सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 419, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 419

व्यवहाराध्यायः ३६३
विक्रयानुशयोऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितम् । अधुना
तदुभयसाधारणं धर्ममाह—
क्षयं वृद्धिं च वणिजा पण्यानामविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन्षड्भागदण्डभाक् ॥ २५८ ॥
परीक्षितक्रीतपण्यानां क्रयोत्तरकालं क्रयकालपरिमाणतोऽर्घकृतां वृद्धिम्-
पश्यता क्रेत्रा अनुशयो न कार्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयमपश्यता
नानुशयितव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतृविक्रेत्रोरनुशयो भवतीति
व्यतिरेकादुक्तं भवति । अनुशयाकालावधिस्तु नारदेनोक्तः ( ८।९)—'क्रीत्वा
मूल्येन यः पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्य-
विक्षतम् ॥ द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्रिंशांशमावहेत् । द्विगुणं तु तृतीयेऽह्नि
परतः क्रेतुरेव तत् ॥' इति । अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्धनानु-
शयावधि 'र्दशैकपञ्चसप्ताहे'त्यादिना दर्शित एव । तदनया वाचोयुक्त्या वृद्धिक्षय-
परिज्ञानस्यानुशयकारणत्वमवगम्यते । यथा पण्यपरीक्षाविधिबलात्पण्यदोषाणा-
मनुशयकारणत्वं अतः पण्यदोषतद्वृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्त-
रेऽपि यद्यनुशयं करोति तदा पण्यषड्भागं दण्डनीयः । अनुशयकार-
णसद्भावेऽप्यनुशयकालातिक्रमेणानुशयं कुर्वतोऽप्ययमेव दण्डः । उपभोगैनावि-
नश्वरेषु स्थिरार्धेष्वनुशयकालातिक्रमेणानुशयं कुर्वतो मनूक्तो दण्डो द्रष्टव्यः (८।
२२३ )—'परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददच्चैव राज्ञा
दण्ड्यः शतानि षट् ॥' इति ॥ २५८ ॥
भाषा—पण्य (सौदे) की हानि और लाभ को न जानने वाले वणिक्
को सौदा खरीद कर उसका अनुशय (फेराफेरी) नहीं करना चाहिए।
यदि वह ऐसा करता है तो सौदे को षष्ठांश दण्ड के रूप में चुकावे ॥ २५८ ॥
इति विक्रीयासंप्रदानं नाम प्रकरणम् ।
अथ संभूयसमुत्थानप्रकरणम् २२
संभूयसमुत्थानं नाम विवादपदमिदानीमभिधीयते—
समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ २५९ ॥
'सर्वे वयमिदं कर्म मिलिताः कुर्मः' इत्येवंरूपा संप्रतिपत्तिः समवायः, तेन
ये वणिङ्नटनर्तकप्रभृतयो लाभलिप्सवः प्रातिस्विकं कर्म कुर्वते, तेषां
१. यत्पण्यं दुष्क्रीतं । २. पदमधुना समभिदधाति ।