याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 560, कुल 782 में से
संदर्भ में पढ़ें५०४ याज्ञवल्क्यस्मृतिः
वधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलं गुरुलाघवात् प्रायश्चित्तगुरुला-
घवं बोद्धव्यम्; 'यो भूय आरभते तस्मिन्फलविशेषः' इति वचनात् । तथा
चानुग्राहकस्य तावत्स्वयमेव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्यपि साक्षात्प्राण-
वियोगफलकखड्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्तृवद्भूयो हिंसारम्भक-
त्वाभावादल्पफलत्वमल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनक-
त्वेन व्यवहितत्वात्ततोऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्वेनोपदेष्टुर-
ल्पफलत्वम् ॥ ननु प्रयोजकहस्तस्थानीयत्वात्प्रयोज्यस्य न फलसंबन्धो युक्तः ।
यदि परप्रयुक्त्या प्रवर्तमानस्यापि फलसंबन्धस्तर्हि स्थपतितडागखनितृप्रभृतीना-
मपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते, शास्त्रोक्तं फलं प्रयोक्तृ-
रीत्या न्यायेनाधिकारिंकर्तृगतफलजनका देवकूपतडागनिर्माणादयः । नच स्थपति-
तडागखनित्रादयो देवकूपतडागकरणादिष्वधिकारिणः, स्वर्गकामित्वात् । अत्र
पुनः परप्रयुक्त्या प्रवर्तमानानामप्यहिंसायामधिकारित्वाद्भवत्येव तद्व्यतिक्रमान्निब-
न्धनो दोषः । अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वं प्रयोजकव्यापाराद्बहिरङ्गत्वा-
ल्लघुत्वाच्चानुमननस्य । निमित्तकर्तुः पुनराक्रोशाकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन
व्यवहितत्वान्मरणानुसंधानं विना प्रवृत्तत्वाच्चानुमन्तुः सकाशादप्यल्पफलत्वम् ॥
ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोरपि हन्तुपुरुषोत्पादनद्वारेण
हननकर्तृत्वप्रसङ्गः । उच्यते,—नहि पूर्वभावित्वमात्रेण कारणत्वम्; कारण-
तयापि तथाभावित्वोपपत्तेः । यत्खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि
भवति तद्धि कारणम् । यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान्
गृह्णीयादिति रथन्तरसामतैव क्रतोरैन्द्रवायवाग्रतायां कारणम् । नहि तत्र सोमयागः
स्वरूपेण कारणं; व्यभिचारात् । नच पित्रोस्तादृग्विधकारणलक्षणयोगित्वमिति
नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतित-
ब्राह्मणादिमरणे खानयितुर्दोषभावः । नहि कूपोऽनेन खानितः अतोऽहमात्मानं
व्यापादयामीत्येवं कूपखनननिमित्तं व्यापादनं यथाक्रोशादौ । अतः कूपकर्तुरपि
कारणत्वमेव, न पुनर्हिंसाहेतुत्वमिति मातापितृतुल्यतैव । तथा क्वचित्स-
त्यपि हिंसानिमित्तयोगत्वे परोपकारार्थप्रवृत्तौ वचनाद्दोषभावः । यथाह
संवर्तः—'बन्धने गोचिकित्सार्थे मूढगर्भविमोचने । यत्ने कृते विपत्तिश्चेत्प्राय-
श्चित्तं न विद्यते ॥ औषधं स्नेहमाहारं ददद्गोब्राह्मणादिषु । दीयमाने विपत्तिः
स्यान्न स पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयत्नैैरुपकुर्वताम् । प्राणसंत्राण-
सिद्धयर्थं प्रायश्चित्तं न विद्यते ॥' इति ।—एतच्चादाननिदाननिपुणभिषग्विषयम् ।
१. फलगुरु । २. देवकुलतडाग । ३. तडागकर्त्रादयो । ४. दप्य-
फलत्वम् । ५. ग्रता कारणम् । ६. नास्ति प्रसंगः ।