सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 397, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 397

व्यवहाराध्यायः ३४१
यत्र नेत्रयुगलहीन श्चेोऽन्ध इत्युच्यते तत्सत्यम् । यत्र पुनश्चक्षुष्मानेवान्ध
इत्युच्यते तदसत्यम् । यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदम्ब-
त्थास्तोत्रम् । एवंविधैयैः क्षेपं निर्भर्त्सनं करोत्यसौ अर्धाधिकत्रयोदशपणान्दण्ड-
नीयः । ( मनुः ८।२७४ )—'काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् ।
तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ॥' इति यन्मनुवचनं, तदतिदुर्वृत्तव-
र्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति
तेनैवोक्तम् । ( मनुः ८।२७५ )—'मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।
आक्षारयञ्शतं दाप्यः पन्थानं चाददद् गुरोः ॥' इति, एतच्च सापराधेषु मात्रादिषु
गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २०४ ॥
भाषा—जो किसी विकलेन्द्रिय और रोगी आदि को सच्चे या झूठे ही
निन्दापरक वचनों से आक्षेप करता है तो उससे साढ़े तेरह पण दण्ड लेना
चाहिए ॥ २०४ ॥
अश्लीलाक्षेपे दण्डमाह—
अभिगन्तास्मि भगिनीं मातरं वा तवेति हं ।
शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ २०५ ॥
'त्वदीयां भगिनीं मातरं वा अभिगन्तास्मि' इति शपन्तं अन्यां वा 'स्व-
जायामभिगन्ताऽस्मि' इत्येवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका
विंशतिर्यस्मिन्दण्डे स तथोक्तस्तं दमं दापयेत् ॥ २०५ ॥
भाषा—'तुम्हारी बहन या माँ का मैं अभिगन्ता ( जार ) हूँ' इस प्रकार
का वचन कहकर गाली देने वाले से राजा पच्चीस पण दण्ड ले ॥ २०५ ॥
एवं समानगुणेषु वर्णिषु दण्डमभिधाय विषमगुणेषु दण्डं प्रतिपादयि-
षुमाह—
अर्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।
अधमेष्वाक्षेप्त्रेपेक्षया न्यूनवृत्तादिगुणेष्वर्धो दण्डः । पूर्ववाक्ये पञ्चविं-
शतेः प्रकृतत्वात्तदपेक्षयार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनर-
विशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः । तथोत्त-
मेषु च स्वापेक्षयाधिकश्रुतवृत्तेषु दण्डः पञ्चाशत्पणात्मक एव ॥
वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनामाह—
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २०६ ॥
१. नेत्रोऽन्ध इति । २. हि । ३. गृह्यः ।