सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 395, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 395

प्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवस-
माजे सभिकेन च राजभागे दत्ते राजा धूर्त्तकितवमविप्रतिपन्नं जितं पणं दाप-
येत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे 'द्यूते जितपणं जेत्रे न
दापयेत् ॥ २०१ ॥
भाषा—राजा ( सभिक से ) अपना अंश प्राप्त करने पर ज्ञात ( गुप्त
नहीं अपितु राजा द्वारा संरक्षित ) द्यूतकरों के मण्डल में सभिक के निरीक्षण
में जीता हुआ धन जीतने वाले को दिलावे अन्यथा ( संरक्षित द्यूतकरमण्डल
न होने पर ) न दिलावे ॥ २०१ ॥
जयपराजयविप्रतिपत्तौ निर्णयोपायमाह—
द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि ।
द्यूतव्यवहाराणां द्रष्टारः सभ्यास्त एव कितवा एव राज्ञा नियोक्तव्याः;
न तत्र 'श्रुताध्ययनसंपन्ना' ( व्य० २ ) इत्यादिनियमोऽस्ति । साक्षिणश्च द्यूते
द्यूतकरा एव कार्याः न तत्र 'स्त्रीबालवृद्धकितव-' ( व्य० ७० ) इत्यादि-
निषेधोऽस्ति ॥—
क्वचिद्द्यूतं निषेद्धुं दण्डमाह—
राज्ञा संचिह्नं निर्वास्याः कूटक्षोपधिक्षेविनः ॥ २०२ ॥
कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति
तान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्राद्निर्वासयेत् । नारदेन तु निर्वासने
विशेष उक्तः ( १६।६ )—'कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् ।
कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ॥' इति । यानि च मनुवचनानि
द्यूतनिषेधपराणि ( मनुः ९।२२४ )—'द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत
वा । तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥' इत्यादीनि, तान्यपि कूटा-
क्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि ॥ २०२ ॥
भाषा—जुए के व्यवहार को देखने वाले एवं साक्षी वे ही ( द्यूतकर ही)
होते हैं। कपटपूर्वक ( मणि, मंत्र, औषध आदि से ) जुआ खेलने वाले को
कुत्ते के पंजे आदि चिह्न से दागकर राज्य से निर्वासित कर देवे ॥ २०२ ॥
द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् ।
किंच, यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं
कार्यम् , राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः; तस्करज्ञानकारणात् ।
१. द्यूते पणं जेत्रे । २. सचिह्ना ।
२२ या०