याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 469, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४१३
नाप्सु स्नायादधः शयीत न दिवा स्वप्यात् न ग्रहाक्षिरिचेत नाग्निं स्पृशेत्
नाश्नीयान्न रज्जुं सृजेत् न च दन्तान्धावयेत् न हसेन्नच किंचिदाचरेत् अखर्वेण
पात्रेण पिबेदञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते' (४-७) इति
वसिष्ठस्मरणात् ।
आङ्गिरसेऽपि विशेषः—'हस्तेऽश्नीयान्मृन्मये वा हविर्भुक् क्षितिशायिनी ।
रजस्वला चतुर्थेऽह्नि स्नात्वा शुद्धिमवाप्नुयात् ॥' इति । पराशरेऽपि विशेषः—
'स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा
व्रतं चरेत् ॥ सिक्तगात्रा भवेदद्भिः साङ्गोपाङ्गा कथंचन । न वस्त्रपीडनं कुर्यान्नान्य-
द्वासाश्च धारयेत् ॥' इति उशनसाऽप्यत्र विशेषो दर्शितः—'ज्वराभिभूता या
नारी रजसा च परिप्लुता । कथं तस्या भवेच्छौचं शुद्धिः स्यात्केन कर्मणा ॥
चतुर्थेऽहनि संप्राप्ते स्पृशेदन्थाऽशुचिस्त्रियम् । सा सचैलावगाह्यापः स्नात्वा
स्नात्वा पुनः स्पृशेत् । दशद्वादशकृत्वो वा आचमेच्च पुनः पुनः ॥ अन्ते च
वाससां त्यागस्ततः शुद्धा भवेच्च सा । दद्याच्छक्त्या ततो दानं पुण्याहेन विशु-
द्ध्यति ॥' इति ।
अयं चातुरमात्रे स्नानप्रकारोऽनुसरणीयः ।. 'आंतुरे स्नान उत्पन्ने दशकृत्वो
ह्यनातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्ध्येत्स आतुरः ॥' (७।१०) इति
पराशरस्मरणात् । यदा तु रजस्वलायाः सूतिकाया वा मृतिर्भवति तदायं स्नान-
प्रकारः—'सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय
पञ्चगव्यं तथैव च ॥ पुण्यर्भिरभिमन्त्र्यापो वाचा शुद्धिं लभेत्ततः । तेनैव स्नाप-
यित्वा तु दाहं कुर्याद्यथाविधि ॥' रजस्वलायास्तु—'पञ्चभिः स्नापयित्वा तु
गव्यैः प्रेतां रजस्वलाम् । वस्त्रान्तरावृतां कृत्वा दाहयेद्विधिपूर्वकम् ॥'
इति । एतच्च रजोदर्शनपुत्रजन्मादि; यद्युदयोत्तरकालमुत्पन्नं तदा तद्दिवसप्रभृ-
त्याशौचाहोरात्रगणन। कार्या। यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्ध-
रात्रीप्राक् जननाद्युत्पत्तौ पूर्वदिवसैकदेशव्यापित्वेऽपि आशौचस्य तत्पूर्वदिवस-
प्रभृत्यैव गणन। कार्येत्येकः कल्पः । रात्रिं त्रेधा विभज्याद्ये भागद्वये जननादौ जाते
पूर्वदिनं ग्राह्यमिति द्वितीयः । प्रागुदयादित्यपरः । यथाह कश्यपः — 'उदिते तु
यदा सूर्ये नारीणां दृश्यते रजः । जननं वा विपत्तिर्वा यस्याहस्तस्य शर्वरी ॥ अर्ध-
रात्रावधिः कालः सूतकादौ विधीयते । रात्रिं कुर्यात्त्रिभागां तु द्वौ भागौ पूर्व एव
तु ॥ उत्तरांशः प्रभातेन युज्यते ऋतुसूतके । रात्रावेव समुत्पन्ने मृते रजसि
सूतके ॥ पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥' इति । यतेषां च कल्पानां
देशाचारतो व्यवस्था विज्ञेया ।
१. आशौचपूर्वदिनम् । २. यावन्नाभ्युदितो रविः ।