्वाध्यापकादध्ययन-
ग्रहणम्, पणपूर्वाध्यापनम्, परदारसेवनं गुरुदारतत्समव्यतिरेकेण, पारि-
वित्त्वं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम्, वार्धुष्यं प्रतिषिद्धवृद्ध्युप-
जीवनम्, लवणक्रिया लवणस्योत्पादनम्, स्त्रिया वधः आत्रेयी सगर्भा ऋतु-
१. परिवेदक । २. संबन्ध्वर्णस्या । ३. साधिकारत्वाविशेषां ।
४. वृध्युपजीवित्वम् ।