सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 556, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 556

५०० याज्ञवल्क्यस्मृतिः
पापेषु शास्त्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषाः अपश्चात्तापिनो मया दुष्कृतं
कृतमित्येवमुद्वेगरहिताः प्रायश्चित्तमकुर्वाणाः दुःसहान्नरकान्प्राप्नुवन्ति ॥ २२१ ॥
भाषा—पापकर्मों में निरत रहने वाले मनुष्य प्रायश्चित्त न करने
(किये हुए कर्म) पर पश्चात्ताप न करने पर अत्यन्त भयंकर एवं कष्टमय
नरकों में जाते हैं ॥ २२१ ॥
नरकस्वरूपं विवृण्वन्नाह—
तामिस्रं लोहशङ्कुं च महानिरयशाल्मली ।
रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ २२२ ॥
संघातं लोहितोदं च सविषं संप्रपातनम् ।
महानरककाकोलं संजीवनमहापथम् ॥ २२३ ॥
अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनं चैव ४तापनं चैकविंशकम् ॥ २२४ ॥
महापातकजैर्घोरैरुपपातकजैस्तथा ।
अन्विता यान्त्यचरितप्रायश्चित्ता नराधमाः ॥ २२५ ॥
तामिस्रप्रभृतींस्तापनपर्यन्तानेकविंशतिनरकानन्वर्थसंज्ञाद्योतितावान्तरभेदा-
न्महापातकोपपातकजनितभयंकरदुरितैरन्विता अनाचरितप्रायश्चित्ताः पुरुषाधमाः
प्राप्नुवन्ति ॥ २२२–२२५ ॥
भाषा—तामिस्र, लोहशङ्कु, महानिरय, शाल्मली, रौरव, कुङ्मल, पूति-
मृत्तिक, कालसूत्रक, संघात, लोहितोद, सविष, संप्रपातन, महानरक, काकोल,
संजीवन, महापथ, अवीचि, अन्धतामिस्र, कुम्भीपाक, असिपत्रवन, तापन ये
इक्कीस नरक हैं । घोर महापातकों एवं उपपातकों से युक्त अधम मनुष्य
प्रायश्चित्त न करने पर इन नरकों को प्राप्त करते हैं ॥ २२२–२२५ ॥
उपात्तदुरितनिरासार्थं प्रायश्चित्तमित्युक्तं, तत्र विशेषमाह—
प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस्तु वचनादिह जायते ॥ २२६ ॥
प्रायश्चित्तैर्वक्ष्यमाणलक्षणैरज्ञानाद्यदेनः पापं कृतं तदपैति गच्छति, न
कामतः कृतम् । किंतु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यो
जायते । अत्र च प्रायश्चित्तैरपैत्येनो यदज्ञानकृतम्' इत्युपक्रमात्तत्प्रतियोगि-
तया 'ज्ञानत' इति वक्तव्ये यत् 'कामतः' इत्युक्तं, तत् ज्ञानकामयोस्तुल्यत्व-
प्रदर्शनार्थम् । तथा हि-'विहितं यदकामानां कामात्तद् द्विगुणं भवेत् ।' तथाऽबुद्धि-
१. दुःखदान् । २. महारौर वशाल्मलिम् । ३. नदीपथम् । ४. तपनम् ।