याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 411, कुल 782 में से
संदर्भ में पढ़ेंसामान्य वस्तु को दबा लेने वाला, दासी का गर्भपात कराने वाला; और
पिता, पुत्र, बहन, भाई, पति, पत्नी आचार्य और शिष्य के निर्दोष होने पर
भी उनका ( एक दूसरे का ) त्याग करने वाला — ये सभी सौ। पण दण्ड के
भागी होते हैं ॥ २३४-२३७ ॥
इति साहसप्रकरणम् ॥
साहसप्रसङ्गात्तत्सदृशापराधेपु निर्णेजकादीनां दण्डमाह—
वसानस्त्रीन्पणान्दण्ड्यो नेजकस्तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान्दश ॥ २३८ ॥
नेजको वस्त्रस्य धावकः, स यदि निर्णेजनार्थं समर्पितानि वासांसि स्वयं-
माच्छादयति तदाऽसौ पणत्रयं दण्ड्यः । यः पुनस्तानि विक्रीणीते अवक्रयं
वा 'एतावत्कालमुपभोगार्थं वस्त्रं दीयते, मह्यमेतावद्धनं देयम्' इत्येवं भाट-
केन यो ददाति, आधित्वं वा नयति, स्वसुहृद्भ्यो याचितं वा ददात्यसौ प्रत्यप-
राधं दशपणान्दण्डनीयः । तानि च वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनी-
यानि न पाषाणे, नच व्यत्यसनीयानि; नच स्वगृहे वासयितव्यानि; इतरथा
दण्ड्यः । ( ८।३९६ )—'शाल्मलीफलके श्लक्ष्णे निर्दद्याद्वासांसि नेजकः । नच
वासांसि वासोभिर्निहरेन्न च वासयेत् ॥' इति मनुस्मरणात् ॥ यदा पुनः प्रमा-
दात्तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम्—'मूल्याष्टभागो हीयेत सकृद्धौतस्य
वाससः । द्विःपादस्त्रिस्तृतीयांशश्चतुर्धौतेऽर्धमेव च ॥ अर्धक्षयात्तु परतः पादां-
शापचयः क्रमात् । यावत्क्षीणदशं जीर्णं जीर्णस्यानियमः क्षयः ॥' इति । अष्ट-
पणक्रीतस्य सकृद्धौतस्य वस्त्रस्य नाशितस्याष्टमभागपोनं मूल्यं देयम् ।
द्विधौतस्य तु पादोनं, त्रिधौतस्य पुनस्तृतीयांश न्यूनम् । चतुर्धौतस्यार्धं पण-
चतुष्टयं देयम् । ततः परं प्रतिनिर्णेजनमवशिष्टं मूल्यं ४पादपादापचयेन देयम् ।
यावज्जीर्णं जीर्णस्य पुनर्नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २३८ ॥
भाषा—यदि धोबी धोने के लिए दिये गये दूसरों के वस्त्रों को स्वयं
पहनता है तो उसे तीन पण दण्ड लगता है; यदि वह उसे बेचता है, भाड़े देता
है, बन्धक रखता है या मँगनी देता है तो दश पण दण्ड लगता है ॥२३८॥
पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे चं तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥ २३९ ॥
१. विक्रयापक्रमाधानयाचितेषु ( = भाटकेनार्पणमपक्रमः, आधमनमा-
धानम् ) २. शाल्मले फलके । ३. अष्टमभागोनं पणं मूल्यं । ४. पादाप-
चयेन । ५. द्विशतो दमः । ६. तु । ७. व्यष्टशतो दमः ।
२३ या०