याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 558, कुल 782 में से
संदर्भ में पढ़ें५०२ याज्ञवल्क्यस्मृतिः
च्चयोऽपि नास्ति तर्हि व्यवहार्यतापि कथं भवति ? उच्यते, — उभयत्र प्रायश्चित्ता-
विशेषेऽपि फलविशेषः शास्त्रतोऽवगम्यते । अज्ञानकृते तु सर्वत्र पापक्षयः । यत्र
तु ‘ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धसंबद्धावागमस्तेन नास्तिकनिन्दित-
कर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्च’ ( २०।१।२ )
इति गौतमोक्तमहापातकादौ व्यवहार्यत्वं निषिद्धं, तस्मिन्पतनीये कर्मणि कामतः
कृते व्यवहार्यत्वमात्रं न पापक्षय इति । नच पापक्षयाभावे व्यवहार्यत्वमनुप-
पन्नम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारनिरोधिका चेति । तत्रेतर-
शक्त्यविनाशेऽपि व्यवहारनिरोधिकायाः शक्तेर्विनाशो नानुपपन्नस्तस्माग्णापजप-
गमेऽपि व्यवहार्यत्वं नानुपपन्नम् । यत्तु मनुवचनम् ( ११।४५ ) — ‘अकामतः
कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥’
इति,–तदपि कामकृते प्रायश्चित्तप्राप्त्यर्थं, न पुनः पापक्षयप्रतिपादनपरम् ।
अपतनीये पुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव; ‘अकामतः कृतं पापं
वेदाभ्यासेन शुद्ध्यति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥ इति
( ११।४६) मनुस्मरणात् । पतनीयेऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्तेषु
कल्मषक्षयो भवत्येव । फलान्तराभावात् । नौस्यान्यस्मिँल्लोके प्रत्यापत्तिर्विद्यते
कल्मषं तु निहन्यते’ ( १।२४—२६ ) इत्यापस्तम्बस्मरणात् ॥ २२६ ॥
भाषा—जो पापकर्म अज्ञानवश किया गया होता है वह प्रायश्चित्त से
दूर होता है । जानबूझ कर पापकर्म करके प्रायश्चित्त करने पर (वह पाप
दूर तो नहीं होता किन्तु) प्रायश्चित्त के वचन द्वारा लोक में व्यवहार की
योग्यता प्राप्त होती है ॥ २२६ ॥
निषिद्धाचरणादिकं प्रायश्चित्ते निमित्तमित्युक्तं तत्प्रपञ्चयितुमाह—
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
एते महापातकिनो यश्च तैः सह संवसेत् ॥ २२७ ॥
हन्तिरथं प्राणवियोगँकरे व्यापारे रूढः, यद्व्यापारसमनन्तरं कालान्तरे वा
कारणान्तरनिरपेक्षः प्राणवियोगो भवति सः, ब्राह्मणं हतवानिति ब्रह्महा,
मद्यपो निषिद्धसुरायाः पाता, स्तेनः ब्राह्मणसुवर्णस्य हर्ता, ‘ब्राह्मणसुवर्णोप-
हरणं महापातकं’ इत्यापस्तम्बस्मरणात् । गुरुतल्पगो गुरुभार्यागामी । ‘तल्प’-
शब्देन शयनवाचिना साहचर्याद्भार्या लक्ष्यते । एते ब्रह्महादयो महापात-
किनः । पातयन्तीति पातकानि ब्रह्महत्यादीनि । महत्त्कब्देन तेषां गुरुत्वं
१. ब्रह्महा सुरापो गुरुतल्पगो मातृपितृ । २. संबन्धावगम । ३. पाप-
क्षयं प्रति प्रतिपादन । ४. नास्यास्मिँल्लोके । ५. संविशेत्समान् । ६. वियो-
गकरणे ।